62012: द्विगौ प्रमाणे¶
Padacheda: द्विगौ | S | 7 | 1 |
प्रमाणे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The first member of a तत्-पुरुष समास preserves its original accent when the second member is a द्विगु समास (Numeral Determinative Compound) denoting ‘measure or quantity’.
Vasu English Translation¶
The first member of a तत्-पुरुष समास preserves its original accent when the second member is a द्विगु समास (Numeral Determinative Compound) denoting ‘measure or quantity’. Thus प्रा꣡च्यसप्तसमः and गा꣡न्धारिसप्तसमः ॥ The word सप्तसमः = सप्तसमाः प्रमाणमस्य, the affix मात्रच् denoting ‘measure’ (5.2.37) is elided (See (5.2.37) Vartika) प्राच्यश्चासौ सप्तमश्च = प्रा꣡च्यसप्तसमः “an Eastern seven-years old”. So also गान्धा꣡रिसप्तसमः or षट्समः ॥ प्राच्य has acute on the first; while गान्धारि is either accented on the first or on the middle; as it belongs to the Kardamadi class (Phit III.10). Why do we say ‘before a Dvigu’? Observe व्रीहिप्रस्थः ॥ Why do we say ‘when denoting measure?’ Observe परमसप्तसमः ॥
Kashika¶
द्विगावुत्तरपदे प्रमाणवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। प्राच्य॑सप्तशमः। गान्धा॑रिसप्तशमः। सप्त शमाः प्रमाणमस्येति मात्रच उत्पन्नस्य प्रमाणे लो द्विगोर्नित्यम् (५.२.३७ वा०) इति लुक्। प्राच्यश्चासौ सप्तशमश्चेति, प्राच्यसप्तशमः। प्राच्यशब्द आद्युदात्तः। गान्धारिशब्दः कर्दमादित्वाद् (फिट् सू० ५९) आद्युदात्तो मध्योदात्तो वा। द्विगाविति किम् ? व्री॒हि॒प्॒रस्थः। प्रमाण इति किम् ? प॒र॒म॒स॒प्त॒श॒मः॥
Siddhanta Kaumudi¶
द्विगावुत्तरपदे प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् । प्राच्यसप्तसमः । सप्तसमाः प्रमाणमस्य ।<!प्रमाणे लोद्विगोर्नित्यम् !> (वार्तिकम्) ॥ इति मात्रचो लुक् । प्राच्यशब्द आद्युदात्तः । प्राच्यश्चासौ सप्तसमश्च प्राच्यसप्तसमः । द्विगौ किम् । व्रीहिप्रस्थः । प्रमाणे किम् । परमसप्तसमम् ॥
Padamanjari¶
कर्दमादीनाञ्च इत्यत्र मकरकुक्तकुटपारेवतेत्यादेः सूत्रादादिग्रहणमनुवर्तते। अथ द्वितीयं प्रागीपात् इत्यते द्वितीयग्रहणम् । परमसप्तसममिति।समाहारे द्विगुः पात्रादित्वान्नपुंसकत्वम्,मूलोदाहरणे तु तद्धितार्थे द्विगुरुतरपदम्॥
Nyaas¶
प्राच्यसप्तशमः इति। षष्ठीसमासः। प्राच्यशब्द आद्युदात्तः इति। यत्प्रत्ययान्तत्वात्? यतोऽनावः (6.1.207) इति। `गान्धारिशब्दः कर्दमादित्वादाद्युदात्तो मध्योदात्तो वा इति। कर्दमादीनाञ्च (फि।सू।3।10) इत्यत्रादिग्रहणं चानुवर्तते, तत्र यदादेरुदात्तो विधीयते तदाऽऽद्युदात्तो भवति; यदा तु द्वितीयस्य तदा मध्योदात्तः।
Prakriyasarvasvam¶
तत्पुरुषे प्रमाणार्थे द्विगौ परपदे प्राक्पदं प्रकृत्या स्यात् । प्राच्यसप्तसमः । प्राच्ये ‘यतोऽनाव:’ (६-१-२१३) इत्याद्युदात्तः) ।