61160: उञ्छादीनां च

Padacheda: उञ्छादीनाम् | S | 6 | 3 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The words उच्छ etc. have acute accent on the last syllable.

Vasu English Translation

The words उच्छ etc. have acute accent on the last syllable. Thus 1. उञ्छः꣡, 2. म्लेच्छः꣡, 3. जञ्जः꣡, 4. जल्पः꣡ ॥ These are formed by घञ्, and would have taken acute-accent on the first. 5. जपः꣡, 6. वधः꣡ are formed by अप् affix (3.3.61) which being grave (3.1.4), these words would have taken the accent of the dhatu (6.1.162), i. e. acute on the first syllable. Some read व्यधः꣡ also here. 7. युगः꣡ is derived from युज् by घञ् affix, the non-causing of guna is irregular, and the word means ‘a cycle of time’, ‘a part of a carriage’. In other senses, the form is योगः꣡ ॥ 8. गरः꣡ = (दूष्ये); is formed by अप्, and has this accent when it means ‘poison’, in other senses, the acute is on the first syllable. 9. वेगः꣡, वेदः꣡, वेष्टः꣡ (चेष्टः), and बन्धः꣡, करणे ॥ These words are formed by घञ् by (3.3.121). When denoting instrument (करण) they take the above accent, when denoting भाव the accent falls on the first syllable. 10. स्तुयुद्रुवश्छन्दसि, e.g. परिष्टु꣡त्, परिद्रु꣡त्, संयु꣡त् ॥ 11. वर्त्तनिः स्तोत्रे, the stotra means Sama Veda, the word व॒र्त्त॒निः꣡ occurring in the Sama Veda has acute on the last : in other places, it has the accent on the middle. 12. श्वभ्रे दरः, the दरः꣡ has end-acute when meaning ‘a cave’, otherwise when formed by अप् affix it has acute on the first. 13. साम्बतापौ भावगर्हायाम्, thus सा॒म्बः꣡, ता॒पः꣡, in other senses, the acute is on the first. 14. उत्तमशश्वत्तमौ सर्वत्र, e.g. उ॒त्त॒मः꣡, श॒श्व॒त्त॒मः꣡ ॥ Some read the limitation of भावगर्हा into this also. 15. भक्षमन्थभोगमन्थाः (भोगदेहा) ॥ These are formed by घञ्, भक्ष though a ण्यन्त root is here घञन्तं ॥

1 उञ्छ, 2 म्लेच्छ, 3 जञ्ज, 4 जल्प, 5 जप, 6 वध (व्यध), 7 युग, 8 गरो दूष्ये, 9 वेदवेगवेष्टबन्धाः, (चेष्ट वेष्ट) करणे, 10 स्तुयुद्रुवश्छन्दसि (परिष्टुत्, संयुत्, परिद्रुत्), 11 वर्तनिः स्तोत्रे 12 श्वभ्रे दरः, 13 साम्बतापौ भावगर्हायाम्, 14 उत्तमशश्वत्तमौ (उत्तमशश्वत्तमशब्दौ) सर्वत्र, 15 भक्षमन्थः, भोगमन्थाः (भक्षमन्थभोगदेहाः) ॥

Kashika

उञ्छ इत्येवमादीनामन्त उदात्तो भवति। उ॒ञ्छः। म्ले॒च्छः। ज॒ञ्जः। ज॒ल्पः। एते घञन्ता इति ञित्स्वरः प्राप्तः। ज॒पः व्य॒ध इत्यबन्तौ, तयोर्धातुस्वरः प्राप्तः। केचित् तु व॒ध इति पठन्ति। यु॒गः। युजेर्घञन्तस्य निपातनादगुणत्वं विशिष्टविषये च निपातनमिदमिष्यते। कालविशेषे रथाद्युपकरणे च युगशब्दस्य प्रयोगोऽन्यत्र हि योग॑ एव भवति। ग॒रो दूष्ये (ग० सू० १६५) अबन्तः। गरशब्दोऽबन्तः स दूष्य एवान्तोदात्तः। ग॒रो विषम्। अन्यत्राद्युदात्त एव। वेगवेदवेष्टबन्धाः करणे (ग० सू० १६६)। हलश्च (३.३.१२१) इति घञन्ता एते करणेऽन्तोदात्ता भवन्ति। भाव आद्युदात्ता एव। स्तुयुद्रुवश्छन्दसि (ग० सू० १६७)। उपसमस्तार्थमेतत्। प॒रि॒ष्टुत्। सं॒युत्। प॒रि॒द्रुत्। व॒र्त॒निः स्तोत्रे (ग० सू० १६८)। स्तोत्रं साम। तत्स्थो वर्तनिशब्दोऽन्तोदात्तो भवति, अन्यत्र मध्योदात्तः। श्वभ्रे द॒रः (ग० सू० १६९) श्वभे्रऽभिधेये दरशब्दोऽन्तोदात्तोऽन्यत्राबन्तत्वादाद्युदात्तः। साम्बतापौ भावगर्हायाम् (ग० सू० १७०)। अन्तोदात्तौ, अन्यत्राद्युदात्तौ। उत्तमशश्वत्तमौ सर्वत्र (ग० सू० १७१)। केचित् तु भावगर्हायामित्यत्राप्यनुवर्तयन्ति। भक्षमन्थभोगदेहाः (ग० सू० १७२ )। एते घञन्ताः। भक्षिर्ण्यन्तोऽपि घञन्त एव, एरच् (३.३.५६) अण्यन्तानामिति वचनात्॥

Siddhanta Kaumudi

अन्त उदात्तः स्यात् । उञ्छादिषु युगशब्दो घञन्तोऽगुणो निपात्यते कालविशेषे रथाद्यवयवे च । वैश्वानरः कुशिकेभिर्युगेयुगे (वै॒श्वा॒न॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे) । अन्यत्र योगेयोगे तवस्तरम् (योगे॑योगे त॒वस्त॑रम्) । भक्षशब्दो घञन्तः । गावः सोमस्य तवस्तरम् (गावः॒ सोम॑स्य त॒वस्त॑रम्) । भक्षशब्दो घञन्तः । गावः सोमस्य प्रथमस्य भक्षः (गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः) । उत्तमशश्वत्तमावपि । उदुत्तमं वरुण (उदु॑त्त॒मं व॑रुण) । शश्वत्तममीलते (श॒श्व॒त्त॒ममी॑लते) ॥

Padamanjari

ठुच्छि उच्छेऽ,’म्लेच्छ अव्यक्ते शब्दे’ ।’जजि युद्धे’ , अत्र कुत्वाभावो निपातनात्,’जल्प व्यक्तायां वाचि’ ‘व्यध ताडने’ ,’व्यधजपोरनुपसर्गे’ इत्यप्। वध इति।’हनश्च वधः’ इत्यप्। कालविशेष इति। कतद्वापरादौ।’घृ गृ निगरणे’ , ठृदोरप्ऽ। विषमित्यनेन दूष्यशब्दस्य विशेष वृत्तिं दर्शयति।’विद ज्ञाने’ , ठोविजी भयचलनयोःऽ,’वेष्ट वेष्टने’ ,’बन्ध बन्धने’ ,’ष्टुअञ् स्तुतौ’ ,’यु मिश्रणे’ ,’द्रु गतौ’ । उपसमस्तार्थमेतदिति। केवलानां धातूनां क्विबन्तानां धातुस्वरेणैव सिद्धत्वात्। परिष्टुअदिति। सम्पदादित्वात्क्विप्, तेन प्रादिसमासः,’पूर्वपदात्’ इति षत्वम्। अव्ययपूर्वपदप्रकृतिस्वरे प्राप्तेऽन्तोदातत्वम्। सोपपदातु क्विपि कृत्स्वरेणैव चसिद्धम्। अन्यत्र मध्योदात इति। स हि’वृतु वर्तने’ इत्यस्मादिनिप्रत्ययेन व्युत्पाद्यते।’दृ विदारणे’ । साम्बतापौ भावगर्हायामिति। साम्बो भिक्षते, अम्बया सह भिक्षणं गर्हितम्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरस्यापवादः। तापो दस्यूनाम्। धार्मिकेषु दस्युकर्तृकस्तापो गर्हितः।’कर्षात्वतः’ इत्येव सिद्धे भावगर्हाया अन्यात्राऽऽद्यौदातार्थं वचनम्। उतमशश्वतमाविति। तमबन्तावेतौ। द्रव्यप्रकर्षविवक्षायामामभावः, पित्वादनुदाते प्राप्ते पाठः। सर्वत्रेति। भावगर्हायाम्, अन्यत्र च। च्छन्दसि, भाषायां चेत्यन्ये।’भक्ष अदने’ चुरादिः,’मन्थ विलोडने’ ,’भुज कौटिल्ये’ ,’दिह उपचये’ । एरजण्यन्तानामिति। ये तु अनार्षमेतदचनमित्याहुः, तेषां भक्षशब्दस्य पाठे प्रयोजनं मृग्यम् ॥

Nyaas

उञ्छः, म्लेच्छः, जञ्जः, जल्पः इति। उछि उञ्छे (धातुपाठः-295) `म्लेच्छ अव्यक्तायां वाचि (धातुपाठः-1662), जज जजि युद्धे (धातुपाठः-242,243), जप जल्प व्यक्तायां वाचि (धातुपाठः-397,398)। जञ्जेः कुत्वाभावो निपातनात्। जपो व्यध इत्यवन्तौ इति। तत्र व्यघजपोरनुपसर्गे (3.3.61) इत्यबन्तत्वम्। बधशब्दो हि हनश्च वधः (3.3.76) इति। तयोर्धातुसवरः प्राप्तः इति। धातोः (6.1.156) इत्युदात्तत्वम्। व्यधः इति। व्यध ताडने (धातुपाठः-1181)। अत्रापि व्यधजपोरित्यबन्तत्वम्, पूर्ववद्धातुस्वरः प्राप्तः। कालविशेषे इति। कृतद्वापरादौ। रथाद्युपकरणे च इति। आदिशब्देन हलादेग्र्रहणम्। गरः इति। गृ निगरणे (धातुपाठः-1410)। ऋदोरप् (3.3.57) इत्यबन्तः। विषम् इत्यनेन दूष्यशब्दस्य विशेषे वृतिंत दर्शयति। अन्यत्राद्युदात्त एव इति। धातुस्वरेण। वेदवेगवेष्टबन्धाः इति। विद ज्ञाने (धातुपाठः-1064) `विचिर्? पृथगभावे (धातुपाठः-1442) वेष्ट वेष्टने (धायपा।255) बन्ध बन्धने (धातुपाठः-1508)। एभ्यो यथायोगं पर्याद्युपसर्गपूर्वेभ्यः क्विप्, प्रादसमासः। अन्यत्र मध्योदात्तः इति। वर्तनिशब्दो हि अर्त्तिसृघृ (द।उ।1।2) इत्यतोऽनिप्रत्ययेऽनुवर्तमाने वृतेश्च (द।3.1.6) इत्यनेन वृतु वर्तने (धातुपाठः-758) इत्येतस्मादनिप्रत्ययमुत्पाद्य व्युत्पाद्यते। तस्मात्? प्रत्ययस्वरेण मध्योदात्तो भवति। `दरः इति। दृ विदारणे (धातुपाठः-1493) ऋकारान्तत्वादबन्तः। साम्बतापौ भावग्रर्हायाम् इति। सहाम्बया वर्तत इति साम्बः, बहुव्रीहौ प्रकृत्या पूर्वपदम् (6.2.1) इति प्रकृतिस्वरेण सहशब्दस्य निपाता आद्युदात्ताः (फि।सू।4।80) इत्युदात्तत्वे प्राप्ते भावगर्हायामन्तोदात्तत्वं विधीयते। साम्बो भिक्षते। भिक्षणमत्र भावग्रर्हा। तपनं तापः तप सन्तापे (धातुपाठः-985) इत्यस्माद्घञ्। आद्युदात्तत्वे प्राप्ते वचनम्। तापो दस्यूनां धार्मिकेषु भावगर्हायामिति किम्? साम्बस्तिष्टति, तापो महान्? ग्रीष्मस्य। अनयोराद्युदात्तत्वमेव। उत्तमशआत्तमौ इति। एतौ तमप्प्रत्ययान्तो। पित्त्वात्? प्रत्ययस्यानुदात्तत्वे उच्छब्दस्य निपाता आद्युदात्ताः (फि।सू।4।80) इत्युदात्तत्वमित्यत आद्युदात्तत्वे प्राप्तेऽन्तोदात्तार्थमुत्तमशब्दः पठते। शआच्छब्दोऽपि प्रतिपदिकस्वरेणान्तोदात्तः, ततो मध्योदात्तत्वे प्राप्तेऽन्तोदात्तार्थमेव पठते। सर्वत्र इति। भावगर्हायाम्, अन्यत्र च। भक्ष -मन्थ इत्यादि। भक्ष भक्षणे (धातुपाठः-1557), [भक्ष अदने -धातुपाठः-] मन्थ विलोडने (धातुपाठः-42) भुजकौटिल्ये (धातुपाठः-1417), [भुजो -धातुपाठः-] दिह उपचये (धातुपाठः-1015)। ननु भक्षिश्चुरादित्वाण्ण्यन्त इति तत्? एरच् (3.3.56) इत्यचा भवितव्यम्, तत्? कथमसौ घञन्तः? इत्याह -भक्षिण्र्यन्तोऽपि इत्यादि। अत्रैव कारणमाह -एरजण्यन्तानाम् इति॥