62012: द्विगौ प्रमाणे ===================== **Padacheda:** द्विगौ | S | 7 | 1 | प्रमाणे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The first member of a तत्-पुरुष समास preserves its original accent when the second member is a द्विगु समास (Numeral Determinative Compound) denoting 'measure or quantity'. Vasu English Translation ------------------------ The first member of a तत्-पुरुष समास preserves its original accent when the second member is a द्विगु समास (Numeral Determinative Compound) denoting 'measure or quantity'. Thus प्रा꣡च्यसप्तसमः and गा꣡न्धारिसप्तसमः ॥ The word सप्तसमः = सप्तसमाः प्रमाणमस्य, the affix मात्रच् denoting 'measure' (5.2.37) is elided (See (5.2.37) *Vartika*) प्राच्यश्चासौ सप्तमश्च = प्रा꣡च्यसप्तसमः "an Eastern seven-years old". So also गान्धा꣡रिसप्तसमः or षट्समः ॥ प्राच्य has acute on the first; while गान्धारि is either accented on the first or on the middle; as it belongs to the *Kardamadi* class (*Phit* III.10). Why do we say 'before a *Dvigu*'? Observe व्रीहिप्रस्थः ॥ Why do we say 'when denoting measure?' Observe परमसप्तसमः ॥ Kashika ------- द्विगावुत्तरपदे प्रमाणवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। प्राच्य॑सप्तशमः। गान्धा॑रिसप्तशमः। सप्त शमाः प्रमाणमस्येति मात्रच उत्पन्नस्य **प्रमाणे लो द्विगोर्नित्यम्** (५.२.३७ वा०) इति लुक्। प्राच्यश्चासौ सप्तशमश्चेति, प्राच्यसप्तशमः। प्राच्यशब्द आद्युदात्तः। गान्धारिशब्दः कर्दमादित्वाद् (फिट् सू० ५९) आद्युदात्तो मध्योदात्तो वा। द्विगाविति किम् ? व्री॒हि॒प्॒रस्थः। प्रमाण इति किम् ? प॒र॒म॒स॒प्त॒श॒मः॥ Siddhanta Kaumudi ----------------- द्विगावुत्तरपदे प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् । प्राच्यसप्तसमः । सप्तसमाः प्रमाणमस्य । (वार्तिकम्) ॥ इति मात्रचो लुक् । प्राच्यशब्द आद्युदात्तः । प्राच्यश्चासौ सप्तसमश्च प्राच्यसप्तसमः । द्विगौ किम् । व्रीहिप्रस्थः । प्रमाणे किम् । परमसप्तसमम् ॥ Padamanjari ----------- कर्दमादीनाञ्च इत्यत्र मकरकुक्तकुटपारेवतेत्यादेः सूत्रादादिग्रहणमनुवर्तते। अथ द्वितीयं प्रागीपात् इत्यते द्वितीयग्रहणम् । परमसप्तसममिति।समाहारे द्विगुः पात्रादित्वान्नपुंसकत्वम्,मूलोदाहरणे तु तद्धितार्थे द्विगुरुतरपदम्॥ Nyaas ----- `प्राच्यसप्तशमः` इति। षष्ठीसमासः। `प्राच्यशब्द आद्युदात्तः` इति। यत्प्रत्ययान्तत्वात्? `यतोऽनावः (6.1.207) इति। `गान्धारिशब्दः कर्दमादित्वादाद्युदात्तो मध्योदात्तो वा` इति। `कर्दमादीनाञ्च` (फि।सू।3।10) इत्यत्रादिग्रहणं चानुवर्तते, तत्र यदादेरुदात्तो विधीयते तदाऽऽद्युदात्तो भवति; यदा तु द्वितीयस्य तदा मध्योदात्तः। Prakriyasarvasvam ----------------- तत्पुरुषे प्रमाणार्थे द्विगौ परपदे प्राक्पदं प्रकृत्या स्यात् । प्राच्यसप्तसमः । प्राच्ये 'यतोऽनाव:' (६-१-२१३) इत्याद्युदात्तः) ।