61210: नित्यं मन्त्रे

Padacheda: नित्यम् | S | 1 | 1 |

मन्त्रे | S | 7 | 1 |

Sutrartha


Vasu English Summary

In the मन्त्राः , these words जुष्ट and अर्पित have always the acute on the first syllable.

Vasu English Translation

In the मन्त्राः , these words जुष्ट and अर्पित have always the acute on the first syllable. Thus जु꣡ष्ट देवानाम꣡र्पितं पितॄणाम् ॥ Some say that this rule applies only to जुष्ट and not to अर्पित; in which option is allowed even in the Mantra : so that it has acute on the last in the Mantra even : e.g.तस्मिन्साकं त्रिशता न शंकवोर्पिता꣡ ॥

Kashika

जुष्ट अर्पित इत्येते शब्दरूपे मन्त्रविषये नित्यमाद्युदात्ते भवतः। जुष्टं॑ देवानाम्। अर्पि॑तं पितृणाम्। पूर्वेणात्र विकल्पः प्राप्तः। केचिदत्र जुष्ट इत्येतदेवानुवर्तयन्ति। अर्पितशब्दस्य विभाषा मन्त्रेऽपीच्छन्ति। अन्तोदात्तोऽपि ह्ययं मन्त्रे पठ्यते। तस्मि॑न्त्सा॒कं त्रि॑श॒ता न शं॒कवो॑ऽर्पि॒ताः (ऋ० १.१६४.४८) इति॥

Siddhanta Kaumudi

एतत्सूत्रं शक्यमकर्तुम् । जुष्टो दमूनाः (जुष्टो॒ दमू॑नाः) । षळर आहुरर्पितम् (षळ॑र आहु॒रर्पि॑तम्) । इत्यादेः पूर्वेणैव सिद्धेः । छन्दसि पाठस्य व्यवस्थिततया विपरीतापादनायोगात् । अर्पिताः षर्ष्टिर्न च लाचलासः (अ॒र्पि॒ताः ष॒र्ष्टिर्न च॑लाच॒लासः॑) । इत्यत्रान्तोदात्तदर्शनाच्च ॥

Padamanjari

आरम्भसामर्थ्यादेव सिद्धे नित्यग्रहणमुतरार्थम् ॥

Nyaas

केचिदत्र इत्यादि। किं पुनः कारणं जुष्टशब्द एवावनुवर्तयन्ति? इत्याह -अर्पितशब्दस्य इत्यादि। अत्रापि किं कारणम्? इत्याह -अन्तोदात्तोऽपि इत्यादि। तमेवान्तोदात्तस्य पाठमन्त्रं दर्शयितुमाह -तस्मिन्? साकं त्रिशता इत्यादि। आरम्भसामर्थ्यादेव नित्यत्वे सिद्धे नित्यग्रहणं विस्पष्टार्थम्, उत्तरार्थं च॥

Prakriyasarvasvam

जुष्टशब्दो मन्त्रे नित्यमाद्युच्चः । जुष्टो मित्राय देवानाम् । अर्पिते तु पूर्वेण विकल्पः । अर्पितं पितॄणाम् । शङ्कवोऽर्पिताः ।