62073: अके जीविकाऽर्थे¶
Padacheda: अके | S | 7 | 1 |
जीविका-अर्थे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
A word denoting the object of comparison gets the acute accent (उदात्त) on the first syllable when the second member is a word ending in the affix अक and the compound expresses a calling by which one gets his living.
Vasu English Translation¶
A word denoting the object of comparison gets the acute accent (उदात्त) on the first syllable when the second member is a word ending in the affix अक and the compound expresses a calling by which one gets his living. Thus द꣡न्तलेखकः, न꣡खलेखकः, अ꣡वस्करशोधकः, र꣡मणीयकारकः = दन्तलेखनादिभिर्येषां जीविका ॥ The compounding takes place by (2.2.17). Why do we say when meaning ‘means of living’? Observe इक्षुभक्षिकां मे धारयसि ॥ All affixes which ultimately become अक by taking substitutes, are called अक affixes. Thus ण्वुल्, वुन् &c are अक affixes (VII.I.I). Why do we say “ending in the affix अक”? Observe रमणीयकर्त्ता ॥ Here the compounding takes place by (2.2.17), and the affix तृच् is added in the sense of sport and not of livelihood.
Kashika¶
अकप्रत्ययान्त उत्तरपदे जीविकार्थवाचिनि समासे पूर्वपदमाद्युदात्तं भवति। दन्त॑लेखकः। नख॑लेखकः। अव॑स्करशोधकः। रम॑णीयकारकः। दन्तलेखनादिभिर्येषां जीविका, त एवमुच्यन्ते। नित्यं क्रीडाजीविकयोः (२.२.१७) इति समासः। अक इति किम्? र॒म॒णी॒य॒क॒र्ता। जीविकार्थ इति किम्? इ॒क्षु॒भ॒क्षि॒कां मे धारयसि॥
Siddhanta Kaumudi¶
दन्तलेखकः । यस्य दन्तलेखनेन जीविका । नित्यं क्रीडा-(SK711) इति समासः । अके किम् । रमणीयकर्ता । जीविकार्थे किम् । इक्षुभक्षिकां मे धारयसि ॥
Padamanjari¶
जीविकावाजिनीति । प्रवृत्तिनिमितकथनमेतत्, जीविकारुपप्रवृत्तिनिमित इत्यर्थः । पर्यवसानभूमिस्तु तध्वान्, तदाह - दन्तलेखनादिभिर्यषामिति । रमणीयकतेति । अत्रापि नित्यं क्रीडाजीविकयोः इति समासः, क्रीडायामेव हि तृजन्तं सम्भवति, न पुनर्जीविकायामिति तत्रार्थः ॥
Nyaas¶
अके इति प्रत्ययग्रहणम्। तत्र प्रत्ययग्रहणपरिभाषया (नी।प।वृ।31) तदन्तस्य ग्रहणं विज्ञायत इत्याह -`अकप्रत्ययान्त उत्तरपदे इति। जीविकावाचिनि इति। जीविका=जीवकः तद्वाचिनीत्यर्थः। जीविकाशब्दो ह्रर्शाअदेराकृतिगणत्वान्मत्वर्थीयाकारान्तः सूत्र उपात्तः। अत एव वृत्तौ दन्तलेखनादिभिर्येषां जीविका त एवमुच्यन्त इत्याह -दन्तलेखलः इति। लिकेर्ण्वुल्, षष्ठीसमासः। षष्ठी पुनः कर्तृकर्मणोः कृति (2.3.65) इति कर्मणि। अवस्करशोधकः इति। शुध शौचकर्मणि (धातुपाठः-1191) [शौचे -धातुपाठः-] इत्यस्माण्ण्यन्ताण्ण्वुल्। रमणीयकारकः इत्यत्रापि करोतेः। रमणीयकर्ता इति। पूर्ववत्? समासः। अत्र गतिकारकोपपदात् कृत् (6.2.139) इति प्रकृतिभावेनोत्तरपदमन्तोदात्तम्। इक्षुभक्षिकाम् इत्यादि। पर्यायर्हणोत्पत्तिषु ण्वच् (3.3.111) इति भक्षयतेर्ण्वुच्। अत्र षष्ठी (2.2.8) इति समासलक्षणेनैव समासः। अत्रापि पूर्ववदुत्तरपदमन्तोदात्तम्। कृत्स्वरापवादो योगः। एवमुत्तरत्रापि योगाः। युक्तारोह्रादयश्च (6.2.81) इत्यतः प्राक्? कृत्स्वरापवादो वेदितव्यः॥
Prakriyasarvasvam¶
अकान्ते परे जीविकार्थे समासे प्राक्पदमाद्युदात्तं स्यात् । दन्तलेखकः ।