61207: आशितः कर्ता

Padacheda: आशितः | S | 1 | 1 |

कर्ता | S | 1 | 1 |

Sutrartha


Vasu English Summary

The word आशित meaning ‘having eaten’ has acute on the first syllable.

Vasu English Translation

The word आशित meaning ‘having eaten’ has acute on the first syllable. Thus आ꣡शितो देवदत्तः ‘Devadatta, having eaten’. Here it is used as an active participle. The क्त is added to अश् preceded by आ, to form both Active and Passive Participles : which by (6.2.144) would have taken acute on the final. This debars that. In the Passive Participle we have आशित꣡म् देवदत्तेन ‘eaten by Devadatta’. आशित꣡मन्नम् ‘the eaten food’. The former is भावे क्त, the second is कर्मणि क्त ॥

Bhashya

आशितः कर्ता (2644) (जिज्ञासाभाष्यम्) किं निपात्यते ? (6320 निपातनबोधकवार्तिकम् ॥ 1 ॥) - आशिते कर्तरि निपातनमुपधादीर्घत्वमाद्युदात्तत्वं च - आशित इति कर्तरि निपात्यते । आशितवान् - आशितः । उपधादीर्घत्वमाद्युदात्तत्वं च निपात्यते ॥ (वार्तिकैकदेशप्रत्याख्यानभाष्यम्) आद्युदात्तत्वमनिपात्यम्, अधिकारात् सिद्धम् । उपधादीर्घत्वमनिपात्यम्, आङ्पूर्वस्य प्रयोगः । यद्येवमवग्रहः प्राप्नोति । न लक्षणेन पदकारा अनुर्वत्याः, पदकारैर्नाम लक्षणमनुर्वत्यम् । यथालक्षणं पदं कर्तव्यम् ॥

Kashika

आशितशब्दः कर्तृवाची आद्युदात्तो भवति। आशि॑तो देवदत्तः। अशेरयमाङ्पूर्वादविवक्षिते कर्मणि कर्तरि क्त ः। तत्र थाथघञ्० (६.२.१४४) इति प्राप्तः स्वरो बाध्यते। कर्तरीति किम् ? आ॒शि॒तमन्नम्। आ॒शि॒तं देवदत्तेन। पूर्वत्र कर्मणि क्तः, उत्तरत्र भावे॥

Siddhanta Kaumudi

कर्तृवाची आशितशब्द आद्युदात्तः । कृषन्नित्फाल आशितम् (कृ॒षन्नित्फाल॒ आशि॑तम्) ॥

Padamanjari

अशेरिति। ठश भोजनेऽ इत्यस्मात्। आङ्पूर्वादविवक्षिते कर्मणीति। उक्तं हि -‘प्रसिद्धेरविवक्षातः कर्मणो’ कर्मिका क्रियाऽ इति। कर्तरि क्त इति।’गत्यर्थाकर्मक’ इत्यादिना। भाष्ये तु’कर्तरि क्तो निपात्यते’ इति स्थितम्। यदि तर्ह्याङ्पूर्वकस्याशेराशित इति रूपम्, अवग्रहः प्राप्नोति, तस्मात् ठुपधादीर्घत्वमपि निपात्यतेऽ इति वार्तिककारः। वृत्तिकारस्तु -‘संहितापाठ एव नित्यः, पदपाठस्तु पौरुपेयः, ततश्च न लक्षणेन पदकारा अनुवर्त्त्याः पदकारैर्नाम लक्षणमनुवर्त्यम्’ इति मन्यते। अपर आह - अशेर्ण्यन्तस्य प्रयोज्यकर्तरि’गतिबुद्धिप्रत्यवसानार्थ’ इति कर्मसंज्ञके निष्ठायामाशित इति रूपम्, स एवात्र भूतपूर्वगत्या कर्ता विवक्षित इति ॥

Nyaas

अशेः इति। अश भोजने (धातुपाठः-1523) इत्यस्मात् कर्तरि क्तो निपात्यते। गत्यर्थाकर्मक (3.4.72) इत्यादिना। पूर्ववत्? कर्मणि क्तः [पूर्वत्र - काशिका] इति। तयोरेव (3.4.70) इत्यादिना। उत्तरत्र भावे इति। नपुंसके भावे क्तः (3.3.114) इति॥

Sutra Prayogas

  • विदितः (किरातार्जुनीयम्): आशितः कर्ता इति निदर्शनेन साधुत्वम्।