61204: संज्ञायामुपमानम्¶
Padacheda: संज्ञायाम् | S | 7 | 1 |
उपमानम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The acute accent falls on the first syllable of that word with which something is likened, provided that it is a name.
Vasu English Translation¶
The acute accent falls on the first syllable of that word with which something is likened, provided that it is a name. Thus च꣡ञ्चा, व꣡घ्रिका, ख꣡रकुटी, दा꣡सी ॥ All these are उपमान words used as names of the उपमेय (the thing compared). The affix कन् (5.3.96) is elided here by (5.3.98). It might be asked when कन् is elided, its mark, namely causing the first syllable to be acute (6.1.197), will remain behind by virtue of (1.1.62), where is then the necessity of this sutra. The formation of this sutra indicates that the प्रत्ययलक्षण rule is not of universal application in the rules relating to accent.
When the word is not a Name, we have अग्नि꣡र्माणवकः ॥ When it is not an upamana we have देवदत्तः꣡ (6.2.148).
Bhashya¶
संज्ञायामुपमानम् (2641) (सूत्राक्षेपभाष्यम्) किमर्थमिदमुच्यते, न ञ्ञ्नित्यादिर्नित्यम् (6.1.197) इत्येव सिद्धम् ? ञ्ञ्नितीत्युच्यते, न चात्र ञ्ञ्नितं पश्यामः । प्रत्ययलक्षणेन । न लुमता तस्मिन्निति प्रत्ययलक्षणप्रतिषेधः । अङ्गाधिकारोक्तस्य स प्रतिषेधः न लुमताङ्गस्य (1.1.63) इति । अत उत्तरं पठति - (6317 सूत्रप्रयोजनबोधकवार्तिकम् ॥ 1 ॥) - उपमानस्याद्युदात्तवचनं ज्ञापकमनुबन्धलक्षणे स्वरे प्रत्ययलक्षणप्रतिषेधस्य - उपमानस्याद्युदात्तवचनं ज्ञापकार्थं क्रियते । किं ज्ञाप्यम् ? एतज्ज्ञापयत्याचार्यः - अनुबन्धलक्षणे स्वरे प्रत्ययलक्षणं न भवतीति । किमेतस्य ज्ञापने प्रयोजनम् ? गर्गाः, वत्साः, विदाः, उर्वाः । उष्ट्रग्रीवा वामरज्जुः । ञ्ञ्नितीत्याद्युदात्तत्वं न भवति । इह च - अत्रय इति तद्धितस्य कितः (6-1-164;165) इत्यन्तोदात्तत्वं न भवति ॥ (ज्ञाप्याक्षेपभाष्यम्) यद्यनुबन्धलक्षण इत्युच्यते, पथिप्रियः - मथिप्रिय इति, पथिमथोः सर्वनामस्थाने (199) इत्याद्युदात्तत्वं प्राप्नोति ॥ (समाधानभाष्यम्) एवं तर्ह्याचार्यो ज्ञापयति - स्वरे प्रत्ययलक्षणं न भवतीति ॥ (ज्ञाप्याक्षेपभाष्यम्) एवमपि सर्पिरागच्छ - सप्तागच्छतेति आमन्त्रितस्य च (198) इत्याद्युदात्तत्वं न प्राप्नोति । इह च - मा हि दाताम्, मा हि धातामादिः सिचोऽन्यतरस्याम् (187) इत्येष स्वरो न प्राप्नोति ॥ (समाधानभाष्यम्) एवं तर्हि ज्ञापयत्याचार्यः - सप्तमीनिर्दिष्टे स्वरे प्रत्ययलक्षणं न भवतीति ॥ (ज्ञाप्याक्षेपभाष्यम्) एवमपि सर्वस्तोमः - सर्वपृष्ठः सर्वस्य सुपि (191) इत्याद्युदात्तत्वं न प्राप्नोति ॥ (समाधानभाष्यम्) एवं तर्हि अनुबन्धलक्षणे इत्येव । कथं पथिप्रियः, मथिप्रियः ? वक्तव्यमेवैतत् - पथिमथोः सर्वनामस्थाने लुकि लुमता लुप्ते प्रत्ययलक्षणं न भवतीति ॥
Kashika¶
उपमानशब्दः संज्ञायामाद्युदात्तो भवति। चञ्चा॑। वर्ध्रि॑का। खर॑कुटी। दासी॑। उपमानशब्दा एते उपमेयस्य संज्ञाः। तत्र इवे प्रतिकृतौ (५.३.९६) इति यः कन्, तस्य लुम्मनुष्ये (५.३.९८) इति लुप्। यद्येवं किमर्थमिदमुच्यते प्रत्ययलक्षणेन सिद्धमाद्युदात्तत्वम् ? एतदेव ज्ञापयति क्वचिदिह स्वरविधौ प्रत्ययलक्षणं न भवतीति। तथा च पूर्वत्रोदाहृतम् (६.१.१९७)। संज्ञायामिति किम् ? अ॒ग्निर्माणवकः। उपमानमिति किम् ? दे॒व॒द॒त्तः॥
Siddhanta Kaumudi¶
उपमान शब्दः संज्ञायामाद्युदात्तः । चञ्चेव चञ्चा । कनोऽत्र लुप् । एतदेव ज्ञापयति क्वचित्स्वरविधौ प्रत्ययलक्षणं नेति । संज्ञायां किम् । अग्निर्माणवकः । उपमानं किम् । जैत्रः ॥
Padamanjari¶
यद्येवमिति। यद्यत्र कनो लुबित्यर्थः। एतदेवेत्यादि। ज्ञापकाभावे तु सप्तमीनिर्देशेऽपि प्रत्ययलक्षणप्रतिषेधो न स्यात्,’स्वरविधौ सप्तम्यस्तदन्तसप्तम्यः’ इति ज्ञापनेन तदन्तस्य कार्यित्वात्। क्वचिदिति। वचनात्क्वचिद्भवत्येव, यथा -‘सर्वस्य सुपि’ इत्यत्र ॥
Nyaas¶
यद्येवम् इति। यदि कनो लुबित्यर्थः, कनोऽपु लुपि सत्यपि प्रत्ययलक्षणेनैव सिद्धमेषां हि नित्स्वरेणाद्युदात्तत्वम्, तदपार्थकमित्यभिप्रायः। एतदेव इत्यादि। यदि हि क्वचित्? स्वरविधौ प्रत्ययलक्षणं स्यात्, कर्तव्यमेवेदं वचनं स्यात्। प्रत्ययलक्षणेन सिद्धत्वात्, कृतञ्च। तस्मादेतज्ज्ञापयति - प्रत्ययलक्षणं स्यात्, कर्तव्यमेवेदं वचनं स्यात्। प्रत्ययलक्षणेन सिद्धत्वात्, कृतञ्च। तस्मादेतज्ज्ञापयति - प्रत्ययलक्षणमिह स्वरविधौ न भवतीति। क्वचिद्ग्रहणं क्वचित्तु भवतीति प्रदर्शनार्थम्, तथा हि सर्वस्य सुपि (6.1.191) इत्यत्रोक्तम् - प्रत्ययलक्षणेनाप्ययं स्वर इष्यत इति। तथा च इत्यादिना ज्ञापनस्य प्रयोजनमाह। अग्निर्माणवकः इति। भवत्यग्निशब्द उपमानम्। तथा ह्रग्निरेवेति गम्यते, नासौ माणवकस्य संज्ञा॥