61221: ईवत्याः ============== **Padacheda:** ईवत्याः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The Names ending in ईवति have the acute on the last syllable. Vasu English Translation ------------------------ The Names ending in ईवति have the acute on the last syllable. Thus अहीवती꣡, कृषीवती꣡, मुनीवती꣡ ॥ Bhashya ------- इर्वत्याः (2658) (सूत्रद्वयप्रयोजनभाष्यम्) किमर्थमिदमुभयमुच्यते, न वत्याः इत्येवोच्येत ? वत्याः इतीयत्युच्यमाने राजवती - अत्रापि प्रसज्येत । अथ अवत्याः इत्युच्यमाने कस्मादेवात्र न भवति ? असिद्धो नलोपः, तस्यासिद्धत्वान्नैषोऽवतीशब्दः । कस्तर्हि ? अन्वतीशब्दः । यथैव तर्हि नलोपस्यासिद्धत्वान्नावतीशब्दः, एवं वत्त्वस्यासिद्धत्वान्नावतीशब्दः । आश्रयात्सिद्धत्वं स्यात् ॥ Kashika ------- ईयतीशब्दान्तस्यान्त उदात्तो भवति स्त्रियां संज्ञायां विषये। अ॒ही॒व॒ती। कृ॒षी॒व॒ती। मु॒नी॒व॒ती॥ Siddhanta Kaumudi ----------------- ईवत्यन्तस्यापि प्राग्वत् । अहीवती । मुनीवती ॥ Padamanjari ----------- अहीवतीत्यादौ पूर्वं दीर्घः,'संज्ञायाम्' इति वत्वम्। योगविभागश्चिन्त्यप्रयोजनः ॥ Nyaas ----- अयमपि पित्त्वानुदात्तस्यैवापवादः `अहीवती` इत्यादि। **शरादीनां च** (6.3.120) इति दीर्घः, **संज्ञायाम्** (8.2.11) इति च वत्वम्॥ Prakriyasarvasvam ----------------- नाम्नि स्त्रियामीवती शब्दस्यान्त उदात्तः स्यात् । मुनिवती ॥ कृदादिप्रातिपदिके स्वरान् स्त्रीप्रत्यये तथा । उदीर्यान्यप्रकृत्यर्थं फिट्सूत्राणि लिखाम्यथ ॥ ८९६ ॥