61159: कर्षात्वतो घञोऽन्त उदात्तः¶
Padacheda: कर्ष-आत्वतः | S | 6 | 1 |
घञः | S | 6 | 1 |
अन्तः | S | 1 | 1 |
उदात्तः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
A stem formed with the कृत-affix घञ् has the acute accent on the end-syllable, if it is formed from the root कृष् (कर्षति) or has a long आ in it.
Vasu English Translation¶
A stem formed with the कृत-affix घञ् has the acute accent on the end-syllable, if it is formed from the root कृष् (कर्षति) or has a long आ in it. Thus कर्षः꣡, पाकः꣡, त्यागः꣡, रागः꣡, दायः꣡, धायः꣡ ॥ This is an exception to (6.1.197) by which affixes having an indicatory ञ् have acute accent on the first syllable. The word कर्ष is used in the aphorism instead of कृष्, to indicate that कृष of Bhvadi gana is affected by this rule, and not कृष् — कृषति of Tudadigana. The word क꣡र्षः derived from Tudadi कृष् has acute accent on the first syllable.
Bhashya¶
कर्षात्वतो घञ्ञोऽन्त उदात्तः ( 2596) (विकृतग्रहणप्रयोजनभाष्यम्) किमर्थं कृषेर्विकृतस्य ग्रहणं क्रियते न कृषात्वतः इत्येवोच्येत ? यस्य कृषेर्विकरण एतद्रूपं तस्य यथा स्यात् । इह मा भूत् - हलस्य कर्षः इति ॥ (मतुबन्तग्रहणप्रयोजनभाष्यम्) अथ किमर्थं मतुपा निर्देशः क्रियते, न कर्षातः इत्येवोच्येत ? कर्षातः इतीयत्युच्यमाने यत्रैवाकारादनन्तरो घञ्ञस्ति तत्रैव यथा स्यात् । दायः, धायः । इह न स्यात् - पाकः, पाठः ॥ न क्वचिदाकारादनन्तरो घञ्ञस्ति । इहापिदायः, धायः - इति युका व्यधानम् ॥ एवमपि विहितविशेषणमाकारग्रहणं विज्ञायेत - आकाराद्यो विहित इति । मतुब्ग्रहणे पुनः क्रियमाणे न दोषो भवति ॥
Kashika¶
कर्षतेर्धातोराकारवतश्च घञन्तस्यान्त उदात्तो भवति। क॒र्षः। पा॒कः। त्या॒गः। रा॒गः। दा॒यः। धा॒यः। ’ञ्नित्यादिर्नित्यम्’ (६.१.१९७) इत्यस्यापवादः। कर्ष इति विकृतनिर्देशः कृषतेर्निवृत्त्यर्थः। तौदादिकस्य घञन्तस्य कर्ष॑ इत्याद्युदात्त एव भवति॥
Siddhanta Kaumudi¶
कर्षतेर्धातोराकारवतश्च घञन्तस्यान्त उदात्तः स्यात् । कर्षः । शपा निर्देशात्तुदादेराद्युदात्त एव । कर्षः । पाकः ॥
Padamanjari¶
आदस्यास्तीत्यात्वान्,’तसौ मत्वर्थे’ इति भसंज्ञा, कर्षश्चात्वांश्चेति समाहारद्वन्द्वः। विकृतनिर्देश इति। विकरणान्तस्येदमनुकरणम्, न तु घञन्तनिर्देश इति भावः। अथ किमर्थो मतुब्निर्देशः, यावता न क्वचिदप्याकारात्परो घञस्तीति सामर्थ्यातद्वतो ग्रहणं भविष्यति? उच्यते; घञाक्षिप्तो धातुरात इत्यनेन विशेष्येत, तत्र तदन्तविधौ ज्ञायमाने आनन्तर्यस्यासम्भवाद्विधानं विशेष्येत -आकारान्ताद्यो विहित इति, ततश्च दाय इत्यादावेव स्यात्, पाक इत्यादौ तु न स्यात्; मतुब्निर्द्देशातु सर्वत्र भवतीति। लाक्षणिकस्याप्यात्वतो ग्रहणमिष्यते; वृषादिषु कामपामपदानां पाठात्। ठलोऽन्त्यस्यऽ इत्येव सिद्धेऽन्तग्रहणमुतरार्थम् ॥
Nyaas¶
प्रस्कण्वहरिश्चन्द्रौ इति। प्रकृष्टः कण्वोऽस्येति प्रसकण्वः। हरिश्चन्द्रोऽस्येति हरिश्चन्द्रः। व्युत्पत्तिमातरमेतत्? कृतम्, न त्वत्रावयवार्थोऽस्ति। रूढिशब्दौ ह्रेतौ प्रत्यस्तमितावयवार्थौ क्वचिदेव ऋषिविशेषे वर्तेते। ननु च हरिश्चन्द्रे ह्रस्वाच्चन्द्रोत्तरपदे (6.1.151) इत्यनेनैव सुट्? सिद्धः, तत्किमर्थं हरिश्चन्द्रग्रहणम्? इत्यत आह -हरिश्चन्द्रग्रहणम् इत्यादि। प्रकण्वः इति। प्रगतः कण्वोऽस्मादिति प्रकण्वः। हरिरिव चन्द्रोऽस्येति हरिचन्द्रः॥