62066: युक्ते च

Padacheda: युक्ते | S | 7 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The first member of a compound has acute on the first syllable when the second member denotes that by whom the things denoted by the first are regulated or kept in order.

Vasu English Translation

The first member of a compound has acute on the first syllable when the second member denotes that by whom the things denoted by the first are regulated or kept in order. The word युक्त means ‘he who is prompt in the discharge of his appointed duty’ i.e. the person appointed to look after. Thus गोबल्लवः ‘a cowherd looking after cow’: अ꣡श्वबल्लवः, गो꣡मणिन्दः, अ꣡श्वमणिन्दः, गो꣡संख्यः, अ꣡श्वसंख्यः ॥ All these word बल्लवः, मणिन्दः, संख्यः &c mean पालकः the protector &c.

Kashika

युक्तवाचिनि च समासे पूर्वपदमाद्युदात्तं भवति। गोब॑ल्लवः। अश्व॑बल्लवः। गोम॑णिन्दः। अश्व॑मणिन्दः। गोसं॑ख्यः। अश्व॑संख्यः। युक्त इति समाहितः, कर्तव्ये तत्परो यः स उच्यते॥

Siddhanta Kaumudi

युक्तवाचिनि समासे पूर्वमाद्युदात्तम् । गोबल्लवः । कर्तव्ये तत्परो युक्तः ॥

Padamanjari

वल्लवादयः शब्दा गवादीनां पालकवचनाः । मथणिं ददातीति मणिन्दः पृषोदरादिः । गाः सञ्चष्टे, समि ख्यः इति कः गौसंख्यः, उपपदसमासः । नन्वत्र परत्वात्थाथादिस्वरः प्राप्नोति, अस्य तु गौबल्लवादिरवकाशः सत्यम्, पूर्वविप्रतिषेधास्त्वत्र पठितव्यः, चित्स्वराद्धारिस्वरः - पितृगवः, मातृगावः, कृत्स्वराञ्च वाडवहार्यम् । युक्तस्वरश्च कृत्स्वरादित्येव, कृतो यः स्वरस्थाथादिसृत्रेण तस्माद्यौक्तस्वरो भवति पूर्वविप्रतिषेधेनेत्यर्थः । युक्तः समाहि इति । युज समाधौ इत्यसेयैतद्रूपमित्यर्थः ॥

Nyaas

युक्तः=समाहितः, कार्ये तत्पर इत्युच्यते। गोबल्लवः इति। अधिकारनाम, सोऽस्यास्तीति वप्रकरणेऽन्येभ्योऽपि दृश्यते (वा।580) इति वप्रत्ययः, गवां बल्लव इति षष्ठीसमासः। अत्रापि समासस्वर एव प्राप्ते पूर्वपदाद्युदात्तत्वं विधीयते। `गोमणिन्दः इति। मणिं ददातीति आतोऽनुपसर्गे कः (3.2.3) , तत्पुरुषे कृति बहुलम् (6.3.14) इति विभ्क्तेरलुक्, ततो गवां मणिन्द इति षष्ठीसमासः। अत्रापि समासस्वर एव प्राप्तेऽयं विधिः। गोसंख्यः इति। गां सञ्चष्ट इति समि ख्यः (3.2.7) इति कः, उपपदसमासः गतिकारकोपपदात् (6.2.139) इति कृत्स्वरे प्राप्ते पूर्वपदस्योदात्तार्थमिहापि वचनम्! ननु च परत्वात्? थाथादिस्वरः (6.2.143) प्राप्नोति, तस्माद्गोबल्लवादौ कथमिदं वचनमिति, युक्तस्वरं कृत्सवर एव बाधेत? एवं तर्हि पूर्वविप्रतिषेधो वक्तव्यः; परशब्दस्येष्टवाचित्वात्। गोबल्लव इत्येवमादयः समासाः सर्वे युक्तवाचिन इति दर्शयन्नाह -युक्त इति समाहितः इत्यादि। अनेन युज समाधौ (धा।प।1177) इत्यस्य निष्ठायां युक्त इत्येतद्दर्शयति॥

Prakriyasarvasvam

उद्युक्तार्थे समासे प्राक्पदस्यादिरुदात्तः स्यात् । गोसंख्यः । गोसंख्याने समाहित इत्यर्थं ।