61208: रिक्ते विभाषा ==================== **Padacheda:** रिक्ते | S | 7 | 1 | विभाषा | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The word रिक्त may have optionally the acute on the first syllable. Vasu English Translation ------------------------ The word रिक्त may have optionally the acute on the first syllable. Thus रि꣡क्तः or रिक्तः꣡ ॥ This debars (6.1.204) and (6.1.205). Bhashya ------- रिक्ते विभाषा (2645) विभाषा वेण्विन्धानयोः (विभाषानिर्धारकभाष्यम्) किमियं प्राप्ते विभाषा, आहोस्विदप्राप्ते ? कथं च प्राप्ते, कथं चाप्राप्ते ? यदि संज्ञायामुपमानम् निष्ठा च द्व्यजनात् (6-1-204;205) इति वा नित्ये प्राप्ते आरम्भस्ततः प्राप्ते, अन्यथा त्वप्राप्ते ॥ वेणुरिक्तयोरप्राप्ते विभाषा, प्राप्ते नित्यो विधिः । वेणुरिव वेणुः । रिक्तो नाम कश्चित् ॥ Kashika ------- रिक्त शब्दे विभाषादिरुदात्तो भवति। रिक्त॑ ः, रि॒क्त ः। संज्ञायां **निष्ठा च द्व्यजनात्** (६.१.२०५) इत्यनेन पूर्वविप्रतिषेधेन नित्यमाद्युदात्तः॥ Siddhanta Kaumudi ----------------- रिक्तशब्दे वाऽऽदिरुदात्तः । रिक्तः । संज्ञायां तु निष्टा च द्व्यजनात् (SK3693) इति नित्यमाद्युदात्तत्वं पूर्वविप्रतिषेधेन ॥ Padamanjari ----------- रिक्त इति। रिचिर्विरेचनेऽ। संज्ञायामित्यादि।'निष्ठा च द्व्यजनात्' इत्यस्यावकाशः -दतः, गुप्तः, अस्यावकाशोऽसंज्ञायाम् -रिक्तो घट इति; संज्ञायामुभयप्रसंगे पूर्वविप्रतिपेधः ॥ Nyaas ----- `रिक्तः` इति। `रिचिर्? विरेचने` (धातुपाठः-1441)। प्रत्ययस्वरे प्राप्त आदेर्विभाषोदात्तत्वं विधीयते। `संज्ञायाम्` इत्यादि। **निष्ठा च द्व्यजनात्** (6.1.205) इत्यस्यावकाशः -दत्तः, गुप्त इति। अस्यावकशोऽसंज्ञायाम् -रिक्तो घट इति; यदा तु रिक्तशब्दः कस्यचित्? संज्ञा भवति तदोभयोः प्राप्तौ पूर्वविप्रतिषेधेन **निष्ठा च द्व्यजनात्** (6.1.205) इति नित्यमाद्युदात्तो भवति। न च पूर्वविप्रतिषेधो वक्तव्यः, परशब्दस्येष्टवाचित्वात्॥