62061: क्ते नित्यार्थे¶
Padacheda: क्ते | S | 7 | 1 |
नित्यार्थे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
A word having the sense of ‘always’ optionally retains its original accent before a Past Participle in क्त ।
Vasu English Translation¶
A word having the sense of ‘always’ optionally retains its original accent before a Past Participle in क्त । Thus नि꣡त्यप्रहसितः or नित्यप्रहसितः꣡, सतत꣡प्रहसितः or सततप्रहसितः꣡ ॥ These are Accusative compounds formed under Rule (2.1.28). निस्य is formed by त्यप् affix added to the upasarga नि (4.2.104) Vartika)); and has acute on the first, the upasarga retaining its accent, the affix being anudatta (3.1.4). The word सतत being formed by क्त affix with the force of भावः, has acute on final by (6.2.14). If it be considered to have been formed by कर्मणि क्त, then the accent will be on the beginning by (6.2.49). Why do we say when the first term means ‘always’? Observe मुहूर्त्तप्रहसितः꣡ ॥ In the case of नित्यप्रहसितः &c the samasa accent (6.1.223) was first set aside by the Accusative Tatpurusha accent (6.2.2). this in its turn was set aside by क्त accent (6.2.144), which is again debarred by the present.
Kashika¶
क्तान्त उत्तरपदे नित्यार्थे समासे पूर्वपदमन्यतरस्यां प्रकृतिस्वरं भवति। नित्य॑प्रहसितः, नि॒त्य॒प्॒रह॒सि॒तः। स॒त॒तप्॑रहसितः, स॒त॒त॒प्॒रह॒सि॒तः। कालाः (२.१.२८) इति द्वितीयासमासोऽयम्। नित्यशब्दः त्यब्नेर्ध्रुवे (४.२.१०४ वा०) इति त्यबन्त आद्युदात्तः। सततम् इति यदा भावे क्त स्तदा थाथादिस्वरेणान्तोदात्तः। नित्यार्थ इति किम् ? मु॒हू॒र्त॒प्॒रह॒सि॒तः॥
Siddhanta Kaumudi¶
क्तान्ते परे नित्यार्थे समासे पूर्वं वा प्रकृत्या । नित्यप्रहसितः । कालाः (SK690) इति द्वितीयासमासोऽयम् । नित्यशब्दस्त्यबन्त आद्युदात्तः । हसित इति थाथादिस्वरेणान्तोदात्तः । नित्यार्थे किम् । मुहूर्तप्रहसितः ॥
Padamanjari¶
एनित्यशब्द आभीक्ष्ण्ये कौटस्थ्ये च वर्तते , इह त्वाभीक्ष्ण्ये। कृत एतत् क्त इत्युच्यते, क्तश्च इत्युच्यते, क्तश्च धातोर्विधीयते, धातुश्च क्रियावचनः, क्रियायाः क्षणिकत्वात्कौटस्थ्यं नोपपद्यते, तस्मादाभीक्ष्ण्य नित्यशब्दः । द्वतीयासमासोऽयमिति । द्वितीय पुनरत्यन्तसंयोगे अथ वा - कर्णणि, कालभावाध्वगतव्याः कर्मसंज्ञा ह्यकर्मणाम् इति तततम् इति भावे क्त इत्यादि । यदा तु कर्मणि क्तः तदा गतिरनन्तरः इति पूर्वपदप्रकृतिस्वरेणाद्यौदातो भवति । समासस्वरस्य द्वीतियापुर्वपदप्रकृतिस्वरो बाधकः, तस्य थाथादिस्वरः, तस्यापवादः ॥
Nyaas¶
नित्यशब्द आभीक्ष्ण्ये, न कूटस्थे। कुत एतत्? क्त इत्युच्यते, क्तश्च धातोर्विधीयते, धातुश्च क्रियावचनः। क्रियापाश्च कौटस्थ्यं नोपपद्यते; क्षणिकत्वात्? क्रियायाः। तस्यास्तु पौनःपुन्याद्यपेक्षया युक्तमाभीक्ष्ण्यम्। कालाः (2.1.27) इति द्वितीयासमासोऽयम् इति। द्वितीया तु कालाध्वनोरत्यन्तसंयोगे (2.3.5) इति। अथ वा -कर्मण्येव। कर्मसंज्ञा तु कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्रकर्मणाम् (म।भा।1.4.51) इति वचनात्। नित्यशब्दः इत्यादि। अनेन ध्रुव उपसंक्यानम् (वा।434) इति नेर्नित्यशब्दो व्युत्पाद्यते त्यदन्तः। ततश्च त्यपः पित्त्वेनानुदात्तत्वान्नेश्चोदात्तत्वादाद्युदात्तो भवति। सततमिति यदा कर्मणि क्तस्तदा थाथादिस्वरेणान्तोदात्तः इति -अयुक्तोऽयं पाठः। यदा हि कर्मणि क्तस्तदा गतिरनन्तरः (6.2.49) इति गतेः प्रकृतिभावे सत्याद्युदात्तेन सततशब्देन भवितव्यम्। तस्मात्? सततमिति यदा भावे क्तस्तदा थाथादि (6.2.143) स्वरेणान्तोदात्तः इत्ययं तत्रानवद्यः पाठो वेदितव्यः। तथा हि सततशब्दोऽपि थाथादिस्वरेणान्तोदात्तः (6.2.143) । भावे हीयं निष्ठेति गतिस्वरो न भवतीत्युक्तम्। यदा तु क्रमणि क्तस्तदा तु गतिस्वरेण सततशब्द द्युदात्त एव भवति। समो वा हितततयोः (वपा।6.1.149) इति समो मकारलोपः। मुहूर्तप्रहसितः इति। अत्र थाथादिस्वर (6.2.144) एव भवति प्रहसित इति हसेरकर्मक्तावत्? कर्तरि क्तः। समासस्वरे द्वितीयापूर्वपदप्रकृतिसवरेण बाधिते सति थाथादिस्वरः प्राप्नोति। अतस्तदपदादो योगः॥
Prakriyasarvasvam¶
क्वान्ते परे नित्यार्थे समासे प्राक्पदं वा प्रकृत्या स्यात् । नित्यभक्तः । सततहृष्टः । नित्ये त्यप् । सतते भावे क्तश्चेत् थाथा— (६-२-१४४) दिनान्तो दात्तः । कर्मणि चेद् ‘गतिरनन्तरः’ (६-१-४९) प्राक्पदप्रकृतिस्वरः । ‘कालाः’ (२-१-२८) इति समासः ।