62062: ग्रामः शिल्पिनि

Padacheda: ग्रामः | S | 1 | 1 |

शिल्पिनि | S | 7 | 1 |

Sutrartha


Vasu English Summary

The word ग्राम when first member of a compound optionally retains its original accent before a word denoting ‘a professional man or artisan’.

Vasu English Translation

The word ग्राम when first member of a compound optionally retains its original accent before a word denoting ‘a professional man or artisan’. Thus ग्रामनापितः or ग्रामनापितः, ग्रामकुलालः or ग्रामकुलालः ॥ The word ग्राम has acute on the first. Why do we say “ग्राम”? Observe परमनापितः ॥ Why do we say ‘a silpi a professional workman’? Observe ग्रामरथ्या; where there is no option.

Kashika

ग्रामशब्दः पूर्वपदं शिल्पिवाचिन्युत्तरपदेऽन्यतरस्यां प्रकृतिस्वरं भवति। ग्राम॑नापितः, ग्रा॒म॒ना॒पि॒तः। ग्राम॑कुलालः, ग्रा॒म॒कु॒ला॒लः। ग्रामशब्द आद्युदात्तः। ग्राम इति किम्? प॒र॒म॒ना॒पि॒तः। शिल्पिनीति किम्? ग्रा॒म॒र॒थ्या॥

Siddhanta Kaumudi

वा प्रकृत्या । ग्रामनापितः । ग्रामशब्द आद्युदात्तः । ग्रामः किम् । परमनापितः । शिल्पिनि किम् । ग्रामरथ्या ॥

Padamanjari

ग्रम इति स्वरुपग्रहणम् ॥

Nyaas

सप्तमीनिर्दिष्टग्रहणमनुवर्तते। तेन शिल्पिनीत्यर्थग्रहणम्। ग्राम इति स्वरूपग्रहणमेव। ग्रामनापितः इति। षष्ठीसमासः समासस्वरापवादो योगः। एवमुत्तरोऽपि॥

Prakriyasarvasvam

शिल्प्यर्थे परेऽयं वा प्रकृत्या स्यात् । ग्रामकुविन्दः । ग्रामकुलालः । ग्रामादीना- मादिरुदात्तः स्यादित्याद्युदात्तो ग्रामः ।