61205: निष्ठा च द्व्यजनात्¶
Padacheda: निष्ठा | S | 1 | 1 |
च | S | 0 | 0 |
द्व्-यच् | S | 1 | 1 |
अनात् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
A disyllabic Participle in त (निष्ठा) when a Name has the acute on the first syllable, but not if the first syllable has an आ।
Vasu English Translation¶
A disyllabic Participle in त (निष्ठा) when a Name has the acute on the first syllable, but not if the first syllable has an आ। Thus गु꣡प्तः, बु꣡द्धः, द꣡त्तः ॥ This debars the affix accent (3.1.3). In non-participles we have देवः꣡, भीमः꣡ ॥ In polysyllabic Participles we have चिन्तितः꣡, रक्षितः ॥ In Participles having long आ in the first syllable, we have, त्रातः꣡, आप्तः꣡ ॥ When the Participle is not a Name we have, कृत꣡म्, हृत꣡म् ॥
Bhashya¶
निष्ठा च द्व्यजनात् (2642) (6318 एकदेशिन उपसंख्यानवार्तिकम् ॥ 1 ॥) - निष्ठायां यञ्ञि दीर्घत्वे प्रतिषेधः - निष्ठायां यञ्ञि दीर्घत्वे प्रतिषेधो वक्तव्यः । दत्ताभ्याम्, गुप्ताभ्याम् ॥ (6319 उपसंख्यानानुपयोगवार्तिकम् ॥ 2 ॥) - न वा बहिरङ्गलक्षणत्वात् - न वा वक्तव्यम् । किं कारणम् ? बहिरङ्गलक्षणत्वात् । बहिरङ्गोऽत्र दीर्घः, अन्तरङ्गः स्वरः, असिद्धं बहिरङ्गमन्तरङ्गे ॥ (आक्षेपसमाधानानावश्यकत्वबोधकभाष्यम्) अन्तरेण प्रतिषेधमन्तरेण चैतां परिभाषां सिद्धम् । कथम् ? नैवं विज्ञायते - न चेदकारान्ता निष्ठेति । कथं तर्हि ? न चेदाकारात्परा निष्ठेति ॥ यद्येवं निर्देशश्चैव नोपपद्यते, न ह्येषा आकारात्परा पञ्चमी युक्ता । इह च प्राप्नोति - आप्तः, राद्ध इति ॥ एवं तर्हि - न चेदवर्णात्परा निष्ठेति । भवेन्निर्देश उपपन्नः, इह तु प्राप्नोति - आप्तः, राद्ध इति, इह च न प्राप्नोति - यतः, रत इति ॥ एवं तर्हि विहितविशेषणमकारान्तग्रहणम् - न चेदकारान्ताद्विहिता निष्ठेति । एवमपि - दत्तः - अत्र न प्राप्नोति, इह च प्राप्नोति - आप्तः, राद्ध इति ॥ एवं तर्हि कार्यिविशेषणमाकारग्रहणम् - न चेदाकारः कार्यी भवति । एवमपि - अद्याष्टः, कदाष्टः - अत्र न प्राप्नोति । तस्मात्सुष्ठूच्यते - निष्ठायां यञ्ञि दीर्घत्वे प्रतिषेधः न वा बहिरङ्गलक्षणत्वात् इति ॥
Kashika¶
निष्ठान्तं च द्व्यच् संज्ञायां विषय आद्युदात्तं भवति, स चेदादिराकारो न भवति। दत्तः॑। गुप्तः॑। बुद्धः॑। प्रत्ययस्वरापवादः। निष्ठेति किम् ? दे॒वः। भी॒मः। द्व्यजिति किम् ? चि॒न्ति॒तः। र॒क्षि॒तः। अनादिति किम् ? त्रा॒तः। आ॒प्तः। संज्ञायामिति किम् ? कृ॒तम्। हृ॒तम्॥
Siddhanta Kaumudi¶
निष्ठान्तस्य द्व्यचः संज्ञायामादिरुदात्तो न त्वाकारः । दत्तः । द्व्यच् किम् । चिन्तितः । अनात्किम् । त्रातः । संज्ञायामित्यनुवृत्तेर्नेह । कृतम् । हृतम् ॥
Padamanjari¶
इहाद्याक्तः अद्यात इत्येकादेशस्य बहिरङ्गत्वादसिद्धत्वाद् ठनात्ऽ इतिक प्रतिषेधाभावः। भीष्मशब्दः’भियः षुक्च’ इति मन्प्रत्ययान्तः। चिन्तित इति।’चिति स्मृत्याम्’ चुरादिः ॥
Nyaas¶
गुप्तः इति गुपू रक्षणे (धातुपाठः-395)। बुद्धः इति। बुध अवगमने (धातुपाठः-858)। देवः इति। देवशब्दः पचाद्यजन्तत्वादन्तोदात्तः। भीमशब्दोऽपि मगन्तत्वात्? प्रत्यस्वरेण। इषियुधि (द।उ।7।31) इत्याद्यधिकृत्य भियः षुग्वा (द।उ।7।35) इति मक्प्रत्ययान्तो व्युत्पाद्यते। चिन्तितः इति। चिति स्मृत्याम् (धातुपाठः-1535), चौरादिकः, निष्ठायां सेटि (6.4.52) इति णिलोपः। रक्षितः इति। रक्ष पालने (धातुपाठः-658)। त्रातः, आप्तः इति। त्रैङ पालने (धातुपाठः-965), आप्लृ व्यातौ (धातुपाठः-1260)॥