61214: ईडवन्दवृशंसदुहां ण्यतः¶
Padacheda: ईड-वन्द-वृ-शंस-दुहाम् | S | 6 | 3 |
ण्यतः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
The acute accent is on the first syllable of ईड् , वन्द , वृ , शंस् and दुह् , when they are followed by the affix ण्यत्।
Vasu English Translation¶
The acute accent is on the first syllable of ईड् , वन्द , वृ , शंस् and दुह् , when they are followed by the affix ण्यत्। Thus ई꣡ड्यम्, व꣡न्द्यम्, वा꣡र्यम्, श꣡स्यम्, दो꣡ह्या धेनुः ॥ The two letters ण् and त् being indicatory, the ‘nyat’ is not included in ‘yat’ of the last sutra. The accent would be regulated by त् ॥ The accent of त् however is debarred by this rule. The वृ in the sutra is वृङ् संभक्तौ of Kriyadi class: the वृञ् of स्वादि class takes kyap affix. See (3.1.109).
Kashika¶
ईड वन्द वृ शंस दुह् इत्येतेषां यो ण्यत् तदन्तस्यादिरुदात्तो भवति। ईड्य॑म्। वन्द्य॑म्। वार्य॑म्। शंस्य॑म्। दोह्या॑ धेनुः। द्व्यनुबन्धकत्वाद् ण्यतो यद्ग्रहणेन ग्रहणं नास्तीति तित् स्वरितम् (६.१.१८५) इत्येतत् प्राप्तम्। वार्यमिति वृङ् संभक्त ौ इत्यस्यायं ण्यत्। क्यब्विधौ हि वृञ एव ग्रहणमिष्यते॥
Siddhanta Kaumudi¶
एषां ण्यदन्तानामादिरुदात्तः । ईड्यो नूतनैरुत (ईड्यो॒ नूत॑नैरु॒त) । आजुह्वान ईड्यो (आ॒जुह्वा॑न॒ ईड्यो॒) । श्रेष्ठं नो धेहिवार्यम् (श्रेष्ठं नो धेहि॒ वार्यम्) । उक्थमिन्द्राय शंस्यम् (उक्थमिन्द्रा॑य॒ शंस्य॑म्) ॥
Padamanjari¶
ठीह स्तुतौऽ,’वदि अभिवादनस्तुत्योः’ ,’वृङ्सम्भक्तौ’ ,’शंसु स्तुतौ’ ,’दुह प्रपूरणे’ । कथं वार्य इत्यत्र ण्यत्, यावता ठेतिस्तुशासुऽ इत्यादिना विशेषविहितेन क्यपा भाव्यम् ? अत आह -वार्य इत्यादि। अथ वृङेऽपि क्यबेव कस्मान्न भवति ? अत आह -क्यब्विधौ हीत्यादि। एतच्च तत्रैव प्रतिपादितम् ॥
Nyaas¶
ईड स्तुतौ (धातुपाठः-1667) वदि अभिवादनस्तुत्योः (धातुपाठः-11) वृङ्? सम्भक्तौ (धातुपाठः-1509) शंस स्तुतौ (धातुपाठः-728) [शंसु -धातुपाठः-] दुह प्रपूरणे (धातुपाठः-1014) -एतेभ्यो धातुभ्यः ऋहलोण्र्यत् (3.1.124) इति ण्यत्? प्रत्ययः। कस्मिन्? पुनः प्राप्त इदमारभ्यते? इत्याह -द्व्यनुबन्धकत्वात् इत्यादि। अथ कथं पुनर्वार्यमित्यत्र ण्यत्प्रत्ययः, यावता एतिस्तुशासु (3.1.109) इत्यादिना विशेषविहितेन क्यपा भवितव्यम्? इत्याह -वार्यम् इत्यादि। ननु च वृङोऽपि क्यपैव भवितव्यम्। वृ इति सामान्यनिर्देशात्? इत्याह -क्यब्विधौ हि इत्यादि॥
Prakriyasarvasvam¶
ण्यदन्तानामेषामादिरुच्चः स्यात् ।। ईड्यो नूतनैः । हविर्हविर्युवन्द्यः । विश्वा निवाय्य१ । इन्द्राय शंस्यम् । दोह्यम् ।