62011: सदृशप्रतिरूपयोः सादृश्ये

Padacheda: सदृश-प्रतिरूपयोः | S | 7 | 2 |

सादृश्ये | S | 7 | 1 |

Sutrartha


Vasu English Summary

The first member of a तत्-पुरुष समास preserves its original accent when the second member is the word सदृश or प्रतिरूप expressing resemblance with someone or something.

Vasu English Translation

The first member of a तत्-पुरुष समास preserves its original accent when the second member is the word सदृश or प्रतिरूप expressing resemblance with someone or something. Thus पितृ꣡सदृशः, मातृ꣡सदृशः ॥ The words पितृ and मातृ are formed by Unadi affix तृच् (Unadi II.95) and are finally accented. By (2.1.31), सदृश forms Instrumental Tatpurusha. That case, however, is governed by (6.2.2), which provides for Instrumental compounds. The examples here given are of Genitive Tatpurusha: and it applies to cases where the case-ending is not elided. As दास्याः꣡ सदृशो, वृषल्या꣡ सदृशः ॥ Here दासी and वृषली are finally acute, and the case-affix gets the accent when semivowel is substituted (6.1.174). So also पितृ꣡प्रतिरूपः, मातृ꣡प्रतिरूपः ॥ Why do we say ‘when meaning resemblance’? Observe परमसदृशः꣡, उत्तमसदृशः꣡ (6.1.223): here the sense of the compound is that of ‘honor’ and not ‘resemblance’.

Bhashya

सदृशप्रतिरूपयोः सादृश्ये (2671) (6330 सदृशपदाक्षेपवार्तिकम् ॥ 1 ॥) - सदृशग्रहणमनर्थकं तृतीयासमासवचनात् - सदृशग्रहणमनर्थकम् । किं कारणम् ? तृतीयासमासवचनात् । सदृशशब्देन तृतीयासमास उच्यते, तत्र तृतीयापूर्वपदं प्रकृतिस्वरं भवतीत्येवं सिद्धम् ॥ (पदसमर्थकभाष्यम्) षष्ठ्यर्थं तर्हीदं वक्तव्यम्, पितुः सदृशः - पितृसदृश इति ॥ (6331 पदसमर्थनाक्षेपवार्तिकम् ॥ 2 ॥) - षष्ठ्यर्थमिति चेत्तृतीयासमासवचनानर्थक्यम् - षष्ठ्यर्थमिति चेत् तृतीयासमासवचनमनर्थकं स्यात् । किं कारणम् ? इहास्माभिस्त्रैशब्द्यं साध्यम् - पित्रा सदृशः, पितुः सदृशः, पितृसदृश इति । तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहः, अपरेण वृत्तिर्भविष्यति अविरविकन्यायेन । तद्यथा - अवेर्मांसमिति विगृह्याविकशब्दादुत्पत्तिर्भवति - आविकमिति । एवं पितुः सदृश इति विगृह्य पितृसदृश इति भविष्यति । पित्रा सदृश इति विगृह्य वाक्यमेव भविष्यति ॥ (समाधानभाष्यम्) अवश्यं तृतीयासमासो वक्तव्यः । यत्र षष्ठ्यर्थो नास्ति तदर्थम् - भोजनसदृशः, अध्ययनसदृश इति । यदि तर्हि तस्य निबन्धनमस्ति तदेव वक्तव्यम्, इदं न वक्तव्यम् । इदमप्यवश्यं वक्तव्यम्, यत्र षष्ठी श्रूयते तदर्थम् - दास्याः सदृशः, वृषल्याः सदृश इति ॥

Kashika

सदृश प्रतिरूप इत्येतयोरुत्तरपदयोः सादृश्यवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। पि॒तृस॑दृशः। मा॒तृस॑दृशः। पितृमातृशब्दावुणादिष्वन्तोदात्तौ निपातितौ। षष्ठीसमासार्थं च सदृशग्रहणमिह तदलुकि षष्ठ्याः प्रयोजयति — दा॒स्याःस॑दृशः, वृ॒ष॒ल्याःस॑दृश इति। अत्र दासीवृषलीशब्दयोरन्तोदात्तत्वाद् उदात्तयणो हल्पूर्वात् (६.१.१७४) इति विभक्ति रन्तोदात्ता। पि॒तृप्॑रतिरूपः। मा॒तृप्॑रतिरूपः। सादृश्य इति किम् ? प॒र॒म॒स॒दृ॒शः। उ॒त्त॒म॒स॒दृ॒शः। समासार्थोऽत्र पूज्यमानता, न सादृश्यम्॥

Siddhanta Kaumudi

अनयोः पूर्वं प्रकृत्या । पितृसदृशः । सादृश्ये किम् । परमसदृशः । समासार्थोऽत्र पूज्यमानता न सादृश्यम् ॥

Padamanjari

सदृशाग्रहणमनर्थकम् तुतीयासमासवचनात्। सदृशशब्देन तुतीयासमास उच्यते - पूर्वसदृशसमोनार्थ इति, तत्र तुतीयापूर्व पदं प्रकृतिस्वरं भवतीत्येव सिद्धमत आह - षष्ठीसमासार्थं चेति। तुल्यार्थयोगे षष्ठ।ल्पि विधीयते, तत्र यदा तस्याः षष्ठयाः समासः क्रियते, तदापि यथा स्यादित्येवमर्थ सदृशग्रहणम्। ननु चानभिधानात्षष्ठीसमासो न भविष्यति त्रैशब्द्यं हि नः साध्यम् - मातुः सदृशः,मात्रा सदृशः मातृसदृश इति एतच्च विनापि षष्ठीसमासेन सिद्ध्यत्येव अत आह - इहेत्यादि। अलुकि सति रूपविशेषस्य विद्यमानत्वादवश्यकर्तव्यः षष्ठीसमासः, तदर्थं चेह सदृशग्रहणं कर्तव्यम् । यद्येवम्, तृतीयासमासे सदृशग्रहणम्, यथा - विद्या सदृशो विद्यासदृश इति। न ह्यत्र षष्ठ।ल्र्थोऽस्ति,किन्तु तृतीयार्थः, विद्यया हेतुना सदृश इत्यर्थः, अन्यो देवदतादिरत्र प्रतियोगी । अपर आह - तृतीयासमासोऽप्यलुकि प्रयजयति - मनसः संज्ञायां मनसासदृश इति। अत्रेत्यादि। दशि दशनस्पर्शनयोः दंशेष्टो न आ चेति टप्रत्ययः नकारस्य चाकारः टित्वान्ङीप्, यस्योतिलोपः, अनुदातस्य च यत्रोदातलोपः इति उदातत्वम् । वृषलशब्दाज्जातिलक्षणो एङीष् ॥

Nyaas

पितृसदृशः इति। तुल्यार्थेः (2.3.72) इत्यादिना षष्ठी, तृतीया च, पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः (2.1.31) इत्यादिना समासः। पितृमातृशब्दावुणादिष्वन्तोदात्तौ निपातितौ इति। नप्तृनेष्टृत्वष्टृहोतृपोतृभातृजामातृपितृदुहितृ (द।उ।2।3) इत्यत्र। अथ सदृशग्रहणं किमर्थम्, यावता मातृसादृश पितृसदृश इत्यत्र तत्पुरुषे तुल्यार्थं (6.2.2) इत्येव सिद्धम्? इत्यत आह -षष्ठीसमासार्थञ्च इत्यादि। तुल्यार्थे हि प्रयोगे षष्ठपि विधीयते। तत्र यदा मातृसदृश इति षष्ठीसमासः क्रियते, तदपि यथा स्यादित्येवमर्थं सदृशग्रहणम्। सति त्वस्यारम्भे तृतीयासमानसेऽपि सदृशग्रहणं कर्तव्यमित्यत आह -इह इत्यादि। दास्याः सदृशः, वृषल्याः सदृस इति अत्र षष्ठ्या आक्रोशे (6.3.21) इत्यलुकि कृते षष्ठीसमासस्तत्सदृशग्रहणं प्रयोजयति; अलुकि सति रूपविशेषस्य विद्यमानत्वात्। यदि षष्ठीसमासार्थं सदृशग्रहणमिह क्रियते, तृतीयासमासो न कर्तवयः; विशेषाभावात्? नैतदस्ति; तत्रापि हि कर्तव्य एव यत्र षष्ठर्थे नास्ति तदर्थः, यथा -विद्यया सदृशो विद्यासदृश इति, न ह्यत्र षष्ठर्थो विद्यते, किं तर्हि? तृतीयार्थः, विद्यया हेतुना सदृश इत्यर्थः। अत्र इत्यादि। तत्र दासीशब्दस्य ङीबुदात्तनिवृत्तिस्वरेणान्तोदात्तार्थः। दशि सेवने (धातुपाठः-1786) [दसि आप्यायने -धा।पा] इति, दंशेष्टटनौ न आ च (द।उ।9।103) इति टप्रत्ययान्तो नकारस्य चाकारादेशः। टिड्ढाणञ् (4.1.15) इति ङीप्, यस्येति (6.4.148) लोपः अनुदात्तस्य च यत्रोदात्तलोपः (6.1.161) इत्युदात्तत्वम्। वृषलीशब्दः जातेरस्त्रीविषयात् (4.1.63) इति ङीषन्तोऽन्तोदात्तो भवति प्रत्ययस्वरेण॥

Prakriyasarvasvam

अनयोः परयोः सादृश्यार्थे तत्पुरुषे प्रकृत्या स्यात् । पितृसदृशः पितृप्रतिरूपः । पितान्तोदात्तः । अत्र सदृशस्य । ‘पूर्वसदृश—’ (२-१-३१) इति तृतीयासमासे ‘तत्पुरुषे तुल्यार्थतृतीया—’ (६-२-२) प्रकृतिस्वरे सिद्धे षष्ठीसमासालुक्येव फलम् । चोरस्य४ सदृशं कुलम् । चोरीऽजन्तः ।