62045: क्ते च

Padacheda: क्ते | S | 7 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The first member in the Dative -4th Case retains its accent before a Past Participle in क्त।

Vasu English Translation

The first member in the Dative -4th Case retains its accent before a Past Participle in क्त। Thus गो꣡हितम्, मनुष्य॑हितम्, अ꣡श्वहितम्, गो꣡रक्षितम्, अ꣡श्वरक्षितम्, तापस꣡रक्षितम् वनम् ॥ The compounding takes place by (2.1.36). The compound गोरक्षितं means गोभ्योदीयते and is a sampradana Dative.

Kashika

क्तान्ते चोत्तरपदे चतुर्थ्यन्तं पूर्वपदं प्रकृतिस्वरं भवति। गोहि॑तम्। अश्व॑हितम्। म॒नु॒ष्य॑हितम्। गोर॑क्षितम्। अश्व॑रक्षितम्। वन॑ ताप॒सर॑क्षितम्। अश्वशब्द आद्युदात्तः। मनुष्यशब्दोऽन्तस्वरितः। परिशिष्टपूर्वपदमन्तोदात्तम्। गोभ्यो रक्षितमिति संप्रदाने चतुर्थी॥

Siddhanta Kaumudi

क्तान्ते परे चतुर्थ्यन्तं प्रकृत्या । गोहितम् ॥

Padamanjari

गोभ्यो रक्षितं दीयत इति सम्प्रदाने चतुर्थीति। अथ तादर्थ्ये चतुर्थ्या को दोषः चतुर्थो तदर्थे इत्येव स्वरस्यसिद्धत्वात् । नैतदस्योदाहरणमुपपद्यते कथम् प्रकृतिविकारभावे स्वरः इत्युक्तम्, न चात्र प्रकृतिविकारभवः सत्यम् समासविधौ तु रक्षितग्रहणस्येदं प्रयोजनं दर्शितम् ॥

Nyaas

अआशब्द आद्युदात्तः इति। क्वन्परत्ययान्तत्वत्। मनुष्यशब्दोऽन्तस्वरितः इति। मनोर्धातावञ्यतौ षुक्च (4.1.161) इति यत्प्रत्ययान्तत्वात्। परिशिष्टमन्तोदात्तम् इति। तत्? पुनर्गोशब्दः, तापसशब्दश्च। तत्र गमेर्डोस् (द।उ।2।11) [गोमर्डोः -द।उ; पं।उ।] इति डोस्प्रत्ययान्तत्वाद्गोशब्दः प्रत्ययस्वरेणान्तोदात्तः। तापसशब्दोऽपयण्प्रत्ययान्तत्वात्। स हि तपःसहरुआआभ्यां विनीनी (5.2.102) अण्? च (5.2.102) इत्यण्प्रत्ययान्तो व्युत्पाद्यते। अथ गोरक्षितम् इति कथमिदमस्योदाहरणम्, यावता गोभ्यो रक्षिमिति तादर्थ्ये चतुर्थी, तत्र हि योगत उत्तरपदेन भवितवयम्? इत्यत आह -गोभ्यो रक्षितम् इत्यादि। न ह्यत्र गवार्थं रक्षित इत्येषोऽर्थो विवक्षितः, किं तर्हि? गोभ्यो रक्षितं दीयते इत्येतदध्याहार्यम्। तस्मात्? सम्प्रदान एषा चतुर्थी, तत्? कुतस्तादथ्र्यम्!॥

Prakriyasarvasvam

क्तान्ते परे चतुर्थ्यन्तं प्राक्पदं प्रकृत्या स्यात् । गोहितम् । गोरक्षितम् ।