62045: क्ते च ============= **Padacheda:** क्ते | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The first member in the Dative -4th Case retains its accent before a Past Participle in क्त। Vasu English Translation ------------------------ The first member in the Dative -4th Case retains its accent before a Past Participle in क्त। Thus गो꣡हितम्, मनुष्य॑हितम्, अ꣡श्वहितम्, गो꣡रक्षितम्, अ꣡श्वरक्षितम्, तापस꣡रक्षितम् वनम् ॥ The compounding takes place by (2.1.36). The compound गोरक्षितं means गोभ्योदीयते and is a *sampradana* Dative. Kashika ------- क्तान्ते चोत्तरपदे चतुर्थ्यन्तं पूर्वपदं प्रकृतिस्वरं भवति। गोहि॑तम्। अश्व॑हितम्। म॒नु॒ष्य॑हितम्। गोर॑क्षितम्। अश्व॑रक्षितम्। वन॑ ताप॒सर॑क्षितम्। अश्वशब्द आद्युदात्तः। मनुष्यशब्दोऽन्तस्वरितः। परिशिष्टपूर्वपदमन्तोदात्तम्। गोभ्यो रक्षितमिति संप्रदाने चतुर्थी॥ Siddhanta Kaumudi ----------------- क्तान्ते परे चतुर्थ्यन्तं प्रकृत्या । गोहितम् ॥ Padamanjari ----------- गोभ्यो रक्षितं दीयत इति सम्प्रदाने चतुर्थीति। अथ तादर्थ्ये चतुर्थ्या को दोषः चतुर्थो तदर्थे इत्येव स्वरस्यसिद्धत्वात् । नैतदस्योदाहरणमुपपद्यते कथम् प्रकृतिविकारभावे स्वरः इत्युक्तम्, न चात्र प्रकृतिविकारभवः सत्यम् समासविधौ तु रक्षितग्रहणस्येदं प्रयोजनं दर्शितम् ॥ Nyaas ----- `अआशब्द आद्युदात्तः` इति। क्वन्परत्ययान्तत्वत्। `मनुष्यशब्दोऽन्तस्वरितः` इति। `मनोर्धातावञ्यतौ षुक्च` (4.1.161) इति यत्प्रत्ययान्तत्वात्। `परिशिष्टमन्तोदात्तम्` इति। तत्? पुनर्गोशब्दः, तापसशब्दश्च। तत्र `गमेर्डोस्` (द।उ।2।11) [गोमर्डोः -द।उ; पं।उ।] इति डोस्प्रत्ययान्तत्वाद्गोशब्दः प्रत्ययस्वरेणान्तोदात्तः। तापसशब्दोऽपयण्प्रत्ययान्तत्वात्। स हि `तपःसहरुआआभ्यां विनीनी` (5.2.102) `अण्? च` (5.2.102) इत्यण्प्रत्ययान्तो व्युत्पाद्यते। अथ `गोरक्षितम्` इति कथमिदमस्योदाहरणम्, यावता गोभ्यो रक्षिमिति तादर्थ्ये चतुर्थी, तत्र हि योगत उत्तरपदेन भवितवयम्? इत्यत आह -`गोभ्यो रक्षितम्` इत्यादि। न ह्यत्र गवार्थं रक्षित इत्येषोऽर्थो विवक्षितः, किं तर्हि? गोभ्यो रक्षितं दीयते इत्येतदध्याहार्यम्। तस्मात्? सम्प्रदान एषा चतुर्थी, तत्? कुतस्तादथ्र्यम्!॥ Prakriyasarvasvam ----------------- क्तान्ते परे चतुर्थ्यन्तं प्राक्पदं प्रकृत्या स्यात् । गोहितम् । गोरक्षितम् ।