62141: देवताद्वन्द्वे च ======================= **Padacheda:** देवताद्वन्द्वे | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- In a द्वन्द compound of the Names of Divinities, both the members retain their original accent. Vasu English Translation ------------------------ In a द्वन्द compound of the Names of Divinities, both the members retain their original accent. Thus, इ꣡न्द्रासोमौ꣡, इ꣡न्द्राव꣡रुणौ, इ꣡न्द्राबृ꣡हस्पती ॥ The word इन्द्र has acute on the first (by *nipatana*), सोम is formed by मन् (*Unadi* I.140), and has acute on the first (6.1.197), वरुण is formed by उनन् (*Unadi* III.53) and by (6.1.197) has acute on the first. बृ꣡हस्प꣡ति has two acutes by (6.2.140), and *Indra*-*Brihaspati* has three acutes. Why do we say "names of divinities"? Observe प्लक्षन्यग्रोधौ ॥ Why do we say 'a *Dvandva*'? Observe अग्निष्टोमः ॥ Kashika ------- देवतावाचिनां यो द्वन्द्वस्तत्र युगपदुभे पूर्वोत्तरपदे प्रकृतिस्वरे भवतः। इन्द्रा॒सोमौ॑। इन्द्रा॒वरु॑णौ। इन्द्॒राबृह॒स्पती॑। **ऋजेन्द्राग्र०** (प०उ० २.२९) इति इन्द्रशब्द आद्युदात्तो निपातितः। सोम इति मन्प्रत्ययान्तः। वरुण उनन्प्रत्ययान्तः, तेनाद्युदात्तः। बृहस्पतिशब्दे वनस्पत्यादित्वाद् द्वावुदात्तौ, तेनेन्द्राबृहस्पती इत्यत्र त्रय उदात्ता भवन्ति। देवताग्रहणं किम्? प्ल॒क्ष॒न्य॒ग्रो॒धौ। द्वन्द्वग्रहणं किम्? अ॒ग्नि॒ष्टो॒मः॥ Siddhanta Kaumudi ----------------- उङे युगपत्प्रकृत्या स्तः । आ य इन्द्रावरुणौ (आ य इन्द्रा॒वरु॒णौ) । इन्द्राबृहस्पती वयम् (इन्द्रा॒बृह॒स्पती॑ व॒यम्) । देवता किम् । प्लक्षन्यग्रोधौ । द्वन्द्वे किम् । अग्निष्टोमः ॥ Padamanjari ----------- उदाहरणेषु देवताद्वन्द्वे चेति पूर्वपदस्यानङ् । अत्र त्रय उदाता इति । त्रयाणां पपदानामादयः ॥ Nyaas ----- `इन्द्रासोमौ` इति। `देवताद्वन्द्वे च` इति पूर्वपदस्यानङ्। `ऋज्रेन्द्र` इत्यादि। `वृधिवपिभ्यां रन्` (द।उ।8।45), इत्यतो रन्नित्यनुवर्तगाने `ऋज्रेन्द्रः` (द।उ।8।46) इतीन्द्रशब्दो रन्प्रत्ययान्तो निपात्यते, तेनाद्युदात्तः। `सोम इति मन्प्रत्ययान्तः` इति। तेन सोऽप्याद्युदात्त एवेत्यभिप्रायः। मन्प्रत्ययान्तत्वं च तस्य `षुञ्? अभिषवे` (धातुपाठः-1247) इत्यस्मात्? `अर्त्तिस्तुसुहुरुआउ` (द।उ।7।26) इत्यादिना मन्प्रत्ययमुत्पाद्य व्युत्पादितत्वात्। `वरुण उनन्प्रत्ययान्तः` इति। `कृवृदारिभ्य उनन्` पं।उ।3।53) इति। बृहस्पतिशब्दो हि वनस्पत्यादिषु पठते, तत्र च पूर्वोत्तरपदयोर्युगपदाद्युदात्तत्वं विधीयते, तेन द्वावुदात्तौ। `तेनेन्द्राबृहस्पती इत्यत्र तत्र उदात्ताः` इति। इन्द्रशब्दादयः। `प्लक्षन्यग्रोधौ` इति। अत्र समासान्तोदात्तत्वमेव भवति। एवं `अग्निष्टोमः` इत्यत्रापि। षष्ठीसमासश्चायम्। समासस्वरापवादो योगः॥ Prakriyasarvasvam ----------------- उभे पदे युगपत् प्रकृत्या स्तः । इन्द्रावरुणयोरहम् । इन्द्राबृहस्पती वयम् ।