62067: विभाषाऽध्यक्षे¶
Padacheda: विभाषा | S | 7 | 1 |
अध्यक्षे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The acute accent (उदात्त) on the first syllable is optional when the word अध्यक्ष follows.
Vasu English Translation¶
The acute accent (उदात्त) on the first syllable is optional when the word अध्यक्ष follows. Thus ग꣡वाध्यक्षः or गवाध्यक्षः꣡ ‘a superintendent of cows’ : अ꣡श्वाध्यक्षः or अश्वाध्यक्षः꣡ ॥
Kashika¶
अध्यक्षशब्द उत्तरपदे विभाषा पूर्वपदमाद्युदात्तं भवति। गवा॑ध्यक्षः,ग॒वा॒ध्य॒क्षः। अश्वा॑ध्यक्षः, अ॒श्वा॒ध्य॒क्षः॥
Siddhanta Kaumudi¶
गवाध्यक्षः ॥
Padamanjari¶
पापमिति स्वरुपग्रहणम्, शिल्पिनीति चार्थग्रहणम् व्याख्यानात् ॥
Nyaas¶
अध्यक्षशब्दोऽपि समासे युक्तवाच्येव, तत्र पूर्वेण नित्यमाद्युदात्तत्वे प्राप्ते विभाषेयमारभ्यते। आद्युदात्तत्वेन मुक्ते समासान्तोदात्तत्वमेव भवति। गवामध्यक्ष इति षष्ठीसमासः॥
Prakriyasarvasvam¶
अस्मिन् परे प्राक्पदमाद्युदात्तं वा स्यात् । गवाध्यक्षः ।