61158: अनुदात्तं पदमेकवर्जम्

Padacheda: अनुदात्तम् | S | 1 | 1 |

पदम् | S | 1 | 1 |

एकवर्जम् | S | 1 | 1 |

Sutrartha

पदम् एकवर्जमनुदात्तम् भवति ।

इदम् परिभाषासूत्रम् स्वरनिर्णयस्य प्रमुखम् विधिम् पाठयति । पदे यदि कश्चन स्वरः स्वरितः / उदात्तः वा विधीयते, तर्हि तं स्वरं वहाय पदे विद्यमानाः अन्ये स्वराः अनुदात्ताः भवन्ति, इति अस्य सूत्रस्य आशयः । उदाहरणात् पूर्वम् बिन्दुत्रयम् स्मर्तव्यम् - 1. शब्दे यदि द्वौ वा अधिकाः स्वराः उदात्ता / स्वरिताः विद्यन्ते, तर्हि तत्र कस्य स्वरस्य उदात्तत्वम् / स्वरितत्वम् बलवत्तममस्ति अस्मिन् विषये एकः सामान्यः नियमः उक्तः अस्ति - यः स्वरः प्रक्रियायाम् अन्ते उदात्तत्वं / स्वरितत्वं प्राप्नोति, तस्य उदात्तत्वं / स्वरितत्वं तादृशमेव संस्थाप्य अन्ये उदात्त/स्वरितस्वराः वर्तमान-परिभाषया अनुदात्ताः भवन्ति । अयमेव विधिः ‘सतिशिष्टस्वरस्य नियमः’ नाम्ना ज्ञायते (यस्य उदात्तत्वम् / स्वरितत्वमवशिष्यते, सः शिष्टस्वरः अस्तीति नाम । तस्य निर्धारणम् येन विधिना क्रियते, सः सतिशिष्टस्वरविधिः - इति आशयः)। 2. सतिशिष्टस्वरस्य विषये एकम् वार्त्तिकम् ज्ञातव्यम् - <!सति शिष्टस्वरबलीयस्त्वम् अन्यत्र विकरणेभ्य इति वाच्यम्!> । इत्युक्ते, विकरणप्रत्ययः यद्यपि प्रक्रियायाः अन्ते विधीयते, तथापि सः सतिशिष्टनियमेन बलवान् न भवति - इति ।अस्य वार्त्तिकस्य प्रयोगः अधः द्वितीये उदाहरणे कृतः अस्ति । 3. त्रिपाद्याम् उदात्तादनुदात्तस्य स्वरितः (8.4.66) इति किञ्चन सूत्रम् पाठ्यते । अनेन सूत्रेण उदात्तस्वरात् परः विद्यमानः अनुदात्तस्वरः स्वरितः जायते । अयं स्वरितस्वरः उदात्तस्वरस्य आश्रयेण जायते, अतः अतम् ‘आश्रितः स्वरः’ अस्ति इत्युच्यते । तथा च, इदम् सूत्रम् प्रक्रियायाः अन्ते प्रयुज्यते, अस्य कार्यम् च वर्तमानसूत्रार्थमसिद्धमस्ति, अतः अस्य सूत्रस्य प्रयोगात् अनन्तरम् पुनः वर्तमानपरिभाषा न प्रसज्यते । उदाहरणद्वयं पश्यामः - 1. ‘गोपाय’ इति भ्वादिगणस्य धातुः । गुप्-धातोः ‘आय’ इति सनादिप्रत्ययं कृत्वा अग्रे सनाद्यन्ताः धातवः (3.1.32) इत्यनेन अस्य धातुसंज्ञा भवति । अस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपमस्ति ‘गोपायति’ इति । अस्य रूपस्य प्रक्रिया तथा तस्याम् स्वरसञ्चारः इत्थं भवति - गुप् [धातोः (6.1.162) इति उकारस्य उदात्तत्वम्] → गुप् + आय [गुपूधूपविच्छिपणिपनिभ्य आयः (3.1.28) इति ‘आय’ इति सनादिप्रत्ययः । आद्युदात्तश्च (3.1.3) इत्यनेन अस्य प्रत्ययस्य आदिस्वरः उदात्तः भवति । यकारोत्तरः अकारः तु औत्सर्गिकतया उदात्तः अस्ति ।] → गोप् + आय [पुगन्तलघूपधस्य च (7.3.86) इति उपधास्वरस्य गुणादेशः] → गोपाय [वर्णमेलनम् । अग्रे सनाद्यन्ताः धातवः (3.1.32) इत्यनेन ‘गोपाय’ इत्यस्य धातुसंज्ञा, अतः यकारोत्तरः अकारः धातोः (6.1.162) इति उदात्तः जायते ।] → गोपाय + लट् [वर्तमाने लट् (3.2.123) इति लट्] → गोपाय + ति॒प् [प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्तस्झि (3.4.78) इति तिप्-प्रत्ययः । अनुदात्तौ सुप्पितौ (3.1.4) इति तकारोत्तरः इकारः अनुदात्तः भवति ।] → गोपाय + श॒प् + ति॒प् [कर्तरि शप् (3.1.68) इति शप्-विकरणप्रत्ययः । अनुदात्तौ सुप्पितौ (3.1.4) इति शकारोत्तरः अकारः अनुदात्तः भवति ।] → गोपाय + अ॒ + ति॒ [इत्संज्ञालोपः] → गोपाय + ति॒ [ यकारोत्तर-अकारः तथा विकरणप्रत्ययस्य अकारः - द्वयोः अतो गुणे (6.1.97) इति एकः पररूपः एकादेशः अकारः ।एकादेश उदात्तेनोदात्तः (8.2.5) इति सः उदात्तः जायते। ] → गोपायति॒ [सुप्तिङन्तं पदम् (1.4.14) इति पदसंज्ञा ।] → गो॒पा॒यति॒ [‘गोपायति॒’ अस्मिन् पदे त्रयः उदात्तस्वराः सन्ति, एकः च अनुदात्तः स्वरः अस्ति । अतः अनुदात्तं पदमेकवर्जम् (6.1.158) इत्यनेन एकं उदात्तस्वरं वर्जयित्वा अन्यौ द्वौ स्वरौ अनुदात्तौ जायेते । अत्र त्रिषु स्वरेषु यकारोत्तरः अकारः सतिशिष्टनियमेन बलवत्तममस्ति, अतः तं विहाय अन्यौ स्वरौ अनुदात्तौ भवतः ।] → गो॒पा॒यति॑ [ उदात्तादनुदात्तस्य स्वरितः (8.4.66) इति तकारोत्तरः इकारः आश्रित-स्वरितत्वं प्राप्नोति ।] एतादृशं गुप्-धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ‘गो॒पा॒यति॑’ इति जायते । 2. ‘ज्ञा’ इति क्र्यादिगणस्य धातुः । अस्य धातोः परस्मैपदस्य लट्लकारस्य द्विवचनस्य रूपम् ‘जानीतः’ इति भवति । अस्य रूपस्य सिद्धिः तथा अस्यां स्वरसञ्चारः इत्थम् भवति - ज्ञा॑ [क्र्यादिगणस्य धातुः । धातौ विद्यमानः आकारः मूलरूपेण स्वरितः अस्ति, येन धातुः उभयपदं स्वीकरोति ।] → ज्ञा [धातौ विद्यमानः आकारः प्रक्रियायाः आरम्भे धातोः (6.1.162) इत्यनेन उदात्तः जायते ।] → ज्ञा + लट् [वर्तमाने लट् (3.2.123) इति लट्] → ज्ञा + तस् [प्रथमपुरुषद्विवचनस्य विवक्षायाम् तिप्तस्.. (3.4.78) इति ‘तस्’ प्रत्ययः । तकारोत्तरः आकारः आद्युदात्तश्च (3.1.3) इति उदात्तः भवति ।] → ज्ञा + श्ना + तस् [क्र्यादिभ्यः श्ना (3.1.81) इति श्ना विकरणप्रत्ययः । अस्य आकारः आद्युदात्तश्च (3.1.3) इति उदात्तः भवति ।] → जा + ना + तस् [ज्ञाजनोर्जा (7.3.79) इति शित्-प्रत्यये परे ‘ज्ञा’ इत्यस्य ‘जा’ आदेशः भवति ।] → जा + नी + तस् [ई हल्यघोः (6.4.133) इति विकरणस्य आकारस्य ईकारः] → जानीतस् [सुप्तिङन्तं पदम् (1.4.14) इति पदसंज्ञा] → जा॒नी॒तस् [अत्र वस्तुतः श्ना-प्रत्ययस्य आकारः प्रक्रियायामन्ते उदात्तत्वं स्वीकरोति । अतः सतिशिष्टनियमेन तस्यैव उदात्तत्वं विधीयेत, अन्ये स्वराः अनुदात्ताः भवेयुः । परन्तु अयम् विकरणस्वरः अस्ति, अतः <!सति शिष्टस्वरबलीयस्त्वम् अन्यत्र विकरणेभ्य इति वाच्यम्!> अनेन वार्त्तिकेन अस्य उदात्तत्वं बलवान् न भवति, अतः तं बाधित्वा प्रक्रियायाम् तस्मात् पूर्वसोपाने उदात्तत्वं येन प्राप्तम्, सः ‘तस्’ प्रत्ययस्य स्वरः उदात्तत्वं हरते, अन्ये स्वराः च अनुदात्ताः भवन्ति ।] → जा॒नी॒तः [ससजुषो रुँः (8.2.66) इति रुँत्वम्, खरवसानयोर्विसर्जनीयः (8.3.14) इति विसर्गः] एतादृशं ज्ञा-धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् ‘जा॒नी॒तः’ इति भवति ।

Vasu English Summary

A word is, with the exception of one syllable, unaccented.

Vasu English Translation

A word is, with the exception of one syllable, unaccented. Karika

आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च । पृथक्स्वरनिवृत्त्यर्थमेकवर्जं पदस्वरः ॥

That is, only one syllable in a word is accented, all the rest are anudatta or unaccented. This is a Paribhasha or maxim of interpretation with regard to the laws of accent. Wherever an accent-be it acute (udatta) or a circumflex (svarita) is ordained with regard to a word, there this maxim must be applied, to make all the other syllables of that word unaccented. The word अनुदात्त means ‘having an anudatta vowel’. What is the one to be excepted? That one about which any particular accent has been taught in the rules here-in-after given. Thus (6.1.162) teaches that a root has acute accent on the final. Therefore, with the exception of the last syllable, all the other syllables are unaccented. Thus in गोपाय꣡ति the acute accent is on य, all the rest are unaccented. The root accent is superseded by आ accent, thus लुना꣡ति has acute accent on ना ॥ The आ accent is superseded by तस् accent, as लुनीतः꣡, has accent on तः ॥ The तस् accent is superseded by आम् accent, as लुनीतस्तरा꣡म् ॥

आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च, पृथक् स्वरनिवृत्यर्थमेकवर्जं पदस्वरः ॥ The words ‘with the exception of one syllable’ show that the separate accent of an augment, or a preparative element, or a stem or an affix should cease, when a particular accent is taught for a word’. Thus as to (1) augment:-(7.1.98) teaches “आम् acutely accented is the augment of चतुर् and अनडुह् when a sarvanamasthana affix follows”. Thus चत्वा꣡रः, अनड्वा꣡हः, here the augment-accent supersedes the accent of the stem, for च꣡तुर was acutely accented on the first syllable, so also अनडु꣡ह्, these being formed by the affixes उरन् and असुन् respectively. Thus चत् + उरन् = च꣡तुर (चतेरुरन् Un V. 58, accent (6.1.197)); अनडुह् is thus derived : अनो वहति = अनस् + वह् + क्विप्, the स् is replaced by ड्, and there is vocalisation of व् of वह् (6.1.15) = अनडु꣡ह् ॥ This word is formed by a Krit affix with a karaka upapada, therefore, the second term will retain its original accent, namely the final acute of a root. (6.1.162) and (6.2.139) अनस् itself is derived by adding the affix (Un IV. 189) असुन् which makes the word acutely accented on the first syllable. (2). Similarly as to विकार (Vikarana):- (7.1.75) teaches “instead of अस्थि, दधि, सक्थि, and अक्षि, there shall be आनङ् acutely accented when टा follows or any of the subsequent terminations beginning with a vowel”. This अन will supersede the acute accent of the first अ of the stem: as अस्थ꣡नि ॥ The word अ꣡स्थि is derived from अस् by adding the affix क्थिन् (Un III.154) which makes the word acutely accented on the first (6.1.197). This is an example of विकार ॥ (3) Similarly in गोपायति the accent of the stem taught in (6.1.162) ‘a root has an accent on its final’, supersedes the accent of the vikarana आय (3.1.28), (3.1.3), i. e. the acute accent on आ in आय gives way to the root-accent which makes य acute. (4) So also the accent of the affix supersedes that of the stem : as कर्त्तव्य॑म्, and हर्तव्य॑म्, which are formed by the affix तव्यत् (3.1.96) here (6.1.185) debars the accent of the root (6.1.162).

The determination of the proper accent of a word depends upon considering the various rules that have gone to form it, and the sequence of those rules, e. g. a latter rule (पर) superseding a prior rule, a nitya rule superseding an anitya rule, an antaranga superseding a bahiranga, an apavada rule superseding an utsarga rule. But another test is, what is the remaining rule that applies after giving scope to all. A rule, that in spite of another rule, finds scope or activity, bars that former rule. Thus गोपायति ॥ It is derived from गु꣡प् root, which as a root has accent on the syllable गु (6.1.162). When the affix आय is added to it by (3.1.28), the word becomes गोपा꣡य and it takes the accent of the affix (3.1.3), i. e. the accent now falls on पा; but now comes rule (3.1.32) which says that a word taking the affix आय is a root. Thus गोपाय꣡ gets the designation of root (धातु), and thus takes the accent of a dhatu (6.1.162), and the accent falls on य ॥

The rule is that except one special accent taught in a sutra the other syllables take anudatta. Therefore, where there is a conflict of rules, the accent is guided by the follwing maxim: “परनित्यान्तरङ्गापवादैः स्वरैर्व्यवस्था सति प्रकृतिशिष्ठेन च” namely (1) the sequence, a succeeding rule setting aside a prior rule (2) a Nitya rule is stronger then Anitya, (3) Antaranga stronger than Bahiranga, ( 4 ) the Apavada is stronger then Utsarga. When all these are exhausted, as we have illustrated above, then we apply the rule of सतिशिष्ठ ॥ What is this rule? To quote the words of Kasika: यो हि यस्मिन् सति शिष्यते स तस्य बाधको भवति “that which does remain and must last in spite of the presence of another, debars such other”. Thus in गोपायति; here the प्रत्ययस्वरः “the accent of the affix” (3.1.3) by which the acute is on the first syllable of the affix is an apavada to the धातुस्वरः (6.1.192) by which the final of a dhatu is acute, and it debars the dhatu-accent; but this affix-accent is in its turn debarred in the case of derivative verbs formed with affixes, by the rule of सतिशिष्ठ, because even after the addition of the affix, these words retain the designation of dhatu. Similarly in कार्ष्णोत्तरासङ्गपुत्रः, “The son of him whose upper garment (uttarasanga) is of black color–the Son of Baladeva” the Bahuvrihi-accent (6.2.1) being an apavada to Samasa-accent (6.1.223), debars the samasa-accent; but this Bahuvrihi-accent is in its turn debarred by the rule of सतिशिष्ठ when a further compound is formed and the final word is a compound only and not a Bahuvrihi. Though the accent of the Vikarana is a सतिशिष्ठ, yet it does not debar the Sarvadhatuka accent (6.1.186). Thus in लुनीतः, the accent of the vikarana नी does not debar the accent of तस् ॥

Vart:- The नञ् accent is stronger than the case-affix accent. Thus in अतिस्रः, here the accent of जस् vibhakti after तिसृ (6.1.166) though सतिशिष्ठ is debarred by नञ् accent taught in (6.2.2), for Negative compounds are Tatpurusha.

Vart:- The accent of नञ् is stronger than the accent of that which is caused or occasioned by a vibhakti. Thus अचत्वारः ॥ Here the augment आम् in चत्वार is occasioned because of the case-affix, for it is added only then when a Sarvanama case-affix follows (7.1.98). This आ is udatta (6.1.98). But this udatta is superseded by the accent of the Negative particle.

Why do we say ‘in the body of a pada’? In a sentence, every word will retain its accent. As देव꣡दत्त ! गा꣡मभ्याज शुक्ला꣡म् “O Devadatta, drive away the white cow”. The word पद is in fact used in this sutra in its secondary sense, namely that which will get the designation of पद when completed; had it meant the full ready made pada, this word would not have been repeated in पदाधिकार sutra (8.1.16), (8.1.17). Had a full ‘pada’ been meant, the incongruity would arise in the following. The word कु꣡वल is acutely accented on the first as belonging to ग्रामादि class (Phit II.15), adding the feminine affix ङीष् to it by its belonging to ग्रामादि class, we get कुवली, which will retain its acute on the first because it is not technically a पद ॥ But it is not so, the word कुवली has anudatta accent on the first syllable (Phit II.15), and hence we can apply the अञ् affix to it by (4.2.44), thus कुवल्या विकारः = कौवलम् ॥ Similarly the word गर्भिणी formed from ग꣡र्भ (belonging to Gramadi class Phit II.15), with, the affix इनि (5.2.115) and the feminine ङीप् ॥ If here the affix इनि being udatta causes all the rest syllables anudatta, just at the very moment of its application, without seeing whether the word was a pada or not, then the word गर्भिणी being anudattadi would have taken अञ्, and therefore its exception is proper in the भिक्षादि class (4.2.38). But if the anudatta-hood of the remaining syllables were to follow after a word had got the designation of पद, then the word गर्भिणी would remain acutely accented on the first, and its enumeration in (4.2.38) would be useless.

Bhashya

अनुदात्तं पदमेकवर्जम् (2595) (सूत्रार्थनिर्णायकभाष्यम्) किमनुदात्तानि पदानि भवन्ति एकं पदं वर्जयित्वा ? नेत्याह । पदे येषामुदात्तप्रसङ्गस्तेऽनुदात्ता भवन्ति एकमचं वर्जयित्वा ॥ (न्यासे न्यूनत्वाक्षेपभाष्यम्) स तर्हि तथा निर्देशः कर्तव्यः - अनुदात्ताः पदे, अनुदात्ताः पदस्येति वा ॥ (समाधानभाष्यम्) न कर्तव्यः । अनुदात्तं पदमेकवर्जम् इत्येव सिद्धम् । कथम् ? मतुब्लोपोऽत्र द्रष्टव्यः । तद्यथा - पुष्पका एषां ते पुष्पकाः, कालका एषां ते कालका इति । अथवा - अकारो मत्वर्थीयः । तद्यथा - तुन्दः, घाट इति ॥ (सूत्राक्षेपभाष्यम्) किमर्थं पुनरिदमुच्यते ? (सूत्रप्रयोजने श्लोकभाष्यम्) आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च । पृथक्स्वरनिवृत्त्यर्थमेकवर्ज पदस्वरः ॥ आगमस्य - चतुरनडुहोरामुदात्तः (7.1.98) । चत्वारः, अनड्वाहः । विकारस्य - अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः (7.1.75) । अस्थ्ना, दध्ना । प्रकृतेः - गोपायति, धूपायति । प्रत्ययस्य च - -कर्तव्यम्, तैत्तिरीयः । एतेषां पदे युगपत्स्वरः प्राप्नोति । इष्यते चैक एव स्यादिति । तच्चान्तरेण यत्नं न सिध्यतीत्यनुदात्तं पदमेकवर्जम् । एवमर्थमिदमुच्यते ॥ (सूत्राक्षेपभाष्यम्) नैतदस्ति प्रयोजनम् । (सूत्रप्रयोजनसाधकज्ञापकश्लोकभाष्यम्) यौगपद्यं तवै सिद्धम् यदयं तवै चान्तश्च युगपत् (6.2.51) इति सिद्धे यौगपद्ये यौगपद्यं शास्ति तज्ज्ञापयत्याचार्यः - न युगपत्स्वरो भवतीति ॥ (प्रत्याक्षेपभाष्यम्) पर्यायस्तर्हि प्राप्नोति । (प्रत्याक्षेपसमाधानश्लोकभाष्यम्) पर्यायो रिक्तशासनात् । यदयं रिक्ते विभाषा (6.1.208) इति सिद्धे पर्याये पर्यायं शास्ति तज्ज्ञापयत्याचार्यः - न पर्यायो भवतीति ॥ (प्रयोजनाक्षेपश्लोकभाष्यम्) उदात्ते ज्ञापकं त्वेतत् एतदुदात्ते ज्ञापकं स्यात् ॥ (प्रयोजनसाधकश्लोकभाष्यम्) स्वरितेन समाविशेत् ॥ स्वरितेन समावेशः प्राप्नोति । स्वरितेऽप्युदात्तोऽस्ति । तस्मान्नार्थोऽनेन योगेन ॥ (वार्तिकावतरणभाष्यम्) आरभ्यमाणेऽप्येतस्मिन्योगे - (6257 सूत्रस्यानुदात्तत्वविधायकत्वे दोषवार्तिकम् ॥ 1 ॥) - अनुदात्ते विप्रतिषेधानुपपत्तिरेकस्मिन् युगपत्संभवात् - अनुदात्ते विप्रतिषेधो नोपपद्यते । पठिष्यति ह्याचार्यो विप्रतिषेधम् - जे दीर्घाद्वह्वचः इति, स विप्रतिषेधो नोपपद्यते । किं कारणम् ? एकस्मिन् युगपत्संभवात् । असति खलु सम्भवे विप्रतिषेधो भवति, अस्ति च सम्भवो यदुभयं स्यात् । कथं सम्भवः ? यदाऽनुदात्तं पदमेकवर्जमित्युच्यते। तदिह नास्ति। किं कारणम्? नानेनोदात्तत्वं प्रतिषिध्यते । किं तर्हि ? अनुदात्तत्वमनेन क्रियते, अस्ति च सम्भवो यदुभयोश्चोदात्तत्वं स्यात्, अन्येषां चानुदात्तत्वम् ॥ (अस्याधिकारत्वमाश्रित्य दोषनिवारकभाष्यम्) यदि पुनरयमधिकारो विज्ञायते । किं कृतं भवति ? अधिकारः प्रतियोगं तस्यानिर्देशार्थ इति योगे योग उपतिष्ठते । जे दीर्घान्तस्यादिरुदात्तो भवति, उपस्थितमिदं भवति - अनुदात्तं पदमेकवर्जमिति । अन्त्यात्पूर्वं बह्वचः (6.2.83), उपस्थितमिदं भवति - अनुदात्तं पदमेकवर्जमिति । तत्र पूर्वेणास्तु र्वज्यमानता परेण वेति परेण भविष्यति, परत्वात् ॥ (अधिकारत्वे दोषभाष्यम्) नैवं शक्यम् । एवमपि षाष्ठिक एव स्वरः संगृहीतः स्यात्, येऽन्ये सप्ताध्याय्यां स्वरास्ते न संगृहीताः स्युः - समानोदरे शयित ओ चोदात्तः (4.4.108) अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः (7.1.75) इति ॥ (6258 न्यासान्तरेण दोषनिवारकवार्तिकम् ॥ 2 ॥) - सिद्धं त्वेकाननुदात्तत्वात् - सिद्धमेतत् । कथम् ? एकाननुदात्तत्वात् । एकाननुदात्तं पदं भवतीति वक्तव्यम् । किमिदमेकाननुदात्तत्वादिति ? न उदात्तः - अनुदात्तः, न अनुदात्तः - अननुदात्तः । एकः - अननुदात्तोऽस्मिंस्तदिदमेकाननुदात्तम् । एकाननुदात्तत्वादिति । सिद्ध्यति । सूत्रं तर्हि भिद्यते ॥ (परिभाषात्वस्वीकारेण न्यासान्तरनिवारकभाष्यम्) यथान्यासमेवास्तु । ननु चोक्तम् - अनुदात्ते विप्रतिषेधानुपपत्तिरेकस्मिन् युगपत्संभवात् इति । नैष दोषः । परिभाषेयम् । किं कृतं भवति ? कार्यकालं संज्ञापरिभाषम् । यत्र कार्यं तत्रोपस्थितमिदं द्रष्टव्यम् । जे दीर्घान्तस्यादिरुदात्तो भवतीत्युपस्थितमिदं भवति - अनुदात्तं पदमेकवर्जम् इति । अन्त्यात्पूर्वं बह्वचः इत्युपस्थितमिदं भवति - अनुदात्तं पदमेकवर्जम् इति । तत्र पूर्वेणास्तु र्वज्यमानता परेण वेति - परेण भविष्यति, परत्वात् ॥ अथवा नेदं पारिभाषिकानुदात्तस्य ग्रहणम् । किं तर्हि ? अन्वर्थग्रहणम् । अविद्यमानोदात्तम् - अनुदात्तमिति ॥ (6259 आक्षेपवार्तिकम् ॥ 3 ॥) - एकवर्जमिति चाप्रसिद्धिः सन्देहात् - एकवर्जमिति चाप्रसिद्धिः । कुतः ? सन्देहात् । न ज्ञायते क एको वर्जयितव्य इति ॥ (6260 समाधानवार्तिकम् ॥ 4 ॥) - सिद्धं तु यस्मिन्ननुदात्त उदात्तवचनानर्थक्यं तद्वर्जम् - सिद्धमेतत् । कथम् ? यस्मिन्ननुदात्ते उदात्तवचनमनर्थकं स्यात्स एको वर्जयितव्यः ॥ (6261 समाधानाक्षेपवार्तिकम् ॥ 5 ॥) - प्रकृतिप्रत्यययोः स्वरस्य सावकाशत्वादप्रसिद्धिः - प्रकृतिप्रत्यययोः स्वरस्य सावकाशत्वादप्रसिद्धिः स्यात् । प्रकृतिस्वरस्यावकाशः - यत्रानुदात्तः प्रत्ययः । पचति, पठति । प्रत्ययस्वरस्यावकाशः - यत्रानुदात्ता प्रकृतिः । समत्वम्, सिमत्वम् । इहोभयं प्राप्नोति - कर्तव्यम्, तैत्तिरीयः ॥ (समाधानभाष्यम्) विप्रतिषेधात्प्रत्ययस्वरः । विप्रतिषेधात्प्रत्ययस्वरो भविष्यति । नैवम् । विप्रतिषेधे परमित्युच्यते । न परः प्रत्ययस्वरः । नैष दोषः । इष्टवाची परशब्दः । विप्रतिषेधे परं यदिष्टं तद्भवतीति ॥ (6262 भाष्योक्तसमाधानाक्षेपवार्तिकम् ॥ 6 ॥) - विप्रतिषेधात्प्रत्ययस्वर इति चेत्काम्यायादिषु चित्करणम् - विप्रतिषेधात् प्रत्ययस्वर इति चेत्काम्यायादयश्चितः कर्तव्याः । पुत्रकाम्यति, गोपायति, ऋतीयते । नैष दोषः । प्रकृतिस्वरोऽत्र बाधको भविष्यति ॥ (आक्षेपभाष्यम्) प्रकृतिस्वरे प्रत्ययस्वराभावः । कर्तव्यम् । तैत्तिरीयम् ॥ (6263 समाधानवार्तिकम् ॥ 7 ॥) - सिद्धं तु प्रकृतिस्वरबलीयस्त्वात्प्रत्ययस्वरभावः - सिद्धमेतत् । कथम् ? प्रकृतिस्वराद्बलीयस्त्वात् प्रत्ययस्वरस्य भावः सिद्धः । कथम् ? प्रकृतिस्वरात् प्रत्ययस्वरो बलीयान् भवतीति वक्तव्यम् ॥ (6264 उपसंख्यानवार्तिकम् ॥ 8 ॥) - सति शिष्टस्वरबलीयस्त्वं च - सति शिष्टस्वरो बलीयान् भवतीति वक्तव्यम् ॥ (6265 उपसंख्यानप्रयोजनवार्तिकम् ॥ 9 ॥) - तच्चानेकप्रत्ययसमासार्थम् - तच्चावश्यं सति शिष्टस्वरबलीयस्त्वं वक्तव्यम् । किं प्रयोजनम् ? अनेकप्रत्ययार्थमनेकसमासार्थं च । अनेकप्रत्ययार्थं तावत् - औपगवः, प्रकृतिस्वरमण्स्वरो बाधते । औपगवत्वम्, त्वस्वरोऽण्स्वरं बाधते । औपगवत्वकम्, त्वस्वरं कस्वरो बाधते । अनेकसमासार्थम् - राजपुरुषः, राजपुरुषपुत्रः, राजपुरुषपुत्रपुरुषः ॥ (सति शिष्टबलीयस्त्वाक्षेपभाष्यम्) यदि सति शिष्टस्वरबलीयस्त्वमुच्यते, स्यादिस्वरः सार्वधातुकस्वरं बाधेत । सुनुतः, धिनुतः, चिनुतः ॥ (6266 समाधानवार्तिकम् ॥ 10 ॥) - स्यादिस्वराप्रसङ्गश्च तासेः परस्यानुदात्तवचनात् - स्यादिस्वरस्य चाप्रसङ्गः । कुतः ? तासेः परस्यानुदात्तवचनात् । यदयं तासेः परस्य लसार्वधातुकस्यानुदात्तत्वं शास्ति तज्ज्ञापयत्याचार्यः सति शिष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधत इति ॥ (6267 प्रकारान्तरेण समाधानवार्तिकम् ॥ 11 ॥) - शास्त्रपरविप्रतिषेधानियमाद्वा शब्दपरविप्रतिषेधात्सिद्धम् - अथवा शास्त्रपरविप्रतिषेधे न सर्वमिष्टं संगृहीतं भवतीति कृत्वा शब्दपरविप्रतिषेधो विज्ञास्यते । यदि शब्दपरविप्रतिषेधो भवति, काम्यादयश्चितः कर्तव्याः । पुत्र काम्यति । गोपायति । ऋतीयते । नैष दोषः । शब्दपरविप्रतिषेधो नाम स भवति यत्रोभयोर्युगपत्प्रसङ्गः, न च काम्यादिषु युगपत्प्रसङ्गः ॥ (6268 बलीयस्त्वबोधकवार्तिकम् ॥ 12 ॥) - विभक्तिस्वरान्नञ्ञ्स्वरो बलीयान् - विभक्तिस्वरान्नञ्ञ्स्वरो बलीयान् भवतीति वक्तव्यम् । विभक्तिस्वरस्यावकाशः - तिस्रस्तिष्ठन्ति । नञ्ञ्स्वरस्यावकाशः - अब्राह्मणः, अवृषलः । इहोभयं प्राप्नोति - अतिस्रः । नञ्ञ्स्वरो भवति ॥ (6269 बलीयस्त्वबोधकवार्तिकम् ॥ 13 ॥) - विभक्तिनिमित्तस्वराच्च - विभक्तिनिमित्तस्वराच्च नञ्ञ्स्वरो बलीयानिति वक्तव्यम् । विभक्तिनिमित्तस्वरस्यावकाशः - चत्वारः, अनड्वाहः । नञ्ञ्स्वरस्य स एव । इहोभयं प्राप्नोति - अचत्वारः, अननड्वाहः ॥ (6270 बलीयस्त्वबोधकवार्तिकम् ॥ 14 ॥) - यच्चोपपदं कृति नञ् - यच्चोपपदं कृति नञ्ञ्तस्य च स्वरो बलीयानिति वक्तव्यम् । अकरणिर्ह ते वृषल ॥ (6271 बलीयस्त्वबोधकवार्तिकम् ॥ 15 ॥) - सहनिर्दिष्टस्य च - सहनिर्दिष्टस्य च नञ्ञः स्वरो बलीयानिति वक्तव्यम् । अव्यथी ॥

Kashika

परिभाषेयं स्वरविधिविषया। यत्रान्यः स्वर उदात्तः स्वरितो वा विधीयते, तत्रानुदात्तं पदमेकं वर्जयित्वा भवतीत्येतदुपस्थितं द्रष्टव्यम्। अनुदात्ताच्कमनुदात्तम्। कः पुनरेको वर्ज्यते ? यस्यासौ स्वरो विधीयते। वक्ष्यति — धातोः (६.१.१६२) अन्त उदात्तो भवतीति। गो॒पा॒यति॑। धू॒पा॒याति॑। धातोरन्त्यमचं वर्जयित्वा परिशिष्टमनुदात्तं भवति। धातुस्वरं श्नास्वरो बाधते। लु॒नाति॑। पु॒ना॒ति॑। श््नास्वरं तस्स्वरः। लु॒नी॒तः। पु॒नी॒तः। तस्स्वरमाम्स्वरः। लु॒नी॒त॒स्त॒राम्। पु॒नी॒त॒स्त॒राम्।

आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च।

पृथक्स्वरनिवृत्त्यर्थमेकवर्जं पदस्वरः॥

आगमस्य — चतुरनडुहोरामुदात्तः (७.१.९८) च॒त्वारः॑। अ॒न॒ड्वाहः॑। आगमस्वरः प्रकृतिस्वरं बाधते। विकारस्य — अ॒स्थनि॑, द॒धनि॑ इत्यनङ्स्वरः प्रकृतिस्वरं बाधते। प्रकृतेः — गो॒पा॒यति॑। धू॒पा॒याति॑। प्रकृतिस्वरः प्रत्ययस्वरं बाधते। प्रत्ययस्य — क॒र्तव्य॑म्। ह॒र्तव्य॑म्। प्रत्ययस्वरः प्रकृतेः स्वरस्य बाधकः। परनित्यान्तरङ्गापवादैः स्वरैर्व्यवस्था सतिशिष्टेन च । यो हि यस्मिन् सति शिष्यते, स तस्य बाधको भवति। तथाहि — गोपायतीत्यत्र धातुस्वरापवादः प्रत्ययस्वरस्तेनैव धातुस्वरेण प्रत्ययान्तस्य धातोः सतिशिष्टत्वाद् बाध्यते। का॒र्ष्णो॒त्त॒रा॒स॒ङ्ग॒पु॒त्र इत्यत्र च समासस्वरापवादो बहुव्रीहिस्वरः सतिशिष्टेन समासान्तोदात्तत्वेन बाध्यते। विकरणस्वरस्तु सतिशिष्टोऽपि सार्वधातुकस्वरं न बाधते। लु॒नी॒त इति तस एव स्वरो भवति॥ विभक्तिस्वरान्नञ्स्वरो बलीयानिति वक्तव्यम्॥ अति॑स्र इत्यत्र तिसृभ्यो जसः (६.१.१६६) इति सतिशिष्टोऽपि विभक्ति — स्वरो नञ्स्वरेण बाध्यते॥ विभक्ति निमित्तस्वराच्च नञ्स्वरो बलीयानिति वक्तव्यम्॥ अच॑त्वारः, अन॑नड्वाह इति। यस्य विभक्तिर्निमित्तमामः, तस्य यदुदात्तत्वं तद् नञ्स्वरेण बाध्यते। पदग्रहणं किम् ? देव॑दत्त॒ गाम॒भ्याज॑ शु॒क्लाम् इति वाक्ये हि प्रतिपदं स्वरः पृथग् भवति। परिमाणार्थं चेदं पदग्रहणं पदाधिकारस्य निवृतिं करोति। तेन प्रागेव पदव्यपदेशात् स्वरविधिसमकालमेव शिष्टस्यानुदात्तत्वं भवति । तथा च कुवल्या विकारः कौव॑लम् इत्यत्रानुदात्तादिलक्षणोऽञ् सिद्धो भवति। तथा गर्भिणीशब्दश्चानुदात्तादिलक्षणस्याञो बाधनार्थं भिक्षादिषु पठ्यते। कुवलगर्भशब्दावाद्युदात्तौ॥

Siddhanta Kaumudi

परिभाषेयं स्वरविधिविषया । यस्मिन्पदे यस्योदात्तः स्वरितो वा विधीयते तमेकमचं वर्जयित्वा शेषं तत्पदमनुदात्ताच्कं स्यात् । गोपायतं नः (गो॒पा॒यतं॑ नः) । अत्र सनाद्यन्ताः - (SK2304) इति धातुत्वे धातुस्वरेण यकाराकार उदात्तः शिष्टमनुदात्तम् ।<!सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वाच्यम् !> (वार्तिकम्) ॥ तेनोक्तोदाहरणे गुपेर्धातुस्वर आयस्य प्रत्ययस्वरश्च न शिष्यते । अन्त्रेति किम् । यज्ञं यज्ञम्भिवृधे गृणीतः (य॒ज्ञं य॑ज्ञम॒भिवृ॒धे गृ॑णी॒तः) । अत्र सति शिष्टोऽपि श्ना इत्यस्य स्वरो न शिष्यते किं तु तस एव ॥

Nyaas

एकवर्जम् इति। एकं वर्जयित्वेत्यर्थः। द्वितीयायाञ्च (3.4.53) इति णमुल्प्रत्ययः। यद्ययमधिकारार्थः स्यात्, तत्? षाष्ठिक एव स्वरः सङ्गृहीतः स्यात्। ये त्वन्ये स्वराः समानोदरे शयित ओ चोदात्तः (4.4.108) , अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः (7.1.75) इत्येवमादयः सप्ताध्याय्याम्, ते न संगृहीता स्युः। परिभाषायां त्वस्यां तेऽपि संगृहीता भवन्ति। सा ह्रेकदेशे स्थितापि सकलं शास्त्रमभिज्वलयति, यथा वेश्म प्रदीप इवेत्यालोच्याह - परिभाषेयम् इति। विध्यङ्गशेषभूता चेयम्। परिभाषा हि कार्यवाक्यानां शेषभावगता। यस्य पदादयवस्य स्वरित उदात्तो वा विधीयते तत्र शेषमनुदात्तं भवति। स्वरविधिविषया इति। स्वरविधिर्विषयोऽस्या इति विग्रहः। यत्रान्यः इति। अनुदात्तापेक्षमन्यत्वम्। तत्रानुदात्तं पदम् इति। ननु च नीचैरनुदात्तः (1.2.30) इत्यनुदात्तशब्दो विशिष्टगुणेऽवसङ्गीतः, तत्राज्झललक्षणञ्च पदम्, पदशब्दस्यार्थस्तत्? कथमत्र सामानाधिकरण्यम्? नैष दोषः; अनुदात्ताच्कमनुदात्तं पदमिहाभिमतम्, तेन पद एवानुदात्तशब्दो वर्तते। कथम्? मत्वर्थीयाकारान्तत्वात्। अनुदात्ता अस्य सन्तीत्यनुदात्तम्। अर्श आदेराकृतिगणत्वादत्राच्। एकवर्जमित्युक्तम्, स त्वेको न ज्ञायते यो वर्जनीयः, तस्याभिव्यक्तये पृच्छति - कः पुनः इत्यादि। यस्य चोदात्तः स्वरतो वा विधीयते स एवाको वज्र्यते। यदि ह्रसावपि न वज्र्यते तस्य तत्? स्वरविधानमन्रथकं स्यात्। गोपायति, धूपायति इति। गुपू रक्षणे (धातुपाठः-395) धीप सन्तापे (धातुपाठः-396) गुपूधूप (3.1.28) इत्यादिनाऽऽयपरत्ययान्तस्य सनाद्यन्ता धातवः (3.1.32) इति धातुसंज्ञा, `धातोः (6.1.156) इति धातोश्चान्तोदात्तत्वम्, आयप्रत्ययान्तस्यान्त्ययकाराकारस्य धातुस्वरत्वम्। धातुस्वरं श्नास्वरो बाधते इति। सतिशिष्टस्वरत्वात्, सतिशिष्टसय वलीयस्त्वात्। तथा ह्रु कतम् - सतिशिष्टस्वरो बलीयानिति वक्तव्यम्। (वा।6.1.174) इति। लुनाति, पुनाति इति। प्वादीनां ह्रस्वः (7.3.80) इति ह्रस्वः। श्नाप्रत्ययस्य च प्रत्ययस्वरेणाद्युदात्तत्वम्। श्नास्वरम् इति। बाधत इति सम्बध्यते। ननु परत्वात्? तिबादिषु कृतेषु विकरणैर्भवितव्यम्, अतः सति सार्वधातुकस्वरे श्नास्वरस्य शिष्यमाणत्वात्? तस्य सतिशिष्टत्वम्; एवञ्च श्नास्वरेणैव बाधा युक्ता ततस्वरस्य? एवं मन्यते यत्? तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः (6.1.186) इत्यादिना तासेः परस्य लसार्वधातुकत्वं शास्ति तज्ज्ञापयति - शिष्टोऽपि विकरणस्वरः सार्वधातुकस्वरेण बाध्यत इति। लुनीतः, पुनीतः इति। ई हल्यधोः (6.4.113) इतीत्वम्। `तस्स्वरमाम्स्वरः इति। बाधत इति सम्बन्धः। बाधकत्वे तस्य हेतुः सतिशिष्टत्वमेव। लुनीतस्तराम् इति। तिङ्श्च (5.3.56) इति तसन्तात्तरप्, तदन्तात्? किमेतिङ्व्यय (5.4.11) इत्यादिनाऽऽमुप्रत्ययः। किमर्थं पुनरयमेकवर्जपदस्वरो विधीयते? इत्याह - आगमस्य इत्यादि। आगमादीनां पृथक्? स्वरो मा मुदित्येवमर्थमेकं वर्जयित्वा पदानुदात्त्वं विधीयते। आगमस्वरः प्रकृतिस्वरं वाधते इति। सत्यस्मिन्नेकवर्जं पदं स्वरे। असति तवस्मिन्? परकृतेरागमस्य च पृथगेव स्वरः स्यात्। चत्वारः इति। प्रकृतिस्वरः पुनराद्युदात्तत्वम्। तथा हि चतेरुरन (द।उ।8।78) इत्युरन्प्रत्ययान्तश्चतुःशब्दो व्युत्पाद्यत इति स नित्स्वरेणाद्युदात्तो भवति। अनङ्वाहः इति। अनुडुहोऽप्येवं व्युत्पत्तिः क्रियते। अन प्राणने (धातुपाठः-1070) अस्मात्? सर्वधातुभ्योऽसुन् (द।उ।9।49) इत्यसुन्प्रत्ययान्तत्वादनःशब्दो नित्स्वरेणाद्युदात्तः। अनो बहतोत्यनसि वहेः क्विप्? उश्चानसः (द।उ।9।49) इत्यसुन्परतययान्तत्वादनःशब्दो नित्स्वरेणाद्युदात्तः। अनो बहतोत्यनसि वहेः क्विप्? उश्चानसः (द।उ।9।107) इत्यनस्युपपदे वहेर्धातोः क्विप्, अनश्चोकारादेशः। वहेर्यजादित्वात्? सम्प्रसारणम्, उपपदसमासः, तत्पुरुषे तुल्यार्थ (6.2.2) इत्यादिना पूर्वपदप्रकृतिस्वरत्वम्। तस्मादनुडुहोऽप्येवं व्युत्पादितस्य स्यादाद्युदात्तत्वम्। विकारः=आदेशः। अनङ्स्वरः प्रकृते इति। दध्यसथिशब्दावाद्युदात्तौ। तथा हि असु क्षेपणे (धातुपाठः-1209) असिसञ्जिभ्यां क्थिन् (द।उ।1।10) इति क्थिन्प्रत्ययान्तत्वान्नित्स्वरेणास्थिशब्द आद्युदात्तः। दधिशब्दोऽपि किन्प्रत्ययान्तत्वादाद्युदात्त एव। धाधातोः आदृगमहनजनः किकिनौ लिट्? च (3.2.171) इति किन्प्रत्ययः, तत्र द्विर्वचने कृत आकारलोपे च दधीति भवति। अस्थिदधि (7.1.75) इत्यादिनाऽनङि कृते तस्य यः स्वरः स च कर्तवयः, तस्याप्यसत्यस्मिन्नस्थिदधिशब्दयोरनङश्च प्रथगेवोदात्तत्वं तु स्यात्। अस्मस्तु सत्यनङ एव भवति। प्रकृतेः इत्यादि। गोपायति, धूपायति इति। अत्र प्रकृतेर्गुपेर्धूपेश्च धातोः (6.1.156) इत्यन्तोदात्त्त्वे आयप्रत्ययादेरप्याकारस्य प्रत्ययाद्युदात्तत्वम्। गोपायधूपायशब्दयोरपि सनाद्यन्ता धातवः (3.1.32) इति धातुसंज्ञायां कृतायाम्? धातोः (6.1.156) इत्यन्तोदात्तमेव प्राप्नोति। एवं पृथक्? स्वरप्रसंगे यकाराकारस्यैव धातुस्वरो भवति, न गुपिधूप्योः, नापि प्रत्ययाकारस्य। कर्तव्यम् इति। धातोरन्तोदात्तत्वे प्रत्ययस्याद्युदात्तत्वे च प्राप्ते प्रत्ययाद्युदात्तत्वमेव भवति, न तु धातुस्वरः। अथानियमेनैकस्वरस्य वर्जयमानता कस्मान्न भवति, न ह्यत्र सूत्रे कश्चिद्व्यवस्थाहेतुरुपात्तः, न च विना व्यवस्थाहेतुना सा लभ्यते? इत्याह - परनित्यान्तरङ्ग इत्यादि। यत्र परादिस्वराः प्राप्नुवन्ति, तद्विपक्षाश्च, तत्र परादीनां बलीयस्त्वात्? तत एव वर्जयं न, इतरे तु निवर्त्त्यन्ते। यत्र तु परनित्यान्तरङ्गापवादेऽपि क्वचिदिष्टं न सिध्यति, तत्र सतिशिष्टेन व्यवस्था भवति, तस्य हि वलीयसत्वमुक्तम्। अतः सतिशिष्टेतरस्वरप्राप्तौ सतिशिष्ट एव वज्र्यते, मेतरः। कथं पुनः सतिशिष्टे न व्यवस्था? इत्यत आह - यो हि इत्यादि। कथमेतज्ज्ञायते? इत्याह - तथा हि इत्यादि। गोपायति इति। अत्रायप्रत्ययस्य प्रत्ययस्वरेणाद्युदात्तत्वम्। स च स्वरो धातुस्वरस्यापवादोऽपि सन्नायप्रत्ययान्तस्य धातुसंज्ञायां कृतायां पुनस्तेन धातुस्वरेण सतिशिष्टेन बाध्यते। कार्ष्णोत्तरासङ्गपुत्रः इति। बहुव्रीहिं कृत्वा तत्पुरुषः कर्तव्यः। बहुव्रीहिस्वरः इति। बहुव्रीहौ प्रकृत्या (6.2.1) इत्यादिनोक्तः। पूर्वकं ज्ञापकं चेतस कृत्वाऽऽह - विकरणस्वरस्तु इत्यादि। विभक्तिस्वरात् इत्यादि। निपाता आद्युदात्ताः (फि।सू।4।80) इति नञुदात्तः। तत्र तत्पुरुष समासे कृते तत्पुरेषे तुल्यार्थं (6.2.2) इत्यदिवा प्रकृतस्वरादुदात्तत्वमेव भवति। यदा तु नञ्स्वराद्विभक्तिसवरः प्राप्नोति नञ्स्वरश्चेष्यते, तस्माद्विभक्तिस्वरो बलीयानिति वक्तव्यम्। बलीयस्त्वे सति किं भवति? इत्याह - `अतिस्तर इत्यत्र इत्यादि। तिसृभ्यो जसः (6.1.166) इत्यनेन विभक्तेरुदात्तत्वं विधीयते। तद्बलीयस्त्वात्? सतिशिष्टमपि नञ्सवरेण बाध्यते। विभक्तस्वरस्य तु - तिरुआः, त्रिसृष्वित्येषोऽवकाशः। विभक्तिनिमित्तस्वराच्च इत्यादि। विभक्तिर्निमित्तं यस्य स स्वरो विभक्तिनिमित्तस्वरः। यस्य विभक्तिर्निमित्तमामः इति। आमो विभक्तिनिमित्तत्वं, पथिमथोः सर्वनामस्थाने (6.1.199) इत्यतः सर्वनामस्थानग्रहणानुवृत्तेः। तस्य यदुदात्तत्वम् इत्यादिना बलीयस्त्वस्य फलं दर्शयति। विभक्तिनिमित्तस्वरस्य - चत्वारः, अनङ्वाह इतत्येषोऽवकाशः। वाक्ये हि इत्यादि। देवदत्तशब्द आमन्त्रितस्वरेणाद्युदात्तत्वम्, गोशब्दो हि प्रातिपदिकस्वरेणान्तोदात्तः, तस्य औतोऽम्शसोः (6.1.93) इत्याकारोऽपि स्थानिवद्भावेनोदात्त एव। तथा विभक्त्या सहैकादेशेऽपि एकादेश उदात्तेनोदात्तः (8.2.5) इति वचनात्। अभिशब्दोऽन्तोदात्तः, तस्य निपाता आद्युदात्ताः (फि।सू।4।80), उपसर्गाश्चाभिवर्जम् (फि।सू।4।81) इत्याद्युदात्तविधाने वर्जितत्वात्? प्रातिपदिकस्वर एव भवति। आङुपसर्गस्वरेणाद्युदात्तः। अजित्येष तु लोडन्तः तिङ्ङतिङ (8.1.28) इति निधातेनानुदात्तः। शुक्लशब्दो हि प्रातिपदिकस्वरेणान्तोदात्त इति तस्य एकादेश उदात्तेनोदात्तः (8.2.5) इति टापा सहैकादेशे कृतेऽन्तोदात्त एव भवति। एवममिपूरवत्वे कृते वेदितव्यम्। तदेवं पदग्रहणाद्वाक्य एकैकस्मिन्? पदे पृथगेव स्वरो भवति। यद्यनुदात्तं पदमेकवर्जं भवति, एवं सति यावत्? पदसंज्ञा न भवति तावदेकं वर्जयित्वा परिशिष्टस्यानुदात्तत्वेन भवितव्यम्, ततश्च कुवल्या विकारः, कौवलमित्यत्र अनुदात्तादेश्च (4.3.140) इत्येनेनाञ्प्रत्ययो न स्यात्। यत कुवलशब्दोयं ग्रामदीनाञ्च (फि।सू।2।38) इत्याद्युदात्तः, गौरादित्वान्ङीषि विहतेऽपि पदव्यपदेशाभावादाद्युदात्तत्वं न परित्यजतीत्याह - परिमाणार्थं चेदम् इत्यादि। पदमत्र गौणमभिप्रेतम्? न मुख्यम्; अन्यथा पदाधिकारे सति पुनः पदग्रहणमनर्थकं स्यात्। तस्मादुत्तरकालं यस्य पदसंज्ञा भविष्यति, तदिह पदमभिप्रेतमिति वेदितव्यम्। असति पदग्रहणे न ज्ञायते - कियतामचामनुदात्तत्वं भवतीति। पदग्रहणे तु सत्येकस्मिन्? पदे यावन्तोऽचस्तावतामनुदात्तत्वं भवतीत्येषोऽर्थो ज्ञायते, तस्मात्? परमाणार्थमिति। नतु सुबन्तस्य तिङ्न्तस्य वा प्रतिपादनार्थम्। तेन प्रागेव पदव्यदैशादनुदात्तत्वेन भवितव्यमिति न भवति पूर्वोक्तदोषप्रसङ्गः। स्यादेतत् - यद्यपि पदमित्यनेन मुख्यं पदं न प्रत्याय्यते, तथापि पदाधिकारेण तदिह सन्निधाप्यत इति तदवस्थ एव स दोषः? इत्यत आह - पदाधिकारस्य निवृतिंत करोति इति। एतत्? पदग्रहणं गौणमर्थं प्रतिपादयन्? मुख्यपदधिकारं निवर्तयति। तेन किमिष्टं भवति? इत्याह - तेन इत्यादि। तथा च इति। एवं च सतीत्यर्थः प्रागेव पदवयपदेशात् स्वरविधानतुल्यकालमेव परिशिष्टतस्यानुदात्तत्वं भवतीति। अमुमेवार्थं द्रढयितमाह - गर्भिणी इत्यादि। गर्भोऽस्या अस्तीतीनिः, ऋन्नेभ्यो ङीप् (4.1.5) इति ङीप्। गर्भशब्दोऽयं कुवलशब्दवदाद्युदात्तः। तत्र यदीनिप्रत्ययस्योदात्तत्वसमकालमेवानुदात्तत्वं भवति ततो गर्भिणीशब्दस्यानुदाततादित्वात्? अनुदाततादेरञ्? (4.2.44) इत्यञ्? प्राप्नोतीति तद्बाधनार्थं युज्यते तस्य भिक्षादिषु पाठः। तस्य तूत्तरकालं पदसंज्ञायामुपजातायामवशिष्टस्यानुदात्तत्वं स्यात्। एवं सति गर्भिणी शब्द आद्युदात्तः स्यात्। ततश्चाणो बाधनार्त भिक्षादिषु न पठएत, पठते च। तस्मात्? ततो विज्ञायते - प्रागेव पदव्यपदेशात्? स्वरविधिसमकालमेवावशिष्टस्यानुदात्तत्वं भवतीत्यभिप्रायः। किं पुनः कारणं लब्धायां पदसंज्ञायामवशिष्टस्यानुदात्त्त्वे विधीयमाने कुवलशब्दावञ्? न सिध्यति, कथञ्च गर्भिणीशब्दस्यानुदात्तादिलक्षमस्याञो बाधनार्थो भिक्षादिषु पाठः प्रागेव पदवयपदेशात्? स्वरविधिसमकालमेवावशिष्टस्यानुदात्तत्वं भवतीत्यस्यार्थस्य ज्ञापकः? इत्याह - `कुवलगर्भशब्दौ इत्यादि। आद्युदात्त्त्वे ह्रनयोर्यदि पदसंज्ञायां सत्यामवशिष्टस्यानुदात्तत्वं स्यात्, कुवलीशब्दस्य च स्यात्? ततश्च कुवलीशब्दाद्विकारेऽर्थेऽञ्? न स्यात्। गर्भिणीशब्दस्याद्युदात्तत्वादञ्? प्राप्नोति, ततस्तद्बाधनर्थं भिक्षादिषु न पठएत, पठते च, तस्मादवसीयते - प्रागेव पदव्यपदेशादवशिष्टस्यानुदात्तत्वं भवति॥

Prakriyasarvasvam

एकमचं वर्जयित्वा पदमनुदात्तं स्यात् । धातोरन्त उदात्तः स्यादियुक्ते स एवोदात्तः, अन्येऽनुदात्ताः । गोपायतं नः सुम२नस्यमानाः । अत्र ‘सनाद्यन्ता धातव’ (३-१-३२) इति धातुसंज्ञायाम् आयस्यान्त उदात्ते सत्यन्येऽनुदात्ताः परिभाषा- त्वेऽप्यस्मिन् सूत्रे ‘कार्यकालं संज्ञापरिभाषम्’ इति न्या३योऽत्र नास्तीति हरः । यस्मिन् सति यः स्वरः शिष्यते स बलीयान् स्यात्, विकरणस्य स्वरस्तु न । यथा कर्त॑व्यमित्यादौ धातुस्वरे स्थिते पुनर्विहितत्वात् प्रत्ययस्वरस्य बलवत्त्वम् । ।। विभक्तितन्निमित्तयोर्नञः ।। (परि.) विभक्तिस्वरात् तन्निमित्तस्वराच्च नञ् स्वरो बलवान् स्यात् । अतिस्रः । अचत्वारः । ‘तिसृभ्यो जसः’ (६-१-१६६) इति जसः ‘चतुरनडुहोरामुदात्तः’ (७-१-९८) इत्यामश्चोदात्तता तयोर्नञ्समासे कृते पुनर्विहितत्वेऽपि नञ् स्वरस्यैव बलवत्त्वम् । ।। स्वरविधौ व्यञ्जनमविद्यमानवत् ।। (परि.) यथा तन्त्वा समिद्भिरित्यत्र ‘उदात्तानुदात्तस्य’ इति स्वरितविधौ नतवा- नामसद्वत्त्वादाकारस्यैव स्वरितत्वम् । इति स्वरपरिभाषा ।। अथ संहितास्वरः१ ।। अभि २अर्षत्, धिक्ष्व् ऋध्नुवन्ति, विक्ष्व् ऋञ्जसानः इत्यनयोः यणि कृते अभ्य् अर्षत् धिक्ष्व् ऋध्नुवन्ति विक्ष्व् ऋञ्जसानः इति स्थिते ।

Sutra Prayogas

  • स्वरान (शिशुपालवधम्): अनुदात्तं पदमेकवर्जम् इति परिभाषाबलात्।