61206: शुष्कधृष्टौ¶
Padacheda: शुष्क-धृष्टौ | S | 1 | 2 |
Sutrartha¶
Vasu English Summary¶
Also शुष्क and धृष्ट have acute on the first syllable.
Vasu English Translation¶
Also शुष्क and धृष्ट have acute on the first syllable. These are non-Names. Thus शुष्कः and धृष्टः ॥
Kashika¶
आदिरुदात्त इति वर्तते। शुष्क धृष्ट इत्येतावाद्युदात्तौ भवतः। शुष्कः॑। धृष्टः॑। असंज्ञार्थ आरम्भः॥
Siddhanta Kaumudi¶
एतावाद्युदात्तौ स्तः । असंज्ञार्थमिदम् । अत सं न शुष्कम् (अत॒ सं न शुष्क॑म् ) ॥
Nyaas¶
शुष्कः इति। शुष शोषणे (धातुपाठः-1183) शुषः कः (8.2.51) इति क्तस्य कादेशः। धृष्टः इति। ञिधृषा प्रागल्भ्ये` (धातुपाठः-1269) ष्टुत्वम्। कत्वष्टुत्वयोरसिद्धत्वादिह निष्ठान्तत्वं वेदितव्यम्। असंज्ञार्थं आरम्भः इति। संज्ञायां पूर्वेणैव सिद्धत्वात्॥