61223: समासस्य ============== **Padacheda:** समासस्य | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A compound word has the acute on the last syllable. Vasu English Translation ------------------------ A compound word has the acute on the last syllable. Thus राजपुरुषः꣡ ब्राह्मणकम्बलः꣡, कन्याखनः꣡, पटहशब्दः꣡, नदीघोषः꣡, राजदृष꣡त्, ब्राह्मणसमि꣡त् ॥ The consonants being held to be non-existent for the purposes of accent, the *udatta* will fall on the vowel though it may not be final, the final being a consonant. The exceptions to this rule will be mentioned in the next chapter. Bhashya ------- समासस्य (2660) (6322 उपसंख्यानवार्तिकम् ॥ 1 ॥) - समासान्तोदात्तत्वे व्यञ्जनान्तेषूपसंख्यानम् - समासान्तोदात्तत्वे व्यञ्जनान्तेषूपसंख्यानं कर्तव्यम् । राजदृषत्, ब्राह्मणसमित् ॥ (6323 परिभाषोपस्थापकवार्तिकम् ॥ 1 ॥) - हल्स्वरप्राप्तौ वा व्यञ्जनमविद्यमानवत् - अथवा हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवत् भवतीत्येषा परिभाषा कर्तव्या ॥ (उभयकरणाक्षेपभाष्यम्) किमर्थमिदमुभयमुच्यते, न हल्स्वरप्राप्तावविद्यमानवदित्येवोच्येत, स्वरप्राप्तौ व्यञ्जनमविद्यमानवद्भवति - इति वा । द्विर्बद्धं सुबद्धं भवति ॥ (परिभाषास्वरूपाक्षेपभाष्यम्) यदि हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवद्भवतीत्युच्यते, दधि - उदात्तादनुदात्तस्य स्वरितः (8.4.66) इति स्वरितत्वं न प्राप्नोति । उदात्ताच्च स्वरितविधौ व्यञ्जनमविद्यमानवद्भवतीत्येषा परिभाषा कर्तव्या ॥ (परिभाषाप्रयोजनजिज्ञासाभाष्यम्) कान्येतस्याः परिभाषायाः प्रयोजनानि ? (6324 प्रयोजनवार्तिकम् ॥ 1 ॥) - प्रयोजनं लिदाद्युदात्तान्तोदात्तविधयः - लित्यति प्रयात्पूर्वमुदात्तं भवति - इति, इहैव स्यात् - भौरिकिविधम्, भौलिकिविधम् । चिकीर्षकः, जिहीर्षक इत्यत्र न स्यात् ॥ ञ्ञ्नित्यादिरुदात्तो भवति - इति, इहैव स्यात् - अहिचुम्बकायनिः, आग्निवेश्यः, गार्ग्यः । कृतिः - इत्यत्र न स्यात् ॥ धातोरन्त उदात्तो भवति - इति, इहैव स्यात् - ऊर्णौति । पचति - इत्यत्र न स्यात् ॥ (परिभाषास्वरूपाक्षेपभाष्यम्) इदं तावदयुक्तम् - यदुच्यते - हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवद्भवतीति । कथं हि हलो नाम स्वरप्राप्तिः स्यात् ? तच्चापि ब्रुवता उदात्ताच्च स्वरितविधौ इति वक्तव्यम् । तथाऽनुदात्तादेरन्तोदात्ताच्च यदुच्यते तद्व्यञ्जनादेर्व्यञ्जनान्ताच्च न प्राप्नोति ॥ (एकदेशिनः परिभाषास्वरूपोपस्थापकभाष्यम्) यदि पुनः स्वरविधौ व्यञ्जनमविद्यमानवद्भवतीत्युच्यते । अथ स्वरविधौ व्यञ्जनमविद्यमानवद्भवतीत्युच्यमानेऽनुदात्तादेरन्तोदात्ताच्च यदुच्यते तत्किं सिद्धं भवति व्यञ्जनादेर्व्यञ्जनान्ताच्च ? बाढं सिद्धम् । कथम् ? स्वरविधिरिति सर्वविभक्त्यन्तः समासः । स्वरेण विधिः - स्वरविधिः, स्वरस्य विधिः - स्वरतो विधिः - स्वरविधिरिति । नैवं शक्यम् । इह हि दोषः स्यात् - उदश्वित्वान् घोषः, विद्युत्वान् बलाहक इति, ह्रस्वनुड्भ्यां मतुप् (6.1.176) इत्येष स्वरः प्रसज्येत ॥ (परिभाषास्वरूपस्थापकभाष्यम्) अस्तु तर्हि हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवद्भवति - इति । ननु चोक्तम् - कथं हि हलो नाम स्वरप्राप्तिः स्यात् - इति । उच्चैरुदात्तः (1.2.29) नीचैरनुदात्तः (30) इत्यत्र षष्ठीनिर्दिष्टमज्ग्रहणं निवृत्तम्, तस्मिन्निवृत्ते हलोऽपि स्वरप्राप्तिर्भवति ॥ यदप्युच्यते - उदात्ताच्च स्वरितविधाविति वक्तव्यमिति । न वक्तव्यम् । नेदं पारिभाषिकस्यानुदात्तस्य ग्रहणम् । किं तर्हि ? अन्वर्थग्रहणम् । अविद्यमानोदात्तमनुदात्तं भवति । उदात्तादनुदात्तस्य स्वरित इति ॥ यदप्युच्यते - अनुदात्तादेरन्तोदात्ताच्च यदुच्यते तद्व्यञ्जनादेर्व्यञ्जनान्ताच्च न प्राप्नोति - इति । आचार्यप्रवृत्तिर्ज्ञापयति - तत्र सिद्धं तद्भवति व्यञ्जनादेर्व्यञ्जनान्ताच्चेति, यदयं नोत्तरपदेऽनुदात्तादावित्युक्त्वा अपृथिवीरुद्रपूषमन्थिषु इति प्रतिषेधं शास्ति ॥ (परिभाषाज्ञापकोपपादकभाष्यम्) सा तर्ह्येषा परिभाषा कर्तव्या । न कर्तव्या । आचार्यप्रवृत्तिर्ज्ञापयति - भवत्येषा परिभाषेति, यदयं यतोऽनावः (6.1.213) इति नावः प्रतिषेधं शास्ति ॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य प्रथमे पादे षष्ठमाह्निकम् ॥ पादश्च समाप्तः ॥ Kashika ------- समासस्यान्त उदात्तो भवति। रा॒ज॒पु॒रु॒षः। ब्रा॒ह्म॒ण॒क॒म्ब॒लः। क॒न्या॒स्व॒नः। प॒ट॒ह॒श॒ब्दः। न॒दी॒घो॒षः। रा॒ज॒पृ॒षत्। ब्रा॒ह्म॒ण॒स॒मित्। **स्वरविधौ व्यञ्जनमविद्यमानवद्०**इति हलन्तेऽप्यन्तोदात्तत्वं भवति। नानापदस्वरस्यापवादः॥ ॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ षष्ठाध्यायस्य प्रथमः पादः॥ Siddhanta Kaumudi ----------------- अन्तः उदात्तः स्यात् । यज्ञश्रियम् (य॒ज्ञ॒श्रिय॑म्) ॥ Padamanjari ----------- राजदृषदिति। ननु च योऽत्र समासस्यान्तो दकारो नासौ स्वरभाक्, यश्च ततः पूर्वोऽकारो नासौ समासस्यान्तः ? अत आह -स्वरविधाविति। न स्वरस्यैव विधिः, किं तर्हि ? योऽपि ठनुदातादेरञ्ऽ इत्यादिः, सोऽपि स्वरविधिः; स्वराश्रयत्वात्। तेन सोऽपि विधिर्व्यञ्जनादौ व्यञ्जनान्ते च भवति। अत्र च ज्ञापकम् -ठ्नोतरपदेऽनुदातादौऽ इत्युतवा पृथिव्याः प्रतिषेधः। नानास्वरापवाद इति यद्यपि ठनुदातं पदमेकवर्जम्ऽ इत्यस्ति, तथापि वर्जने विशेषाश्रयणात्पर्यायेण नानास्वरप्रसङ्गः। तत्र राजशब्दः'कनिन्युवृषितक्षि' इत्यादिना कनिन्प्रत्यान्तत्वादाद्यौदातः;'पुरः कुषन्' - पुरुषः; ब्रह्मणोऽपत्यं ब्राह्मणाः -अणन्तः;'कलतृपश्च' ;'वृषादिभ्यश्चित्' ;ठ्कमेर्बुक् चऽ - कम्बलः;'कन्याराजन्यशिप्यामनुप्याणामन्तः' इति कन्याशब्दोऽनतस्वरितः;'स्वनहसोर्वा' इत्यप्, धातुस्वरः; पटत्पटद्धन्यत इति पटहः, पृषोदरादिरन्तोदातः;'स्वनहसोर्वा' इत्यप्, धातुस्वरः; पटत्पटद्धन्यत इति पटहः, पृषोदरादिरन्तोदातः;'शाशपिभ्यां दनौ' , पचादिषु नदडिति पठ।ल्ते, टित्वान्ङीप्-नदी; उदातनिवृत्तिस्वरः; पोषशब्दो घञन्तः;'श्रदृभसो' दिःऽ'दृणातेः षुग् ह्रस्वश्च' दृषत्, प्रत्ययस्वरः; समिध्यते ययेति समित्, सम्पदादित्वात्क्विप्, कृदुतरपदप्रकृतिस्वरः -एते नानास्वराः, तेषामपवादः ॥ Nyaas ----- `राजपुरुषः` इत्यादिषूदहरणेषु समासपदानां तस्मस्तस्मिन्? स्वरे प्राप्ते सतीदमारभ्यते, स आख्यायते। राजशब्दे तावत्? `कनिन्? युवृषितक्षिराजि` (द।उ।6।51) इति कनिन्प्रत्ययान्तत्वात्? नित्स्वरेणाद्युदात्तत्वम्। एवं पुरुषेऽपि, स हि `पुरः कुषन्` (द।उ।6।51) इति कुषन्प्रत्ययान्तो व्युत्पाद्यते। ब्राहृण इदमिति **तस्येदम्** (4.3.120) इति ब्राआहृणशब्दोऽणन्तः प्रत्ययस्वरेणान्तोदात्तः। `कलस्तृपश्च` (दा।उ।8।107) इति `बृषादिभ्यश्चित्` (द।उ।8।109) बहुलवचनात्? `कमेर्बुक्` (द।उ।8।114) इति कम्बलशब्दो व्युत्पाद्यते, तेनायं चित्स्वरेणान्तोदात्तः। कन्यशब्दोऽन्तस्वरित; `अध्न्यादयश्च` (द।उ।8।14) इति निपात्यते। अथ वा -`कनी [`कन` -धातुपाठः-] दीप्तिकान्तिगतिषु` (धातुपाठः-460) इत्यस्मात्? `ऋहलोण्र्यत्` (3.1.124) इति ण्यत्, **कन्यायाः कनीन च** (4.1.116) इति निपातनात्? वृद्ध्यभावः। तित्स्वरेणायमन्तस्वरितः सम्पद्यते। स्वनशब्दः **स्वनहसोर्वा** (3.3.62) इत्यबन्तत्वात्? धातुस्वरेणाद्युदात्तः। पटत्? पटद्? ष्यन्यत इति पटहशब्दः पृषोदरादित्वादन्तोदात्तः। शब्दशब्दः `शाशपिभ्यां ददनौ` (द।उ6।48) इति दन्प्रत्ययान्तत्वान्नित्स्वर#एणाद्युदात्तः। पचादिषु `नदट्` इति पठते, तेन `टिड्ढाणञ्` (4.1.15) इति ङीपि कृते तत्र च **यस्येति च** (6.4.148) इत्यकारलोपे कृत उदात्तनिवृत्तिस्वरेणान्तोदात्तो नदीशब्दो भवति। घोशब्दो घञन्तत्वान्? ञित्स्वरेणाद्युदात्तः। पृषत्समिच्छब्दौ प्रातिपदिकस्दरेणान्तोदात्तौ। अथ राजपृषत्, ब्राआहृणसमिदित्यत्र कथमन्तो भवति, यावता योऽत्र समासस्यान्तो नासौ स्वरभाक्? यस्तु तस्मात्? पूर्वः स तकारेण व्यवहितः? इत्याह -`स्वरविधौ` इतद्यादि। `हलन्तेऽपि` इति। समासस्येदं विशेषणम्। `अन्तोदात्तत्वम्` इति। समासे येऽचः पूर्वे तदपेक्षया परस्याचोऽन्तत्वं वेदित्वयम्। तेन `नानपदस्वरस्यापवादः` इति। समासे हि पदानां पृथक्? स्वरो भवति। यदिवं नोच्येत ततो नानापृथक्पदानां स्वरः प्राप्नोति। अतस्तदपवादोऽयमुच्यते॥ इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्चिकायां षष्ठाध्यायस्यप्रथमः पादः॥- - - अथ षष्ठोऽध्यायःद्वितीयः पादः Prakriyasarvasvam ----------------- अन्त उदात्तः स्यात् । अधिहरि । अत्राद्ययोरचोरनुदात्तत्वम् । उपान्त्यस्याति- नीचत्वं च ज्ञेयम् । अथ सर्वसमासेष्वेतत्प्राप्तावुक्तिः—