62063: राजा च प्रशंसायाम्

Padacheda: राजा | S | 1 | 1 |

च | S | 0 | 0 |

प्रशंसायाम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The word राजन् optionally retains its original accent after a profession-denoting noun when praise is expressed.

Vasu English Translation

The word राजन् optionally retains its original accent after a profession-denoting noun when praise is expressed. Thus रा꣡जनापितः or राजनापितः꣡, रा꣡जकुलालः or राजकुलालः꣡ “A royal barber i. e. a skillful barber or one fit to serve the king even” &c. It may be either a Karmadharaya or a Genitive compound. Why do we say ‘राजन्’? Observe परमनापितः ॥ Why do we say ‘when denoting praise’? Observe राजनापितः꣡ ‘king’s barber’. Why do we say ‘a professional man’? Observe राजहस्ती ‘a royal elephant’.

Kashika

राजशब्दः पूर्वपदं शिल्पिवाचिन्युत्तरपदे प्रशंसायां गम्यमानायामन्यतरस्यां प्रकृतिस्वरं भवति। राज॑नापितः, रा॒ज॒ना॒पि॒तः। राज॑कुलालः, रा॒ज॒कु॒ला॒लः। कर्मधारये राजगुणाध्यारोपेणोत्तरपदार्थस्य प्रशंसा। षष्ठीसमासे च राजयोग्यतया तस्य। राजेति किम्? प॒र॒म॒ना॒पि॒तः। प्रशंसायामिति किम्? रा॒ज॒ना॒पि॒तः। शिल्पिनीत्येव — रा॒ज॒ह॒स्ती॥

Siddhanta Kaumudi

शिल्पिवाचिनि परे प्रशंसार्थं राजपदं वा प्रकृत्या । राजनापितः । राजकुलालः । प्रशंसायां किम् । राजनापितः । शिल्पिनि किम् । राजहस्ती ॥

Padamanjari

षष्ठीसमासे चेति । प्रशंसेत्यनुषङ्गः । राजयोग्यतया तस्येति । स हि कर्मणि प्रवीणत्वाद्राजानं प्रति योग्यो भवति । राजार्ह इति चोक्ते प्रशंसा गम्यते ॥

Nyaas

कर्मधारये इत्यादि। राजनापितः` इति। कर्मधारयोऽयं वा स्यात्, षष्ठीतत्पुरुषो वा? तत्र यदा कर्मधारयस्तदा राजशब्दस्य नापित उपचारेण वृत्तिः। उपचारस्तु राजगुणारोपनिबन्धनः, अतस्तेनैवोत्तरपदस्य प्रशंसा भवति। कथं पुनर्नापितः षष्ठीसमासेन राजनापितशब्देनोच्यते? इत्याह राजयोग्यतया तस्य इत्यादि। स हि स्वकर्मणि प्रवीणत्वाद्राजानं प्रति योग्यो भवति। अतोऽपि राजनापित इति षष्ठीसमासेनोच्यते। अत्र पक्षे तस्यैव योग्यतयोत्तरपदस्य प्रशंसा वेदितव्या॥

Prakriyasarvasvam

शिल्प्यर्थे परे राजा प्राक्पदं स्तुतौ वा प्रकृत्या स्यात् । राजरजकः । कर्मधारये राजगुणारोपात् स्तुतिः । षष्ठीसमासे राजार्हत्वात् ।