61212: ङयि च¶
Padacheda: ङयि | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The acute accent is on the first syllable of युष्मद् and अस्मद् in the Dative Singular.
Vasu English Translation¶
The acute accent is on the first syllable of युष्मद् and अस्मद् in the Dative Singular. Thus तु꣡भ्यम् and म꣡ह्यम्, the forms त and मे are not governed by this rule. The making of two separate sutras is for the sake of preventing the application of यथासंख्य rule (1.3.10). Had the sutra been यु꣡ष्मदस्मदोर्ङिङणोः, then yushmad in the Dative, and asmad in the Genitive alone would have taken this accent.
Kashika¶
युष्मदस्मदोरिति वर्तते, आदिरुदात्त इति च। ङे इत्येतस्मिंश्च परतो युष्मदस्मदोरादिरुदात्तो भवति। तुभ्य॑म् (ऋ० २.३६.१)। मह्य॑म् (ऋ० १०.१२८.२)। पृथग्योगकरणं यथासंख्यशङ्कानिवृत्त्यर्थम्॥
Siddhanta Kaumudi¶
तुभ्यं हिन्वानः (तुभ्यं॑ हिन्वा॒नः) । मद्यं वातः पवताम् (मद्यं॒ वातः॑पवताम्) ॥
Padamanjari¶
तुभ्यम्, मह्यमिति।’णेó प्रथमयोरम्’ ,’तुभ्यमह्याइ ङ्यि’ । अथ किमर्थो योगविभागः, न’युष्मदस्मदोर्णेóङ्सोः’ इत्येवोच्येत, एवं हि चकारो न कर्तव्यो भवति ? अत आह -पृथग्योगकरणमिति। आशङ्काग्रहणेनास्वरितत्वादेव यथासंख्यं न भविष्यतीति शक्यं वक्तुमिति दर्शयति। अत्रापि पूर्ववद्विभक्तिस्वरः प्राप्तः ॥
Nyaas¶
तुभ्यम्, मह्रम् इति। ङे प्रथमयोरम् (7.1.28) इत्यम्भावः, तुम्यमह्रौ ङयि (7.2.95) इति युष्मदस्मदोस्तुभ्यमह्रावादेशौ। किमर्थं पृथगयं योगः क्रियते? इत्यत आह -पृथग्योगकरणम् इत्यादि। एकयोगे हि कार्यिणोः, निमित्तयोश्च समानत्वाद्यथासंख्यमत्र भवितव्यमिति कस्यचिदाशङ्का स्यात्। अतः पृथग्योगकरणं यथासंख्यनिरासार्थमिति प्रदर्शनार्थम्। ततश्चास्वरितत्वादेव यतासंख्यं न भविष्यति। आशङ्कातः कस्यचिन्मन्दबुद्धेः स्यादिति तन्निरासार्थं पृथग्योगकरणम्। अयमपि पूर्ववदेव विभक्तिस्वरापवादः॥
Prakriyasarvasvam¶
(तं?) अनयोर्ङयि परे आदिरुदात्तः स्यात् । तुभ्यं दक्ष । मह्यं त्वादुः ।