62055: हिरण्यपरिमाणं धने

Padacheda: हिरण्यपरिमाणम् | S | 1 | 1 |

धने | S | 7 | 1 |

Sutrartha


Vasu English Summary

The first member denoting the quantity of gold retains optionally its original accent before the word धन।

Vasu English Translation

The first member denoting the quantity of gold retains optionally its original accent before the word धन। Thus द्विसुवर्ण꣡ धनम् or द्विसुवर्णधन꣡म् ॥ This is a Karmadharaya compound द्वौसुवर्णौ परिमाणमस्य = द्विसुवर्णं, तदेव धनम् ॥ It may also be treated as a Bahuvrihi compound, then the accent will be of that compound, as द्वि꣡सुवर्णधनः or द्विसुवर्णधनः꣡ ॥ Why do we say ‘gold’? Observe प्रस्थधनम् ॥ Why do we say ‘quantity’? Observe कांचनधनम् ॥ Why do we say ‘धन’? Observe निष्कमाला ॥

Kashika

हिरण्यपरिमाणवाचि पूर्वपदं धनशब्द उत्तरपदेऽन्यतरस्यां प्रकृतिस्वरं भवति। द्वि॒सु॒व॒र्णध॑नम्, द्वि॒सु॒व॒र्ण॒ध॒नम्। द्वौ सुवणौ परिमाणमस्य द्विसुवर्णम्, तदेव धनमिति कर्मधारयः। बहुव्रीहावपि परत्वाद् विकल्प एव भवति। द्वि॒सु॒व॒र्णध॑नः, द्वि॒सु॒व॒र्ण॒ध॒नः। हिरण्यग्रहणं किम् ? प्र॒स्थ॒ध॒नम्। परिमाणग्रहणं किम्? का॒ञ्च॒न॒ध॒नम्। धन इति किम्? नि॒ष्क॒मा॒ला॥

Siddhanta Kaumudi

सुवर्णपरिमाणवाचि पूर्वपदं वा प्रकृत्या धने । द्वे सुवर्णे परिमाणमस्येति द्विसुवर्णं तदेव धनं द्विसुवर्णधनम् । बहुव्रीहावपि परत्वाद्विकल्प एव । हिरण्यं किम् । प्रस्थधनम् । परिमाणं किम् । काञ्चनधनम् । धने किम् । निष्कमाला ॥

Padamanjari

हिरण्यपरिमाणवाचीति । परमाणविशिष्टहिरण्यवाचीत्यर्थः । तत्र सुवर्णशब्दः परिमाणे, उपपदादौ तत्परिच्छिन्ने हिरण्य च वर्तते, यथा - प्रश्थादिशब्दो दार्वादिनिर्मिते परिमाणे तत्परिमिते च व्रीह्यादौ वर्तते । पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश पलं सुवर्णाश्त्वारः , द्वयोः सुवर्णयोः समाहारो द्विसुवर्णं पात्रादि । द्विसुर्णपरिमाणमिति । अत्र सुवर्णशब्द उपले वर्तते । काञ्चनधनमिति । परिमाणग्रहणमकृत्वा हिरण्यमित्युच्यमाने इहापि स्यात्, काञ्चनशब्दस्य हिरण्यवाचित्वात् । परिमाणवाची त्वेष न भवति ॥

Nyaas

हिरण्यपरिमाणं परिमाणवद् हिरण्यमित्यर्थः। इह तु तद्वाचिशब्दरूपं गृह्रते। द्विसुवर्णधनम् इति। सुवर्णशब्दो हिरण्यपरिमाणविशेषवाची। द्वे सुवर्णे परिमाणमस्येति तद्धितार्थ (2.1.50) इति समासः। तदस्य परिमाणम् (5.1.57) इति प्राग्वतेष्ठञ् (5.1.18) अध्यर्धपूर्व (5.1.28 इत्यादिना लुक्, ततो धनशब्देन सह कर्मधारयः। द्विसुवर्णशब्दः समासस्वरेणान्तोदात्तः। बहुव्रीहावपि इत्यादि। यद्वा -द्विसुवर्ण धनं यस्येति बहुव्रीहिः; तदपि परत्वाद्विकल्प एव भवति; न तु बहुव्रीहौ प्रकृत्या (6.2.1) इत्येष नित्यो विधिः। प्रस्थधनम् इति। अयमपि कर्मधारयः। बहुव्रीहिर्वा। प्रस्थशब्दो भवति परिमाणं, न तु हिरण्यस्य, किं तर्हि? धान्यादेः। काञ्चनधनम् इति। यदि परिमाणग्रहणं न क्रियेत, तदा हिरण्यम् इत्येताददुच्यमान इहापि स्यात्; काञ्चनशब्दस्य हिरण्यवाचित्वात्। हिरण्यवाच्यपि परिमाणवाची न भवतीति न भवत्येष प्रसङ्गः। अयमपि समासस्वरापवादो योगः॥

Prakriyasarvasvam

स्वर्णपरिमाणार्थं प्राक्पदं धने परे प्रकृत्या वा स्यात् । द्विसुवर्णधनम् । द्विसुवर्णधनम् । द्विसुवर्णपरिमाणं द्विसुवर्णम् । तत्र कर्मधारयः । बहुव्रीहिर्वा ।