61208: रिक्ते विभाषा

Padacheda: रिक्ते | S | 7 | 1 |

विभाषा | S | 1 | 1 |

Sutrartha


Vasu English Summary

The word रिक्त may have optionally the acute on the first syllable.

Vasu English Translation

The word रिक्त may have optionally the acute on the first syllable. Thus रि꣡क्तः or रिक्तः꣡ ॥ This debars (6.1.204) and (6.1.205).

Bhashya

रिक्ते विभाषा (2645) विभाषा वेण्विन्धानयोः (विभाषानिर्धारकभाष्यम्) किमियं प्राप्ते विभाषा, आहोस्विदप्राप्ते ? कथं च प्राप्ते, कथं चाप्राप्ते ? यदि संज्ञायामुपमानम् निष्ठा च द्व्यजनात् (6-1-204;205) इति वा नित्ये प्राप्ते आरम्भस्ततः प्राप्ते, अन्यथा त्वप्राप्ते ॥ वेणुरिक्तयोरप्राप्ते विभाषा, प्राप्ते नित्यो विधिः । वेणुरिव वेणुः । रिक्तो नाम कश्चित् ॥

Kashika

रिक्त शब्दे विभाषादिरुदात्तो भवति। रिक्त॑ ः, रि॒क्त ः। संज्ञायां निष्ठा च द्व्यजनात् (६.१.२०५) इत्यनेन पूर्वविप्रतिषेधेन नित्यमाद्युदात्तः॥

Siddhanta Kaumudi

रिक्तशब्दे वाऽऽदिरुदात्तः । रिक्तः । संज्ञायां तु निष्टा च द्व्यजनात् (SK3693) इति नित्यमाद्युदात्तत्वं पूर्वविप्रतिषेधेन ॥

Padamanjari

रिक्त इति। रिचिर्विरेचनेऽ। संज्ञायामित्यादि।’निष्ठा च द्व्यजनात्’ इत्यस्यावकाशः -दतः, गुप्तः, अस्यावकाशोऽसंज्ञायाम् -रिक्तो घट इति; संज्ञायामुभयप्रसंगे पूर्वविप्रतिपेधः ॥

Nyaas

रिक्तः इति। रिचिर्? विरेचने (धातुपाठः-1441)। प्रत्ययस्वरे प्राप्त आदेर्विभाषोदात्तत्वं विधीयते। संज्ञायाम् इत्यादि। निष्ठा च द्व्यजनात् (6.1.205) इत्यस्यावकाशः -दत्तः, गुप्त इति। अस्यावकशोऽसंज्ञायाम् -रिक्तो घट इति; यदा तु रिक्तशब्दः कस्यचित्? संज्ञा भवति तदोभयोः प्राप्तौ पूर्वविप्रतिषेधेन निष्ठा च द्व्यजनात् (6.1.205) इति नित्यमाद्युदात्तो भवति। न च पूर्वविप्रतिषेधो वक्तव्यः, परशब्दस्येष्टवाचित्वात्॥