62063: राजा च प्रशंसायाम् ========================= **Padacheda:** राजा | S | 1 | 1 | च | S | 0 | 0 | प्रशंसायाम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The word राजन् optionally retains its original accent after a profession-denoting noun when praise is expressed. Vasu English Translation ------------------------ The word राजन् optionally retains its original accent after a profession-denoting noun when praise is expressed. Thus रा꣡जनापितः or राजनापितः꣡, रा꣡जकुलालः or राजकुलालः꣡ "A royal barber i. e. a skillful barber or one fit to serve the king even" &c. It may be either a *Karmadharaya* or a Genitive compound. Why do we say 'राजन्'? Observe परमनापितः ॥ Why do we say 'when denoting praise'? Observe राजनापितः꣡ 'king's barber'. Why do we say 'a professional man'? Observe राजहस्ती 'a royal elephant'. Kashika ------- राजशब्दः पूर्वपदं शिल्पिवाचिन्युत्तरपदे प्रशंसायां गम्यमानायामन्यतरस्यां प्रकृतिस्वरं भवति। राज॑नापितः, रा॒ज॒ना॒पि॒तः। राज॑कुलालः, रा॒ज॒कु॒ला॒लः। कर्मधारये राजगुणाध्यारोपेणोत्तरपदार्थस्य प्रशंसा। षष्ठीसमासे च राजयोग्यतया तस्य। राजेति किम्? प॒र॒म॒ना॒पि॒तः। प्रशंसायामिति किम्? रा॒ज॒ना॒पि॒तः। शिल्पिनीत्येव — रा॒ज॒ह॒स्ती॥ Siddhanta Kaumudi ----------------- शिल्पिवाचिनि परे प्रशंसार्थं राजपदं वा प्रकृत्या । राजनापितः । राजकुलालः । प्रशंसायां किम् । राजनापितः । शिल्पिनि किम् । राजहस्ती ॥ Padamanjari ----------- षष्ठीसमासे चेति । प्रशंसेत्यनुषङ्गः । राजयोग्यतया तस्येति । स हि कर्मणि प्रवीणत्वाद्राजानं प्रति योग्यो भवति । राजार्ह इति चोक्ते प्रशंसा गम्यते ॥ Nyaas ----- `कर्मधारये` इत्यादि। राजनापितः` इति। कर्मधारयोऽयं वा स्यात्, षष्ठीतत्पुरुषो वा? तत्र यदा कर्मधारयस्तदा राजशब्दस्य नापित उपचारेण वृत्तिः। उपचारस्तु राजगुणारोपनिबन्धनः, अतस्तेनैवोत्तरपदस्य प्रशंसा भवति। कथं पुनर्नापितः षष्ठीसमासेन राजनापितशब्देनोच्यते? इत्याह `राजयोग्यतया तस्य` इत्यादि। स हि स्वकर्मणि प्रवीणत्वाद्राजानं प्रति योग्यो भवति। अतोऽपि राजनापित इति षष्ठीसमासेनोच्यते। अत्र पक्षे तस्यैव योग्यतयोत्तरपदस्य प्रशंसा वेदितव्या॥ Prakriyasarvasvam ----------------- शिल्प्यर्थे परे राजा प्राक्पदं स्तुतौ वा प्रकृत्या स्यात् । राजरजकः । कर्मधारये राजगुणारोपात् स्तुतिः । षष्ठीसमासे राजार्हत्वात् ।