62141: देवताद्वन्द्वे च¶
Padacheda: देवताद्वन्द्वे | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
In a द्वन्द compound of the Names of Divinities, both the members retain their original accent.
Vasu English Translation¶
In a द्वन्द compound of the Names of Divinities, both the members retain their original accent. Thus, इ꣡न्द्रासोमौ꣡, इ꣡न्द्राव꣡रुणौ, इ꣡न्द्राबृ꣡हस्पती ॥ The word इन्द्र has acute on the first (by nipatana), सोम is formed by मन् (Unadi I.140), and has acute on the first (6.1.197), वरुण is formed by उनन् (Unadi III.53) and by (6.1.197) has acute on the first. बृ꣡हस्प꣡ति has two acutes by (6.2.140), and Indra-Brihaspati has three acutes. Why do we say “names of divinities”? Observe प्लक्षन्यग्रोधौ ॥ Why do we say ‘a Dvandva’? Observe अग्निष्टोमः ॥
Kashika¶
देवतावाचिनां यो द्वन्द्वस्तत्र युगपदुभे पूर्वोत्तरपदे प्रकृतिस्वरे भवतः। इन्द्रा॒सोमौ॑। इन्द्रा॒वरु॑णौ। इन्द्॒राबृह॒स्पती॑। ऋजेन्द्राग्र० (प०उ० २.२९) इति इन्द्रशब्द आद्युदात्तो निपातितः। सोम इति मन्प्रत्ययान्तः। वरुण उनन्प्रत्ययान्तः, तेनाद्युदात्तः। बृहस्पतिशब्दे वनस्पत्यादित्वाद् द्वावुदात्तौ, तेनेन्द्राबृहस्पती इत्यत्र त्रय उदात्ता भवन्ति। देवताग्रहणं किम्? प्ल॒क्ष॒न्य॒ग्रो॒धौ। द्वन्द्वग्रहणं किम्? अ॒ग्नि॒ष्टो॒मः॥
Siddhanta Kaumudi¶
उङे युगपत्प्रकृत्या स्तः । आ य इन्द्रावरुणौ (आ य इन्द्रा॒वरु॒णौ) । इन्द्राबृहस्पती वयम् (इन्द्रा॒बृह॒स्पती॑ व॒यम्) । देवता किम् । प्लक्षन्यग्रोधौ । द्वन्द्वे किम् । अग्निष्टोमः ॥
Padamanjari¶
उदाहरणेषु देवताद्वन्द्वे चेति पूर्वपदस्यानङ् । अत्र त्रय उदाता इति । त्रयाणां पपदानामादयः ॥
Nyaas¶
इन्द्रासोमौ इति। देवताद्वन्द्वे च इति पूर्वपदस्यानङ्। ऋज्रेन्द्र इत्यादि। वृधिवपिभ्यां रन् (द।उ।8।45), इत्यतो रन्नित्यनुवर्तगाने ऋज्रेन्द्रः (द।उ।8।46) इतीन्द्रशब्दो रन्प्रत्ययान्तो निपात्यते, तेनाद्युदात्तः। सोम इति मन्प्रत्ययान्तः इति। तेन सोऽप्याद्युदात्त एवेत्यभिप्रायः। मन्प्रत्ययान्तत्वं च तस्य षुञ्? अभिषवे (धातुपाठः-1247) इत्यस्मात्? अर्त्तिस्तुसुहुरुआउ (द।उ।7।26) इत्यादिना मन्प्रत्ययमुत्पाद्य व्युत्पादितत्वात्। वरुण उनन्प्रत्ययान्तः इति। कृवृदारिभ्य उनन् पं।उ।3।53) इति। बृहस्पतिशब्दो हि वनस्पत्यादिषु पठते, तत्र च पूर्वोत्तरपदयोर्युगपदाद्युदात्तत्वं विधीयते, तेन द्वावुदात्तौ। तेनेन्द्राबृहस्पती इत्यत्र तत्र उदात्ताः इति। इन्द्रशब्दादयः। प्लक्षन्यग्रोधौ इति। अत्र समासान्तोदात्तत्वमेव भवति। एवं अग्निष्टोमः इत्यत्रापि। षष्ठीसमासश्चायम्। समासस्वरापवादो योगः॥
Prakriyasarvasvam¶
उभे पदे युगपत् प्रकृत्या स्तः । इन्द्रावरुणयोरहम् । इन्द्राबृहस्पती वयम् ।