62009: शारदेऽनार्तवे

Padacheda: शारदे | S | 7 | 1 |

अनार्तवे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The first member of a तत्-पुरुष समास preserves its original accent when the second member is the word शारद having any other sense than that of ‘autumnal’.

Vasu English Translation

The first member of a तत्-पुरुष समास preserves its original accent when the second member is the word शारद having any other sense than that of ‘autumnal’. The word आर्तव means appertaining to season (ऋतु) i. e. when the word शारद does not refer to the season of शरत् or autumn. Thus र꣡ज्जुशारदमुदकम् ‘fresh drawn water’. So also दृष꣡त् शारदाः सक्तवः ‘the saktu flour fresh from the mill’. The word शारद means here ‘fresh’ ‘new’: and it forms an invariable compound. The word रज्जु is formed by उ affix added to सृज् (Unadi I.15), the स being elided. The affix उ is treated as नित् (Unadi I.9) and the accent falls on the first syllable (6.1.197). The word दृष꣡त् is formed by the augment ष and shortening of the vowel of the root दृ ‘to tear’ (दृणाति), and the affix अदिक् (Unadi 1.131) and has accent on the final (3.1.3).

Why do we say ‘when not meaning autumnal’? Observe परमशारद꣡म्, उत्तमशारद꣡म् ‘the best autumnal grass &c’. (6.1.223).

Kashika

ऋतौ भवमार्तवम्। अनार्तववाचिनि शारदशब्द उत्तरपदे तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। रज्जु॑शारदमुदकम्। दृ॒षत्शा॑रदाः सक्त वः। शारदशब्दोऽयं प्रत्यग्रवाची, तस्य नित्यसमासोऽस्वपदविग्रह इष्यते। सद्यो रज्जूद्धृतमुदकं प्रत्यग्रमनुपहतं रज्जुशारदमुच्यते। रज्जुशब्दः सृजेरसुम् च (प०उ० १.१५) इति उप्रत्ययान्त आदिलोपश्च। धान्ये नित् (प०उ०१.९) इति च तत्र वर्तते, तेनाद्युदात्तः। दृषत्शब्द दृणातेः षुग् ह्रस्वश्च (प० उ० १.१३१) इति अदिप्रत्ययान्तोऽन्तोदात्तः। अनार्तव इति किम् ? प॒र॒म॒शा॒र॒दम्। उ॒त्त॒म॒शा॒र॒दम्। शरदि ऋतुविशेषे भवं यत् तदिह शारदम्॥

Siddhanta Kaumudi

ऋतौ भवमार्तवम् । तदन्यवाचिनि शारदशब्दे परे तत्पुरुषे पूर्वपदं प्रकृतिस्वरं स्यात् । रज्जुशारदमुदकम् । शारदशब्दो नूतनार्थः । तस्यास्वपदविग्रहः । रज्जोः सद्य उद्धृतम् । रज्जुशब्दः सृजेरसुम्च (उ15) इत्याद्युदात्तो व्युत्पादितः । अनार्तवे किम् । उत्तमशारदम् ॥

Padamanjari

उदाहरणे रज्जूद्धृते रज्जुशब्दो दृषत्पिष्टेषु दृषच्छब्दः, ततः कर्मधारयऽस्वपदविग्रहः। सृजेरसुम् च इत्यत्र स्कन्देः सलोपश्च इत्यतः सलोप इति वर्तते, तेन सृजेरन्त्यादचः परोऽयमसुम्, सलोपे यणादेशेऽसुमः सकारस्य जश्त्वे च रज्जुरिति भवति ॥

Nyaas

रज्जुशारदम्, `दृषच्छारदम् [दृषच्छारदाः -काशिका] इति। योगविभागात्? समासः। शारदशब्दोऽय प्रत्यग्रवाची इति। प्रत्यग्रम्भिनवम्, अचिरकालभावीत्यर्थः। एतेन नानार्थवाचित्वं शारदशब्दस्य दर्शयति। नित्यसमासः इति। महाविभाषायाः प्रकृताया व्यवस्थितविभाषात्वात्। अनुपहतम् इति। रजोभिः। अनुपहतत्वं तु सद्यौद्धृतत्वात्। उप्रत्ययान्तः इति। सृजेरसुं च (द।उ।1।100) इत्यत्र भृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उः (द।उ।1।92) [भृमृशीतृचरित्सरितनिमिमस्जिब्यः उः -द।उ।] इत्यत उकारप्रत्ययानुवृत्तेः। अदिप्रत्ययान्तः [अदिक्प्रत्ययान्तः -मुद्रितकाशिका, आदिप्रत्ययान्तः -मुद्रितन्यासः] इति। दृणातेः षुग्? ह्रस्वश्च (द।उ।6।45) इत्यत्र शृदृभसोऽदिः (द।उ।6।42) इत्यतोऽदिप्रत्ययानुवृत्तेः।परमशारदम् इति। शरदि भवं शारदम्। सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण् (4.3.16) इति सूत्रेणोत्पन्नोऽयं शब्दः॥

Prakriyasarvasvam

अनृतुसंबन्धे शारदपदे परे प्राक्पदं प्रकृत्या स्यात् । रज्जूशारदमुदकम् । रज्जुर्निस्सरः । शारदं प्रत्यग्रम् । रज्जूद्धृतत्वान्निर्मलमित्यर्थः ।