62010: अध्वर्युकषाययोर्जातौ¶
Padacheda: अध्वर्यु-कषाययोः | S | 7 | 2 |
जातौ | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The first member of a तत्-पुरुष समास preserves its original accent when the second member is the word अध्वर्यु or कषाय denoting a genus.
Vasu English Translation¶
The first member of a तत्-पुरुष समास preserves its original accent when the second member is the word अध्वर्यु or कषाय denoting a genus. Thus प्रा꣡च्याध्वर्युः, कठा꣡ध्वर्युः, कालापाध्व꣡र्युः ॥ These are Appositional compounds denoting ‘genus or kind’, with a fixed meaning. प्राच्य is formed by यत्, and has accent on the first (6.1.213). कठ is derived by अच् affix (3.1.34), and to it is added the Taddhita affix णिनि (4.3.104), in the sense of कठेन प्रोक्तं (4.3.101), and the affix is then elided by (4.3.107). The word कालाप comes from कलापिन् + अण्, (IV. 3. I08) in the sense of कलापिना प्रोक्तं (4.3.101), and it would have preserved its form without change before this affix (6.4.164) but for a vartika which declares that the इन् of कलापिन् will be elided (See (6.1.144) vartika). Thus कालाप gets accent on the final (3.1.3). So also सर्पिर्मण्ड꣡कषायम्, उमापुष्प꣡कषायम्, दौवारिक꣡कषायम् ॥ These are Genitive compounds. The words सर्पिमण्ड and उमापुष्प are Genitive compounds and have accent on the final (6.1.223). The word दौवारिक is formed by ठक् affix added to द्वार and has acute on the final (6.1.165). Why do we say when meaning a ‘genus’? Observe, परमाध्व॒र्युः, परमकषा॒यः (6.1.223).
Kashika¶
अध्वर्यु कषाय इत्येतयोर्जातिवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। प्राच्या॑ध्वर्युः। क॒ठाध्व॑र्युः। का॒ला॒पाध्व॑र्युः। एते समानाधिकरणसमासा जातिवाचिनो नियतविषयाः। तत्र प्राच्यशब्दो यत्प्रत्ययान्त आद्युदात्तः। कठशब्दः पचाद्यचि व्युत्पादितः, ततः कठेन प्रोक्तमिति वैशम्पायनान्तेवासिभ्यश्च (४.३.१०४) इति णिनिस्तस्य कठचरकाल्लुक् (४.३.१०७) इति लुक्। कलापिना प्रोक्तमिति कलापिनोऽण् (४.३.१०८) तस्मिन् इनण्यनपत्ये (६.४.१६४) इति प्रकृतिभावे प्राप्ते नान्तस्य टिलोपे सब्रह्मचारिपीठ — सर्पिकलापिकौथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसंख्यानम् (६.४.१४४ वा०) इति टिलोपः। तदेवं कालापशब्दोऽन्तोदात्तः। स॒र्पि॒र्म॒ण्डक॑षायम्। उ॒मा॒पु॒ष्पक॑षायम्। दा॒ैवा॒रि॒कक॑षायम्। षष्ठीसमासव्युत्पादिता रूढिशब्दा एते। तत्र सर्पिर्मण्डशब्द उमापुष्पशब्दश्च षष्ठीसमासावन्तोदात्तौ। दौवारिकशब्दोऽपि द्वारे नियुक्त इति ठकि सत्यन्तोदात्त एव। जाताविति किम्? प॒र॒मा॒ध्व॒र्युः॒। प॒र॒म॒क॒ षा॒यः॥
Siddhanta Kaumudi¶
एतयोः परतो जातिवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् । कठाध्वर्युः । दौवारिककषायम् । कठशब्दः पचाद्यजन्तः । तस्मात् वैशम्पायनान्तेवासिभ्यश्च (SK1484) इति णिनेः कठचरकाल्लुक् (SK1487) इति लुक् । द्वारि नियुक्त इति ठक्यन्तोदात्तो दौवारिकशब्दः । जातौ किम् । परमाध्वर्युः ॥
Padamanjari¶
नियतविषया इति। वरणविशेषणियता इत्यर्थः॥
Nyaas¶
जातिवाचिनो नियतविषयाः इति। नियतो विषयो येषामिति विग्रहः। नियतविषयत्वं तु जातिविशेषत्व एव वर्तमानत्वात्। अध्वर्युप्रभृतीनाम्? गोत्रञ्च चरणैः (का।वृ।4.1.63) इति चरणत्वाज्जातित्वम्। यत्प्रत्ययान्तः इति। द्युप्रागपागुदक्प्रतीचो यत् (4.2.101) इति। कठशब्दः पचाद्यचि व्युत्पादितः इति। कठ कृच्छ्रजीवने (धातुपाठः-333) इत्यस्मात्। तदेवम् इति। यस्मादेदं कालापशब्दोऽणन्तः, तस्मात्? प्रत्ययस्वरेणान्तोदात्तः। ठकि सत्यन्तोदात्तः इति। कितः (6.1.159) इत्यनेन॥
Prakriyasarvasvam¶
अनयो२र्जात्यर्थे तत्पुरुषे प्राक्पदं प्रकृत्या स्यात् । क३लापाध्वर्युः । ‘कलापिनोऽण् (४-३-१०८) । उमापुष्पकषायम् । उमापुष्पे षष्ठीसमासः ।