62074: प्राचां क्रीडायाम्¶
Padacheda: प्राचाम् | S | 6 | 3 |
क्रीडायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
A compound, the second member of which is a word ending in affix अक and which denotes the sport of the Eastern people, gets the acute accent (उदात्त) on the first syllable.
Vasu English Translation¶
A compound, the second member of which is a word ending in affix अक and which denotes the sport of the Eastern people, gets the acute accent (उदात्त) on the first syllable. Thus उ꣡द्दालकपुष्पभञ्जिका, वी꣡रणपुष्पप्रचायिका, शा꣡लभञ्जिका, ता꣡लभञ्जिका ॥ These are formed by ण्वुल् affix (3.3.109), and the compounding takes place by (2.2.17). Why do we say ‘of the Eastern Folk’? Observe जीवपुत्रप्रचायिका, which is a sport of the Western People. Why do we say ‘when denoting a sport’? Observe तवपुष्पप्रचायिका ‘thy turn for &c’, which is formed by ण्वुच् (3.3.111) and denotes ‘rotation or turn’.
Kashika¶
प्राग्देशवर्तिनां या क्रीडा तद्वाचिनि समासेऽकप्रत्ययान्त उत्तरपदे पूर्वपदमाद्युदात्तं भवति। उद्दा॑लकपुष्पभञ्जिका। वीर॑णपुष्पप्रचायिका। शाल॑भञ्जिका। ताल॑भञ्जिका। संज्ञायाम् (३.३.१०९) इति ण्वुल, नित्यं क्रीडाजीविकयोः (२.२.१७) इति षष्ठीसमासः। प्राचामिति किम्? जी॒व॒पु॒त्र॒प्॒रचायि॑का। इयमुदीचां क्रीडा। क्रीडायामिति किम्? तव पु॒ष्प॒प्॒रचा॒यि॒का। पर्याये ण्वुच्प्रत्ययो भवति॥
Siddhanta Kaumudi¶
प्राद्गेश वाचिना या क्रीडा तद्वाचिनि समासे अकप्रत्ययान्ते परे पूर्वमाद्युदात्तं स्यात् । उद्दालकपुष्पभञ्जिका । संज्ञायाम् (SK3286) इति ण्वुल् । प्राचां किम् । जीवपुत्रप्रचायिका । इयमुदीचां क्रीडा । क्रीडायां किम् । तव पुष्पप्रचायिका । पर्याये ण्वुल् ॥
Padamanjari¶
प्राचां क्रीडायामिति श्रुतयोरेवान्वयसम्भवान्मतेनेत्यध्याहारो न युक्त इति चमत्वाऽऽह - प्राग्देश्वतिनां या एक्रीडेति ॥
Prakriyasarvasvam¶
प्राग्देशगक्रीडार्थे समासेऽकान्ते परे प्राक्पदमाद्युदात्तं स्यात् । 1वारणपुष्प- प्रचायिका । प्राग्वत् समासः । उदीचां तु जीवपुष्पप्रचायिका ।