62084: ग्रामेऽनिवसन्तः ====================== **Padacheda:** ग्रामे | S | 7 | 1 | अनिवसन्तः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- Before ग्राम the first syllable of the first member as acute accent (उदात्त) when thereby inhabitants are not meant. Vasu English Translation ------------------------ Before ग्राम the first syllable of the first member as acute accent (उदात्त) when thereby inhabitants are not meant. Thus म꣡ल्लग्रामः, व꣡णिग्ग्रामः ॥ Here ग्राम is equal to समूह 'an assembly'. देवग्रामः = देवस्वामिकः ॥ Why do we say 'when not meaning inhabitants'. Observe दाक्षिग्रामः 'a village inhabited by the descendants of *Daksha*', माहिकग्रामः 'a village inhabited by *Mahikas*'. Kashika ------- ग्रामशब्द उत्तरपदे पूर्वपदमाद्युदात्तं भवति, न चेद् निवसद्वाचि भवति। मल्ल॑ग्रामः। वणि॑ग्ग्रामः। ग्रामशब्दोऽत्र समूहवाची। देव॑ग्रामः। देवस्वामिक इत्यर्थः। अनिवसन्त इति किम्? दा॒क्षि॒ग्रा॒मः। मा॒ह॒कि॒ग्रा॒मः। दाक्ष्यादयो निवसन्ति यस्मिन् ग्रामे, स तेषामिति व्यपदिश्यते॥ Siddhanta Kaumudi ----------------- ग्रामे परे पूर्वपदमुदात्तम् । तच्चेन्निवसद्वाचि न । मल्लग्रामः । ग्रामशब्दोऽत्र समूहवाची । देवग्रामः । देवस्वामिकः । अनिवसन्तः किम् । दाक्षिग्रामः । दाक्षिनिवासः ॥ Padamanjari ----------- निपूर्वाद्वसेरौणादिकोऽधिकरणे झच् , निवसग्त्यस्मिन्निति निवसन्तः । देवग्राम इति । प्राचीनपरिक्षिप्तदेशेऽयं ग्रामशब्दः । यद्येवम्, निवसन्तवाची भवति तत्राह - देवस्वामिक कैति । ततश्चायं न देवापेक्षया ग्रामो निवसन्त इति भावः । दाक्ष्यादयो निवसन्ति यस्मिन्नित्यादि । अन्ये निवसन्तु, तत्र मा वा यसन्, ते तावदवात्सुरित्येतावता तेपामिति व्यपदिश्यत इत्यर्थः ॥ Nyaas ----- `निवसन्तशब्दोऽयमौणादिको गृह्रते। `जृविशिभ्यां झच्` (द।उ।6।17) इति वर्तमाने `तृभूवहिवसिभासिसाधिगतिमण्डिजिनन्दिभ्यश्च` (द।उ।6।19) [तृभृवहिवसिभासिसाधिगाडिमण्डिजिवन्दिभ्यश्च -द।उ।] इति वसेर्निपूर्वाज्झच्। निवसतीति निवसन्तः। केचिच्छन्नन्तस्य वसच्छब्दसय ग्रहणं वर्णयन्ति। `मल्लग्रामः` इति। षष्ठीसमासः। `देवग्रामः` इति। वाटकपरिक्षिप्ते गृहसमुदाये ग्रामशब्दो वर्तते। तस्माद्देवस्वामिक इत्यर्थः। एतेन स्वस्वामिभावसम्बन्धा या साऽत्र षष्ठी समस्यते, न तु क्रियावाससम्बन्धेति दर्शयति; अन्यथा देवशब्दः पूर्वपद निवसन्तवाच्येव स्यादित्यभिप्रायः। `दाक्ष्यादयो निवसन्ति यस्मिन्` इत्यादिना प्रत्युदाहरणे पूर्वपदस्य निवसन्तवाचित्वं दर्शयति॥ Prakriyasarvasvam ----------------- निवसन्तो निवासी (? सिनः) । तदन्यवाचि प्राक्पदं ग्रामे परे आद्युदात्तं स्यात् । मल्लग्रामः-तत्समूहः । देवग्रामः-तत्स्वमिकः । निवासिनि तु दाक्षिग्रामः ।