61213: यतोऽनावः¶
Padacheda: यतः | S | 6 | 1 |
अनावः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
Whatever is formed by the affix यत् , has, if it is a disyllabic word, the acute on the first syllable, with the exception of नाव्यः from नौ।
Vasu English Translation¶
Whatever is formed by the affix यत् , has, if it is a disyllabic word, the acute on the first syllable, with the exception of नाव्यः from नौ। The word द्व्यच् is understood here from (6.1.205). Thus चे꣡यम्, जे꣡यम् (3.1.97); क꣡ण्ठ्यम्, ओ꣡ष्ठ्यम् (5.1.6). This rule debars the Svarita accent required by तित् (6.1.185) ॥ But नौ — नाव्य॑म् ॥ The rule does not apply to words of more than two syllables, thus :- चिकीर्ष्य॑म्, ललाट्य॑म् ॥
Kashika¶
निष्ठा च द्व्यजनात् (६.१.२०५) इत्यतो द्व्यज्ग्रहणमनुवर्तते। यत्प्रत्ययान्तस्यद्व्यच आदिरुदात्तो भवति, न चेद् नौशब्दात् परो भवति। अचो यत् (३.१.९७) चेय॑म्। जेय॑म्। शरीरावयवाद् यत् (५.१.६) — कण्ठ्य॑म्। ओष्ठ्य॑म्। तित्स्वरितम् (६.१.१८५) इत्यस्यापवादः। अनाव इति किम् ? ना॒व्य॑म्। द्व्यच इत्येव — चि॒की॒र्ष्य॑म्। ल॒ला॒ट्य॑म्॥
Siddhanta Kaumudi¶
यत्प्रत्ययान्तस्य द्व्यच आदिरुदात्तो नावं विना । यञ्जन्त्यस्य काम्या (यु॒ञ्जन्त्य॑स्य काम्या॑) । कमेर्णिङन्तादचो यत् । झ्र्अनावः किम् । नवतिं नाव्यानाम् (न॒व॒तिं ना॒व्याना॑म्) ।ट
Padamanjari¶
अत्र ठनावःऽ इति प्रतिषेधो ज्ञापयति - स्वरविधौ व्यञ्जनमविद्यमानवदिति; अन्यथा य आदिर्नकारो नासौ स्वरयोग्यः, यश्च स्वरोग्य अकारो नासावादिरिति प्रतिषेधोऽनर्थकः स्यात् ॥
Nyaas¶
कण्ठम्, ओष्ठम् इति। भावार्थे तद्धितः। नाव्यम् इति। नावा तार्यमित्यस्मिन्नर्थे नौवयोधर्म (4.4.91) इत्यादिना यत्। अत्र वान्तो यि प्रत्यये (6.1.79) इत्यवादेशे कृते व्यञ्जनस्य स्वरविधावविद्यमानत्वात्? ततः पूर्वस्य स्यादिति नावः प्रतिषेधः क्रियते। ललाटम् इति। शरीरावयवाद्यत् (5.1.6) इति यत्॥