61211: युष्मदस्मदोर्ङसि¶
Padacheda: युष्मद्-अस्मदोः | S | 6 | 2 |
ङसि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The acute accent is on the first syllable of युष्मद् and अस्मद् in the Genitive Singular.
Vasu English Translation¶
The acute accent is on the first syllable of युष्मद् and अस्मद् in the Genitive Singular. This applies when the forms are मम and तव, and not मे and ते ॥ Thus म꣡म स्वम्, त꣡व स्वम् ॥ The word युष्मद् and अस्मद् are derived from युष and अस by adding the affix मदिक् (Un I.139) युष्मद् + ङस् = युष्मद् + अश् (7.1.27) = तव अट् + अश् (6.2.96) = तव꣡ + अ꣡श् (7.2.90) = तव (6.1.97). Here by (8.2.5), व would have been udatta, the present sutra makes त udatta. So also with मम ॥
Kashika¶
युष्मदस्मदी मदिक्प्रत्ययान्ते अन्तोदात्ते, तयोर्ङसि परत आदिरुदात्तो भवति। तव॑ स्वम्। मम॑ स्वम् ॥
Siddhanta Kaumudi¶
आदिरुदात्तः स्यात् । नहिषस्तव नो मम ॥
Padamanjari¶
‘युष्यसिब्यां मदिक्’ , युषिः सौत्रो धातुः। तव, ममेति।’युष्मदस्मद्भ्यां ङ्सो’ स्ऽ,’तवममौ ङसि’ इति मपर्यन्तस्य तवममादेशः, शेषे लोपः, ठतो गुणेऽ इति पररूपत्वम्, ठेकादेश उदातेनोदातःऽ इति विभक्तेरुदातत्वे प्राप्ते इदमुच्यते ॥
Nyaas¶
युष्मदस्मदी मदिक्प्रत्ययान्ते इति। युष्यसिभ्यां मदिक् (द।उ।6।50) मदिक्प्रत्ययमुत्पाद्य तयोष्र्युत्पादनात्। एतेन युष्मदस्मदोः प्रत्ययस्वरेणाअन्तोदात्तत्वं दर्शयति। तव ममौ ङसि (7.2.96) इति युष्मदस्मदोर्मपर्यन्तस्य तवममौ, शेषे लोपे (7.2.90) कृते अतो गृणे (6.1.94) पररूपत्वम्। युष्मदस्मदोरादेशस्य स्थानिवद्भावादन्तोदात्तत्वम्। एवं च यो ह्रशादेशेन सहैकादेशः, सोऽपि एकादेश उदात्तेनोदात्तः (8.2.5) इत्युदात्त एवेत्यनेन क्रमेण विभक्तिस्वरे प्राप्त इदमुच्यते॥
Prakriyasarvasvam¶
मदिगन्तयोरनयोः ङसि पर आदिरुदात्तः स्यात् । मारिषा मायं तव । तन्वे मम ।