62142: नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु

Padacheda: न | S | 0 | 0 |

उत्तरपदे | S | 7 | 1 |

अनुदात्तादौ | S | 7 | 1 |

अ-पृथिवी-रुद्र-पूषमन्थिषु | S | 7 | 3 |

Sutrartha


Vasu English Summary

In a द्वन्द compound of the Names of Divinities, both members of the compound simultaneously do not retain their accent when the first syllable of the second word is अनुदात्त with the exception of 1.पृथिवी 2. रुद्र 3. पूष and 4. मन्थिन्।

Vasu English Translation

In a द्वन्द compound of the Names of Divinities, both members of the compound simultaneously do not retain their accent when the first syllable of the second word is अनुदात्त with the exception of 1.पृथिवी 2. रुद्र 3. पूष and 4. मन्थिन्। Thus इन्द्राग्नी, इन्द्रवायू, the words Agni and Vayu have acute on the final. The word uttarapada is repeated in the sutra, in order that it should be qualified by the word ‘anudattadau’, which latter would otherwise have qualified Dvandva. The word “anudattadau” shows the scope of the prohibition and the injunction. Why do we say with the exception of ‘prithivi’ &c? Observe द्यावापृथिव्यौ or व्यौ dvyava has acute on the first, ‘prithivi’ being formed by ‘nish’, has acute on the final. सोमारुद्रौ, Rudra is formed by ‘rak’ affix (Unadi II.22.), and has acute on the final. इन्द्रापूषणौ, Pushan has acute on the end. (Unadi I.159) शुक्रामन्थिनौ, the words Sukra and manthin have acute on the final.

Kashika

उत्तरपदेऽनुदात्तादौ पृथिवीरुद्रपूषमन्थिवर्जिते देवताद्वन्द्वे नोभे युगपत् प्रकृतिस्वरे भवतः। इ॒न्द्रा॒ग्नी (तै०सं० २.२.१.२)। इ॒न्द्॒रवा॒यू (तै०सं० ६.६.८.३)। अग्निवायुशब्दावन्तोदात्तौ। उत्तरपदग्रहणमनुदात्तादावित्युत्तरपदविशेषणं यथा स्याद्, द्वन्द्वविशेषणं मा भूदिति। अनुदात्तादाविति विधिप्रतिषेधयोर्विषयविभागार्थम्। अपृथिव्यादिष्विति किम्? द्यावा॑पृथि॒व्यौ (तै०सं० २.६.९.५)। द्यावाशब्द आद्युदात्तो निपातितः। पृथिवीशब्दो ङीष्प्रत्ययान्तत्वादन्तोदात्तः। रुद्र — सो॑मा॒रु॒द्रौ॑ (मै०सं० २.१.५)। रोदेर्णिलुक्० (प०उ० २.२२) इति रुद्रशब्दो रक्प्रत्ययान्तोऽन्तोदात्तः। पूषन् — इन्द्रा॑पू॒षणौ॑। श्वन्नुक्षन्पूषन्॰ (प० उ० १.१५९) इति पूषान्तोदात्तो निपात्यते। मन्थिन् — शु॒क्राम॒न्थिनौ॑ (तै०सं० ६.४.१०.३)। मन्थोऽस्यास्तीति मन्थी। इन्नन्तत्वादन्तोदात्तः। पृथिव्यादिषु तु उभे युगपत् प्रकृतिस्वरे भवत एव॥

Siddhanta Kaumudi

पृथिव्यादिवर्जितेऽनुदात्तावुत्तरपदे प्रागुक्तं न । इन्द्राग्निभ्यां कं वृषणः (इ॒न्द्रा॒ग्निभ्यां॒ कं वृष॑णः) । अपृथिव्यादौ किम् । द्यावापृथिवी जनयन् (द्यावा॑पृथि॒वी ज॒नय॑न्) । आद्युदात्तो द्यावा निपात्यते । पृथिवीत्यन्तोदात्तः । सोमा॑रुद्रौ । रोदेर्णिलुक्चेति रगन्तो रुद्रशब्दः । इन्द्रापूषणौ (इन्द्रा॑पूषणौ) । श्वन्नुक्षन् पूषन् इति पूषा अन्तोदात्तो निपात्यते । सुकामन्थिनौ । मन्थिन्निन्नन्तत्वादन्तोदात्तः । उत्तरपदग्रहणमनुदात्तादावित्युत्तरपदविशेषणं यथा स्यात् द्वन्द्वविशेषणं मा भूत् । अनुदात्तादाविति विधिप्रतिषेधयोर्विषयविभागार्थम् ॥

Padamanjari

अग्निशब्दः अङ्गेर्निर्नलोपश्चेति निप्रत्ययान्तः । कृवापाचिमिस्वदिसाध्यशूभ्य उण् , युक्, वायुः । उतरपदग्रहकणमित्यादि । अन्यथाऽस्मिन्प्रकरणे द्वन्द्वेः सप्तम्या निर्दिष्टः, नोतरपदम् तत्र अनुदातादौ इति सप्तम्यन्तं द्वन्द्वस्यैव विशेषणं स्यात्, ततश्चन्द्रसूर्यावित्यादौ प्रितषेधः स्यचात् । उतरपदग्रहणे तु सति तस्यैव श्रुतस्य अनुदातादौ त्येतिद्विशेषणं भवति । अनुदातादावित्यादि । तान्यथा विधिप्रतिषेधयोः समानविषयत्वाद्विकल्पः प्रसज्येत । प्रथेः षिवन् सम्प्रसारणं च । शुक्रशब्दोऽयम् ऋज्रेन्द्राग्र इत्यादिना निपातितोऽन्तोदातः ॥

Nyaas

अग्निवायुशब्दावन्तोदात्तौ इति। अग्निशब्दः वीज्याज्वरिभ्यो निः (द।उ।1।18) इति वर्तमाने अङ्गेर्नलोपश्च (द।उ।1।20) इति निप्रत्ययान्तः। वायुशब्दोऽपि कृवापाजि (द।उ।1।86) इत्यादिनोण्प्रत्ययान्तः, तेन प्रत्ययस्वरेण द्वावप्यन्तोदात्तौ। अथोत्तरपदग्रहणं किमर्थम्, यावता अनुदात्तादौ इति सप्तम्येवात्रानुदात्तादेरपदत्त्वं बोधयिष्यति? इत्यत आह -उत्तरपदग्रहणम् इत्यादि। इह हि प्रकरणे द्वन्द्वः सप्तम्या निर्दिष्टः, नोत्तरपदम्। तत्रानुदात्तादाविति सप्तमी द्वग्द्वस्यैव विशेषणमापद्यते -अनुदात्तादौ द्वन्द्वः। उत्तरपदग्रहणे तु सति द्वन्द्वे सप्तम्यांविहितायामनुदात्ता(दा) वित्येतदुत्तरपदस्य विशेषणं सम्पद्यते। तस्मादुत्तरपदविशेषणमेतद्यथा स्तात्, द्वन्द्वविशेषणं मा भूदित्येवमर्थमुत्तरपदग्रहणम्। अनुदात्तादौ इति। असत्येतस्मिन्नविशेषणे विधिरपि देवताद्वन्द्व उच्यते, प्रतिषेधोऽपि, ततश्च तयोर्विषयविबागो न स्यात्; एवञ्च समानविषयत्वाद्विकल्पः प्रसज्येत। अनुदत्तादावित्यस्मस्तु सति यत्रानुदात्ताद्युत्तरपदो देवताद्वन्द्वस्तग्त्र प्रतिषेधः स्यात्, ततोऽन्यस्तु विधिरिति विधिप्रतिषेधयोर्विषयविभागो भवति। अतो विषयविबागार्थमनुदात्तादावित्युच्यते। पृथिवीशब्दो ङीष्प्रत्ययान्तः इति। गौरादिषु पाठात्। रोदेर्णिलुक्? च इति। रुदिर्? अश्रुविमोचने (धातुपाठः-1067) इत्यस्माण्ण्यन्तात्? स्फायितञ्चि (द।उ।8।31) इत्यादि -सूत्रद्रगित्यनुवर्तमाने रोदेर्णिलुक्? च (द।उ।8।39) इति रक्, तेन रुद्रोऽन्तोदात्तः। शुक्रामन्थिनौ इति। शुक्रशब्दः ऋजेन्द्रः (द।उ।8।46) इत्यादिना रन्प्रत्ययान्तः, तेनाद्युदात्तः॥

Prakriyasarvasvam

पृथिव्यादिवर्जितेऽनुदात्तादौ परपदे देवताद्वन्द्वे युगपत्प्रकृत्या न स्तः । इन्द्रवायू भवामहे । अत्र समासस्वरः । पृथिव्यादौ तु-द्यावापृथिव्यौ । सोमारुद्रौ । इन्द्रापूषाणौ । शुक्लामन्थिनौ⁴ । इति द्वन्द्वस्वरः ।