61157: पारस्करप्रभृतीनि च संज्ञायाम्

Padacheda: पारस्करप्रभृतीनि | S | 1 | 3 |

च | S | 0 | 0 |

संज्ञायाम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The words पारस्कर etc. are Names.

Vasu English Translation

The words पारस्कर etc. are Names. These words are irregularly formed by adding सुट् ॥ Thus पारस्करः ‘a country called Paraskara’. कारस्करः ‘Name of a tree’, रथस्या ‘Name of a river’, किष्कुः ‘Name of a measure’, किष्किन्धा ‘Name of a cave’, तस्कर ‘a thief’, formed by inserting सुट् in the compound of तत् + कर, and eliding त् ॥ बृहस्पति ‘Name of a Diety’, formed similarly by inserting सुट् between बृहत् + पति and eliding the त् ॥ Why do we say when meaning a thief and a diety? Observe तत्करः, बृहत्पतिः ॥ The words चोर and देवता are used in the Ganapatha merely for the sake of diversity, the word संज्ञा would have connoted that प्रस्तुम्पति गौः ॥ When the root तुप तुम्प ‘to injure’ is preceded by the preposition प्र, there is added सुट् to प्र, when the agent of the verb is a cow. Why do we say ‘when the agent is cow’? Observe प्रतुम्पति वनस्पतिः ॥ In प्रस्तुम्पति the सुट् is added to a finite verb, which is thus conjugated:- प्रस्तुम्पति गौः, प्रस्तुम्पती गावौ, प्रस्तुम्पन्ति गावः ॥ This is an akritigana. Thus प्रायश्चित्तम्, प्रायश्चित्तिः ॥

1 पारस्करो देशः, 2 कारस्करो वृक्षः, 3 रथस्या नदी, 4 किष्कुः प्रमाणम्, 5 किष्किन्धा गुहा, 6 तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलापश्च (तस्करः चोरः, बृहस्पतिः = देवता), 7 प्रात् तुम्पतौ गवि कर्तरि (प्रस्तुम्पति गौः) ॥ आकृतिगणः ॥

Bhashya

पारस्करप्रभृतीनि च संज्ञायाम् (2594) (गणस्वरूपसाधकभाष्यम्) अविहितलक्षणः सुट् पारस्करप्रभृतिषु द्रष्टव्यः । पारस्करो देशः । कारस्करो वृक्षः । रथस्पा नदी । किष्किन्धा गुहा । किष्कुः ॥ तद्बृहतोः करपत्योश्चोरदेवतयोः सुट्तलोपश्च । तस्करः, बृहस्पतिः ॥ प्रायस्य चित्तिचित्तयोः सुडस्कारो वा । प्रायश्चित्तिः । प्रायश्चित्तम् ॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठाध्यायस्य प्रथमे पादे पञ्चममाह्निकम् ॥

Kashika

पारस्करप्रभृतीनि च शब्दरूपाणि निपात्यन्ते संज्ञायां विषये। पारस्करो देशः कारस्करो वृक्षः। रथस्पा नदी। किष्कुः प्रमाणम्। किष्किन्धा गुहा। तद्बृहतोः। करपत्योश्चोरदेवतयोः सुट् तलोपश्च (ग॰ सू॰ १६३)। तस्करश्चोरः। बृहस्पतिर्देवता। चोरदेवतयोरिति किम् ? तत्करः। बृहत्पतिः। संज्ञाग्रहणादुपाधिपरिग्रहे सिद्धे गणे चोरदेवताग्रहणं प्रपञ्चार्थम्। प्रात्तुम्पतौ गवि कर्तरि (ग॰ सू॰ १६४)। तुम्पतौ धातौ प्रशब्दात् परस्सुट् भवति गवि कर्तरि। प्रस्तुम्पति गौः। गवीति किम् ? प्रतुम्पति वनस्पतिः। पारस्करप्रभृतिराकृतिगणः। अविहितलक्षणः सुट् पारस्करप्रभृतिषु द्रष्टव्यः। प्रायश्चित्तम्। प्रायश्चित्तिः। यदुक्त ं प्रायस्य चित्तिचित्तयोः सुडस्कारो वा (महाभाष्य ३.९६) इति, तत् संगृहीतं भवति॥

Siddhanta Kaumudi

एतानि ससुट्कानि निपात्यन्ते नाम्नि । पारस्करः । किष्किन्धा ।<!तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च !> (वार्तिकम्) ॥ तात्पूर्वं चर्त्वेन दकारोऽपि बोध्यः । तद्बृहतोर्दकारतकारौ लुप्येते । करपत्योस्तु सुट् । चोरदेवतयोरिति समुदायोपाधिः । तस्करः । बृहस्पतिः । ।<!प्रायस्य चित्तिचित्तयोः !> (वार्तिकम्) ॥ प्रायश्चित्तिः । प्रायश्चित्तम् । वनस्पतिरित्यादि । आकृतिगणोऽयम् ॥

Balamanorama

पारस्करप्रभृतीनि (च संज्ञायाम्) - पारस्करप्रभृतीनि च । परस्कर इति । पारं करोतीति विग्रहः । पूर्ववट्टः । किष्किन्धेति । किं=किमपि वानरसैन्यं धत्ते इति किष्किन्धा ।आतोऽनुपसर्गे कः॑ । टाप् । निपातनात् किमो द्वित्वम् । मलोपः सुट्, षत्वं च । रूढशब्दा एते कथञ्चिद्व्युत्पाद्यन्ते, एषामवयवार्तोन विचारणीयः । तद्वृहतोरिति । पारस्करादिगणसूत्रमेतत् । तच्छब्दे तकारस्याऽन्त्यस्याऽभावादाह — तात्पूर्वमिति । तलोपश्चेत्यत्र तकारात्पूर्वमित्यर्थः । तत् — चौर्यं-करोतीति विग्रहः ।कृञो हेतुताच्छील्ये॑ इति टः । बृहस्पतिरिति । बृहती=वाक्, तस्याः पतिरिति विग्रहः । [॒कुक्कुठआदीनामण्डादिष्वि॑ति] पुंवत्त्वम्, तलोपः । सुट् ।वाग्धि बृहती, तस्या एष पतिः॑ इति च्छन्दोगब्राआहृणम् । प्रायस्य चित्तिचित्तयोरिति । गणसूत्रमिदम् । प्रायस्य चित्तिः चित्तं वेति विग्रहः ।प्रायं पापं विजानीयाच्चित्तं तस्य विशोधन॑मिति स्मृतिः । वनस्पतिरिति । वनस्य पतिरिति विग्रहः । आकृतिगणो ।ञयमिति । तेन शतात्पराणि परश्शतानीत्यादि सिद्धम् । ***इति बालमनोरमायां समासाश्रयविधयः ।**** अथ वासुदेवदीक्षितकृता बालमनोरमा *स जयति दिव्यनटेशो नृत्यति योऽसौ चिदम्बरसभायाम् ।पाणिन्याद्या मुनयो यस्य च दयया मनोरथानभजन्॥ १॥अस्तु नमः पाणिनये भूयो मुनये तथास्तु वररुचये ।किंचास्तु पतञ्जलये भ्रात्रे विओआराय गुरवे च॥ २॥व्याख्याता बहुभिः प्रौढेरेषा सिद्धांन्तकौमुदी ।वासुदेवस्तु तद्व्याख्यां वष्टि बालमनोरमाम्॥ ३॥मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि च, अध्येतारश्च वृद्धियुक्ता यथा स्युः॑ इति वृद्धिसूत्रस्थभाष्यादिस्मृतिसिद्धकर्तव्यताकं ग्रन्थादौ कृतं मङ्गलं शिष्यशिक्षायै ग्रन्थतो निबध्नन् प्राचीनग्रन्थैरगतार्थतांष विषयप्रयोजनसम्बन्धाधिकारिणश्च सूचयन् चिकीर्षितं प्रतिजानीते — मुनित्रयमिति श्लोकेन ।इयं वैयाकरणसिद्धान्तकौमुदी विरच्यते॑ इत्यन्वयः ।इय॑मिति ग्रन्थरूपा वाक्यावलिर्विवक्षिता । भाविन्या अपि तस्या बुद्ध्या विषयीकरणादियमिति प्रत्यक्षवन्निर्देशः । व्याकरणमधीयते विदन्ति वा वैयाकरणाः, तेषां सिद्धान्ताः-एते शब्दाः साधव इति निश्चितार्थाः, तेषां कौमुदी चन्द्रिका । अत्यन्तसादृश्यात्ताद्रूप्यव्यपदेशः । चन्द्रिका-हि तमो निरस्यति, भावान् सुखं प्रकाशयति, दिन करकिरणसंपर्कजनितं संतापमपगमयति । एवमियमपि ग्रन्थरूपवाक्यावलिरज्ञानात्मकं तमो निरस्यति, मुनित्रयग्रन्थभावाननायासं प्रकाशयति, अतिविस्तृतदुरूहभाष्यकैयटादिमहाग्रन्थपरिशीलनजनितं चित्तसंतापं च शमयतीति अत्यन्तसादृश्याद्युज्यते चन्द्रिकातादात्म्याध्यवसायः । विरच्यते=क्रियते । वर्तमानसामीप्याद्वर्तमानव्यपदेशः । किं कृत्वेत्यत आह — मुनित्रयं नमस्कृत्येति । त्रयोऽवयवा अस्य समुदायस्य त्रयं । त्र्यवयवकसमुदायः ।संख्याया अवयवे तयप् इति तयप्तद्धितः ।द्वित्रिभ्यां तयस्यायज्वा॑ इति तयस्याऽयजादेशः । मुनीनां त्रयमिति षष्ठीसमासः । त्रयाणां मुनीनां समुदाय इति यावत् । यद्यपि मुनिशब्दस्य त्रिशब्दस्य चाऽभेदान्वये त्रिशब्दस्य मुनिशब्दसापेक्षत्वादसामर्थ्यात्तद्धितानुपपत्तिः, तथापि त्रयोऽवयवा अस्य समुदायस्य त्रयमिति प्रथमं व्युत्पाद्यम् । अत्र त्रिशब्दस्य मुनिशब्दमनपेक्ष्यैव समुदायेऽन्वयान्नास्त्यसामर्थ्यम् । ततो मुनीनां त्रयमिति मुनिशब्दः समुदायेऽन्वेति, तस्य प्रत्ययार्थतया प्रधानत्वात् । न तु मुनिशब्दस्य त्रयशब्दैकदेशभूतत्रिशब्देनाभेदान्वयः,पदार्थः पदार्थेनान्वेति न तु तदेकदेशेन॑ इति न्यायात् । ततश्च मुनिशब्दत्रिशब्दयोः परस्परवार्तानभिज्ञयोरेव शब्दमर्यादया समुदायेऽन्वये सति पश्चात्संख्यायाः परिच्छेदकत्वस्वभावतया त्रित्वस्य परिच्छेद्यपर्यालोचनायां संनिहितपदान्तरोपस्थितत्वान्भुनय एव परिच्छेंद्यतया संबध्यन्ते -त्रयाणां मुनीनां समुदाय इति । सोऽयं पार्ष्ठिकान्वयोऽरुणाधिकरणन्यायविदां सुगम इत्यलं विस्तरेण । मुनित्रयमिति कर्मणि द्वितीया । ‘नमः स्वस्ति’ इति चतुर्थी तु न,कारकविभक्तेर्बलीयस्त्वस्य वक्ष्यमाणत्वात् । नमस्कृत्य । अजलिशिरः-संयोगादिव्यापारेण तोषयित्वेत्यर्थः । नमस्करोतेरजलिशिरः संयोगादिरूपव्यापारमात्रार्थकत्वेऽकर्मकत्वापत्त्या द्वितीयानुपपत्तेः । ननु प्राचीनेषु प्रक्रियाकौमुद्यादिग्रन्थेषु वैयाकरणसिद्धान्तानां सङ्ग्रहात्तैरेव ग्रन्तैश्चरितार्थत्वात् । किमनेन ग्रन्थेनेत्यत आह — तदुक्तीः परिभाव्य चेति । तस्य मुनित्रयस्य उक्तयः तदुक्तयः=सूत्रवार्तिकभाष्यात्मकग्रन्थरूपवाक्याबलयः । ताः परिभाव्य च=सम्यगालोच्य चेत्यर्थः । भूधातोः स्वार्थिकणिजन्ताद्रूपम् । चुरादौ हि ‘भुवोऽवकल्कने’ इत्यत्र ण्यन्तभूधातोश्चन्तनार्थकत्वमपि वक्ष्यते मूलकृतैव । नचअनादरः परिभवः परीभावस्तिरक्रिया॑ इति कोशविरोधः शङ्क्यः, कोशस्य अण्यन्तभूधातुविषयत्वात् । ‘परौ भुवोऽवज्ञाने’ इति सूत्रेण तिरस्कारार्थे वर्तमानादण्यन्तात्परिपूर्वकभूधातोर्भावे घञि परिभावशब्दस्य व्युत्पत्त्यवगमात् । एवं च तदुक्तीरिति तच्छब्दस्य बुद्धिस्थपरामर्शित्वात्प्राचां प्रक्रियाकौमुदीप्रसीदादिकृतामुक्तीस्तिरस्कृत्येत्यर्थ इति व्याख्यानं क्लिष्टत्वादुपेक्षितम् । अनेन स्वग्रन्थस्य मुनित्रयग्रन्थानुयायित्वं, प्राचीनप्रक्रियाकौमुद्यादिग्रन्थानां तद्विरुद्धत्वं च सूचितम् । तच्च प्रौढमनोरमायां स्वयमेव मूलकृता प्रपञ्चितमेव । वैयाकरणसिद्धान्तकौमुदीत्यन्वर्थसंज्ञया वैयाकरणसिद्धान्ताःप्रतिपाद्यत्वेन विषयाः । अनायासेन तदवगमः प्रयोजनम् । तस्य ग्रन्थस्य च जन्यजनकभावः संबन्धः । वैयकरणसिद्धान्तजिज्ञासुरधिकारीति सूचितम् । अथ वैयाकरणसिद्धान्तानिरूपयिष्यन्, व्याकरणशास्त्रस्य मूलभूतानि चतुर्दश सूत्राणि पठति — ऐउणित्यादिना । नन्विमानि सूत्राणि मुनित्रयग्रन्थबर्हिभूतत्वादप्रमाणमित्यत आह — इति माहेआराणि सूत्राणीति । मबेआरादागतानि माहेआराणि । ‘तत आगतः’ इत्यण् । महेआरादधिगतानीति यावत् । तदुक्तं पाणिनिशिष्टप्रणीतशिक्षयाम् — ॒येनाक्षरसमास्नायमधिगम्य महेआरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्यै पाणिनये नमः॥॑ इति । एतचतुर्दशसूत्रव्याख्यायां नन्दिकेआरकृतायां काशिकायामप्युक्तम् — ॒नृतावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् । उद्धर्तुकामः सनकादिसिद्धानेतद्विमर्शे शिवसूत्रजालम्॥॑ इति ।अत्र ननादेत्यन्तर्भावितण्यर्थो नदधातुः । ढक्कां नादयामासेत्यर्थः । नवपञ्चवारं=चतुर्दशकृत्वः । एतत्=शिवढक्कोत्थितं वर्णजालं, शिवसूत्रजालतया विमर्शे=जानामीत्यर्थः । आर्षस्तङ् । एवं च महेआरेण प्रोक्तानि माहेआराणीति निरस्तम् । एतेन माहेआरत्वादेतेषां सूत्राणां नाऽप्रामाण्यमित्युक्तं भवति । नन्वेवमपि अनर्थकवर्णराश्यात्मकानामेषां सूत्राणां वैयाकरणसिद्धान्तप्रकाशने उपयोगाऽभावादिह तदुपन्यासो व्यर्थ इत्यत आह — अणाअदिसंज्ञार्थानीति । अण् आदिर्यासां ताः अणादयः, अणादयश्च ताः संज्ञाश्च अणादिसंज्ञाः, ताः अर्थः प्रयोजनं येषां तानि — अणादिसंज्ञार्थानि । अनर्थकवर्णराशित्वेऽपि एषां सूत्राणां व्याकरणशास्त्रगतव्यवहारोपय ग्यणादिसंज्ञासु उपयोगान्नाऽऽनर्थक्यमिति भावः । कथमेषां सूत्राणामणादिसंज्ञार्थत्वमित्यत आह — एषामन्त्या इत इति । एषामुदाहृतसूत्राणामन्त्याः अन्ते भवा णकारादिवर्णाः इत्संज्ञकाः प्रत्येतव्या इत्यर्थः । लण्सूत्रे अकारश्चेति ।इत॑इत्यनुषज्यते । तच्च एकवचनान्ततया विपरिणम्यते । लण्सूत्रे लकारात्परोऽकारश्च इत्संज्ञकः प्रत्येतव्य इत्यर्थः । अनन्त्यत्वात्पृथक्प्रतिज्ञा । ननु लण्सूत्र एव अकारस्य इत्संज्ञकत्वे हयवरेत्यादौ पुनःपुनरकारोच्चारणस्य किं प्रयोजनमित्यत आह — हकारादिष्वकार उच्चारणार्थ इति । हकारादीनां सुखोच्चारणार्थं पुनः पुनरकारपाठ इत्यर्थः । अन्यता ह्य्व्रित्येवं क्लिष्टोच्चारणापत्तेरिति भावः । अथवा अचं विना हलामुच्चारणाऽभावात् पुनः पुनरकारपाठो हकाराद्युच्चारणार्थ इत्येव व्याख्येयम् । अत एव ‘उच्चैरुदात्तः’ इति सूत्रे भाष्यम् — ॒नान्तरेणाऽचं व्यञ्जनस्योच्चारणं भवति॑ इति । अत्र च इदमेव अकारस्य पुनः पुनरुच्चारणं ज्ञापकम् । एवं च ‘वर्णात्कारः’ इति कारप्रत्यये सति ककार इत्यादि (रूपाणि) । वागित्याद्यवसानेषु, वृक्ष इत्यादौ संयुक्त वर्णेषु च पदान्ते ‘चोः कुः’ इत्यादिविधिबलात्,हलोऽनन्तराः संयोगः॑ इत्यादिशास्त्रबलाच्च नायं नियम इत्यलम् । ननु चतुर्दशसूत्र्यां णकाराद्यन्तवर्णानामित्संज्ञा प्रतिज्ञाता — ॒एषामन्त्या इत॑ इति । तदनुपपन्नम् । तेषां हि ‘हलन्त्यम्’ इति सूत्रेण इत्संज्ञा वक्तव्या । तच्च सूत्रं हल्पदार्थावगमोत्तरमेव प्रवृत्तिमर्हति । हल्संज्ञा च हलिति सूत्रे लकारस्य इत्संज्ञायां सत्याम् ‘आदिरन्त्येन सहेता’ इति सूत्रेण वाच्या । हलिति सूत्रे लकारस्य इत्संज्ञा च ‘हलन्त्यम्’ इति सूत्रप्रवृत्तिः, ‘हलन्त्यम्’ इति सूत्रे हल्सूत्रे लकारस्य इत्संज्ञायाम् ‘आदिरन्त्येन सहेता’ इति हल्संज्ञासिद्धिरित्येवं ‘हलन्त्यम्’ ‘आदिरन्त्येन’ इत्यनयोः परस्परसापेक्षत्वेन अन्योन्याश्रयत्वादबोधः । एवं च हल्संज्ञामनुपजीव्यैव हल्सूत्रे लकारस्य केनचित्सूत्रेण इत्संज्ञामबोधयित्वा ‘हलन्त्यम्’ इति हलामित्संज्ञाबोधनं पाणिनेरयुक्तमित्याशङ्क्य हल्संज्ञामनुपजीव्यैव हल्सूत्रे लकारस्य इत्संज्ञां विधातुं ‘हलन्त्यम्’ इति सूत्रं द्विरावृत्य प्रथमसूत्रमुपक्षिपति — हलन्त्यम् ।

Tattvabodhini

पारस्करप्रभृतीनि (च संज्ञायाम्) - पारस्कर इति ।पारं करोती॑ति विग्रहः ।कृञो हेतुताच्छील्ये॑ति टः । किष्किन्धेति ।किमपि धत्ते॑इति विग्रहेआतोऽनुपसर्गे कः॑ । टाप् । निपातनात्किमोद्वित्वं । पूर्वस्य मलोपः । सुट् षत्वं च ।किं किं दधाती॑ति विगृह्णतां तु मते वीप्सीयां द्वित्वं सिद्धम् । अन्यत्र तु निपातनादेव । वस्तुतस्तु रूढिशब्दा एते कथंचिद्व्युत्पाद्यन्त इत्यवयवार्थे नाग्रहः कार्यः ।तद्वृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च । तद्वृहतोरिति । गणसूत्रमेतत् । तादिति ।तलोपश्चे॑त्यत्रे॑ति शेषः ।प्रायस्य चित्तिचित्तयोः । प्रायस्येति । गणसूत्रमेतदपि ।प्रायः पापं विजानीयाच्चित्तं तस्य विशोधन॑मिति स्मृतिः । आकृतिगणोऽयमिति । तेन शतात्पराणि परश्शतानि कार्याणीत्यादि सिद्धम् । इहसुप्सुपे॑ति वा,पञ्चमी॑ति योगविभागाद्वा समासः । राजदन्तादित्वाच्छतशब्दस्य परनिपातः, पारस्करादित्वात्सुट् । इति तत्त्वबोधिन्यां समासाश्रयविधयः ।* ॐ श्रीगणेशाय नमः *तत्त्वबोधिनी-बालमनोरमा-व्याख्याद्वयविराजितावैयाकरण-सिद्धान्तकौमुदी । — — — — — — — — -तस्याः पूर्वाद्र्धम् ।अथ संज्ञाप्रकरणम् — — — — — — मुनित्रयं — -सिद्धान्तकौमिदीव्याख्या क्रियते तत्त्वबोधिनी॥ १॥विघ्नविघाताय कृतं मङ्गलं शिष्यशिक्षायै निबध्नंश्चिकीर्षितं प्रतिजानीते-मुनित्रयमित्यादिना । त्रयोऽवयवा यस्येति त्रयम् ।संख्याया अवयवे तयप् ।द्वित्रिभ्यां तयस्य-॑ इत्ययच् । मन्तारे वेदशास्त्रार्थतत्त्वावगन्तारो मुनयः ।मनेरुच्च॑ इत्यौणादिकसूत्रेण मनेरत उकारो मनेः पर इन् प्रत्ययश्च । गुणस्तु नेह भवति, किदित्यनुवर्तनात्, तपरकरणाद्वा । तेषा पाणिनिकात्यायनपतञ्जलीनां त्रयं मिनित्रयम् । ननुस्वयंभुवे नमस्कृत्य॑ इत्यत्रेवात्रापिनमःस्वस्ति-॑ इत्यादिना चतुर्थी स्यात् । मैवम् ।उपपदविभक्तेः कारकविभक्तिर्बलीयसी॑ इति वक्ष्यमाणत्वात्नमस्करोति देवान् इतिवद्द्वितीयाया एव युक्तत्वात् । किंचजहत्स्वार्था वृत्तिः॑ इति पक्षे नमःशब्दस्यात्र निरर्थकत्वात्तद्योगे चतुर्थी न भवति, अर्थवह्यहणपरिभाषायाः प्रवृत्तेः ।स्वयंभुवे नमस्कृत्य॑ इत्यत्र तु स्वयंभुवमनुकूलयितुमित्यर्थविवक्षायांक्रियार्थोपपदस्य-॑ इत्यादिना चतुर्थीति मूल एव स्फुटीभविष्यति । नचैवंनमःस्वस्ति-॑ इति सूत्रे नमःपदं व्यर्थमिति शङ्क्यम्, हरये नम इत्यत्र हरिमनुकूलयितुमित्यर्थेऽविवक्षिते संबन्धसामान्ये षष्ठआं प्राप्तायां तदपवादतया तस्यावश्यकत्वात् । तदुक्तीरिति । तेषांपाणिन्यादीनामुक्तीः । सूत्रवार्तिकभाष्याणीत्यर्थः । तस्य मुनित्रयस्योक्तीरिति व्याख्यानेऽपि समुदायेन सूत्रं वार्तिकं भाष्यं वा नोक्तमिति समुदायिनां मुनीनामेवोक्तीरिति पर्यवस्यति ।परिभाव्येति । पर्यालोच्येत्यर्थः । नच परिपूर्वस्य भवतेस्तिरस्कारार्थत्वात्कथमत्र ज्ञानार्थतेति शङ्क्यम्, परीत्यस्य भावीति चुरादिणिजन्तेन योगात् । केचिदत्र भवतिना योगमभ्युपेत्याहुः-॒पुरौ भुवोऽवज्ञाने॑ इति सूत्रे परौ भुव इत्यस्यावज्ञान #इति विशेषणान्न तिरस्कारार्थत्वनियमः ।मनसा परिभाव्य किंचित् इत्यादि-श्रीहर्षप्रयोगाच्च । अतएवात्राऽप्रयुक्तत्वदोषशङ्कापि नास्तीति । अन्ये तु-॒अनादरः परिभवः परीभावस्तिरस्क्रिया॑ इति कोशात्परिपूर्वकाद्भवतेर्घञन्तादेव तिरस्कारप्रतीतिर्नान्यस्मादित्याशङ्कैवात्र नास्तीत्याहुः । तन्मन्दम् । परिभूय परिभवतीत्यतोऽपि तिरस्कारप्रतीतेः ।वैयाकरणेति । व्याकरणमधीयते विदन्ति वा वैयाकरणाः । तत्सिद्धान्ताना कौमुदी । प्रकाशिकेत्यर्थः । निर्दुष्टसकलजनाह्लादकत्वसाम्येन॒कौमिदी॑शब्दप्रयोगः । करिष्यमाणाया अपि कौमुद्या बुद्ध्या संनिधापितत्वादियमित्यङ्गुल्या निर्देशः । विरच्यत इति ।मये॑ति शेषः ।रच प्रतियत्रे । प्रतियन्त्रो गुणाधानम् । विपूर्वादस्माद्वर्तमानसामीप्ये भविष्यदर्थे वर्तमानप्रत्ययः ।ऐउणिति । णोऽनुबन्धोऽण्संज्ञार्थः । या या संज्ञा सा सा प्रयोजनवती । ऋऌगिति । ककारस्त्वक्िकुसंज्ञार्थः॥ एओङिति । ङकार एङ्संज्ञार्थः॥ ऐऔजिति । चकारस्वचिचेचैच्संज्ञार्थः । वर्णानामसन्दिग्धत्वेन बोधनाय संहिताया अविवक्षणादेतेष्वसन्धिः । स्वराणां चादिषु पाठात्चादयोऽसत्त्वे॑ इति निपातसंज्ञायांनिपात एकाजनाङ् इति प्रगृह्रत्वे प्रकृतिभावान्न सन्धिरित्यन्ये । स्यादेतत् । अकाराद्युपदेशेन यथा तत्सवर्णानामाकारादीनां लाभात्पृथगाकारादयो नोपदिष्टास्तथा ॠऌवर्णयोरपि सावण्र्यादृकारोपदेशेनैवेभयसिद्धेः किं पृथगुपदेशेन । न च जातिपक्षे ॠऌवर्णयोः पृथगुपदेश-आवश्यकस्तयोर्भिन्नजातित्वादिति वाच्यम्, सावण्र्यादेवैकजात्युपदेशे जात्यन्तरस्यापि लाभात् । ॠऌवर्णयोः प्रत्येकं तिंरशतः संज्ञासिद्धयेअणुदित्सवर्णस्य-॑ इति सूत्रे अणग्रहणस्य जातिपक्षेऽप्यावश्यकत्वादिति चेत् । अत्राहुः-ॠऌवर्णयोः सावण्र्यस्याऽनित्यतां ज्ञापयितुमुभयोर्निर्देशः, तत्फलं तु कॢप्ता शिखा यस्य कॢप्तशिखः, तस्य दूरात्संबोधने कॢप्तशिखेति प्लुतः । ॠऌवर्णयोः सावण्र्यस्य नित्यत्वे तुअनृतः॑ इति पर्युदासादृकारस्येव ऌकारस्यापि प्लुतो न स्यादिति समाधानान्तरमपिओर्गुणः॑ इत्यत्र दर्शयिष्यते॥ हयवरडिति । टोऽनुबन्धोऽट्संज्ञार्थः । हकारोपदेशस्तु अटाश्हश्िण्ग्रहणेषु हकारग्रहणार्थः । अर्हेण ।अङ्वयवायेऽपि॑ इति णत्वम् । देवा हसन्ति ।भोभगो-॑ इति रोर्यत्वम् । देवो हसति ।हशि च॑ इत्युत्वम् । लिलिहिंध्वे लिलिहिढ्व ।विभाषेटः॑ इति वा ढः । लणिति । णकारोऽनुबन्धोऽण्िण्यण्संज्ञार्थः । नन्वणिति क्वचित्पूर्वणकारेण गृह्रते, क्वचित्तु परेण णकारेण, इणिति तु परणकारेणैव । तथाच निःसन्देहार्थमनुबन्धान्तरमेव कर्तुमुचितम् । सत्यम् ।व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणम् इति परिभाषाज्ञापनाय पुनर्णकारोऽनुबन्ध इति स्थितमाकरे । ञमङणनमिति । मकार इह अम्यम्ञम्ङम्संज्ञार्थः । झभञिति । ञकारोयञ्संज्ञार्थः । घढधषिति । षकारस्तु झष्भष्संज्ञार्थः । जबगडदशिति । शोऽनुबन्धो अश्हश्वश्झश्जश्बश्संज्ञार्थः । खफछठथचटतविति । वकारस्तु छव्संज्ञार्थः । कपयिति । यकारो यय्मय्झय्खय्चय्संज्ञार्थः । शषसरिति । रेफस्तु यर्झर्खर्चर्शर्संज्ञार्थः । हलिति । लकारः अल्हल्वल्रल्झल्शल्संज्ञार्थः । पुनर्हकारोपदेशस्तु वल्रल्झल्शल्षु हकारग्रहणार्थः । रुदिहि । स्वपिहि ।रुदादिभ्यः सार्वधातुके॑ इति वलादिलक्षण इट् । स्निहित्वा ।नक्त्वा सेट् इति निषेधं बाधित्वारलो व्युपधात्-॑इति वा कित्त्वम् । अदाग्धाम् । घत्वस्याऽसिद्धत्वेऽपि हकारस्य झल्त्वात्झलो झलि॑ इति सलोपः । अलिक्षत् ।शलः-॑ इति क्सः । ननु पुनर्हकारोपदेशस्यावश्यकत्वेऽपि शर्मध्या एव हकारं पठित्वाअलोऽन्त्यस्य॑,हलोऽनन्तराः संयोगः॑,झलो झलि॑,शल इगुपधा-॑ इत्यादिसूत्राणि यावन्ति लानुबन्धानि तानिअरोऽन्त्यस्य॑,हरोषनन्तराः॑ इत्येवंरूपेण रेफानुबन्धान्येव च कृत्वाहल् इति पृथक् सूत्रं त्यज्यताम् । मैवम् । तथाहि सति हरिर्हसति हरिर्हरिरित्यादि न सिध्येत् । तत्रखरवसानयोर्विसर्जनीयः॑,वा शरि॑ इत्यादिप्रसङ्गात् । अतोहल् इति सूत्रमावश्यकमेव । एवञ्चहलिति सूत्रेऽन्त्यम्-॑ इति वक्ष्यमाणग्रन्थोऽपि स्वरसतः सङ्गच्छते । अणादिसंज्ञार्थानीति । अणादिसंज्ञा अर्थः प्रयोजनं येषा तानीति विग्रहः । अणादिसंज्ञाभ्य इमानि इत्यस्वपदविग्रहो वा ।अर्थेन नित्यसमासो विशेष्यलिङ्गता च॑ इति वक्ष्यमाणत्वात् । एषामन्त्या इतीति । एषां सूत्राणामन्त्या णादयोहलन्त्यम् इत्यनुपदं वक्ष्यमाणेनेत्संज्ञका इत्यर्थः । लण्सूत्रेऽकारश्चेति । अनन्त्यत्वात्पृथगुक्तिः । वचनविपरिणामेनेदिति सम्बध्यते । इत्संज्ञा चास्यउपदेशेऽजनुनासिक इत् इत्यनेन । एवञ्च णादिभिरिद्भिःआदिरन्त्येन-॑ इति वक्ष्यमाणेन प्रत्याहारग्रहणात्अणादिसंज्ञार्थानि॑ इति यदुक्तं तत्सङ्गच्छत् इति भावः । अकार उच्चारणार्थ इति । नतु लण्सूत्रस्थाऽकार इव प्रयोजनार्थ इत्यर्थः ।

Padamanjari

रूढिशब्दा एते यथाकथञ्चिद्व्युत्पाद्याः। पाहङ्करोतीति पारस्करः,’कृञो हेतु’ इत्यादिना टः। रथं यातीति रथष्या। ठातोऽनुपसर्गे कःऽ। षत्वागप्यत्र निपात्यते। अन्ये तु सकारमेव पठन्ति। किं करोतीति करोतेर्डुः, किमोऽन्त्यलोपः, सुट्, किष्कुः। किमपि धते किष्किन्धा । पूर्ववत्कः, किमो द्विर्वचनं पूर्वस्य मलोपः, सुट, उभयत्राप्यत्र षत्वमपि निपात्यते। तत्करोतीति तस्करः। अत्र हि तच्छब्देन चोरकर्म प्रसिद्धं निन्द्यं परामृश्यते। प्रातुम्पताविति।’तुप तुम्प हिंसार्थौ’ इत्येतस्मिन्धातौ परतः प्रशब्दात्परः सुड् भवति धात्वर्थस्य चेद् गौः कर्ता भवति, प्रस्तुम्पतीति यत्ने तिबन्ते सुट्। स्वशब्देन धातुग्रहणातदादावपि भवति प्रस्तुम्पतो गावौ, प्रस्तुम्पन्ति गाव इति। चितिचितयोरिति।’चिती संज्ञाने’ , क्तिन्,’नपुंसके भावे क्तः’ । प्रायो नाम तपः प्रोक्तं चितं निश्चय उच्यते। तपो निश्चयसंयोगात्प्रायश्चितमिति स्मृतम् ॥

Nyaas

पारस्करप्रभृतयो रूढिशब्दा यथाकथञ्चिद्वयुत्पाद्याः। नात्रावयवार्थं प्रत्यभिनिवेष्टव्यम्। पारं करोतीति परस्करः कृञो हेतुताच्छील्यानुलोम्येषु (3.2.20) इति टः। रयं पातीति रथस्पाआतोनुपसर्गे कः (3.2.3) । कार्य करोतीति करोतेःर्डुः, कार्यस्य च किरादेशः -किष्कुः। किमप्यन्तर्दघातीति दधातेः पूर्ववत्? कः, किमो र्द्विर्वचनम्, पूर्वस्य च मकारस्य लोपः -किष्किन्धातद्बृहतोः इत्यादि। तत्, बृहत् -इत्येतयोर्यथाक्रमं करपतिशब्दयोः परतश्चोरे देवतायाञ्चाभिधेयायां सुङ्? भवति, अन्त्यस्य च तकारस्य लोपः। तत्? करोतीति किं यत्तद्बहुषु (वा।242) इत्यज्विधानम्, तसकरश्चौरः, तत्करोऽन्यः। बृहतां पतिर्बृहस्पतिर्देवता, बृहत्पतिरन्यः। अथ किमर्थं चौरदेवतयोरित्युपाधिरुपादीयते, यावता संज्ञाग्रहणादेव तत्परिग्रहः सिद्धः, न ह्रन्यस्य तस्करबृहसपतिशब्दौ संज्ञा? इत्यत आह -संज्ञाग्रहणम् इत्यादि। प्रात्तुम्पतौ इत्यादि। तुप तुम्प तृप्तौ (धातुपाठः-1309,1360) इति परतः प्रशब्दात्? परस्य सुङ्भवति गवि कर्तरि। प्रस्तुम्पति गौः। प्रतुम्पत्येवान्यः यदुक्तम् इति भाष्ये। यदि तर्हि पारस्करपरभृतिराकृतिगणः, प्रतिष्कशश्च कशेः (6.1.152) इत्यारभ्य पूर्वं सूत्रं न पठितव्यम्, तस्याप्यनेनैव सङ्ग्रहात्? सत्यमेतत्; प्रपञ्चार्थं तु पठितव्यम्॥

Prakriyasarvasvam

पारस्करो नाम देशः, ऋषिञ्च । ‘तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च’ (वा० ६-१-१५७) क्रमाद् योज्यम् । तद् गर्ह्यकर्म करोतीति तस्करश्चोरः । वृहस्पतिर्देवताभेदः । अन्यत्र तत्करः बृहत्पतिः । बृहन्तो देवाः ।<!प्रात् तुम्पतौ गवि कर्तरि!> (वा० ६-१-१५७) तुम्पधातुर्हिंसार्थः । प्रस्तुम्पत्यमुं गौः । प्रस्तुम्पको गौः । ‘वनस्पतिर्वृक्षे’ । ‘रथस्पा नद्याम्’ । रथष्पेति षत्वं चाह हरः । किञ्चिन्मात्रं करोतीति किष्कुः । किं किं दधातीति किष्किन्धा । परश्शतम् । परस्सहस्रम् । प्रायश्चित्तम् । प्रायश्चित्तिः । वाचस्पतिः । दिवस्पतिः । इत्याद्याकृति- गणः । सुधी अर्च्यः, मधु अरिः, पितृ उक्त्या, गम्लृ आह इति स्थिते

Vartika

प्रायस्य चित्तिचित्तयोः सुडस्कारो वा ।

Sutra Prayogas

  • परःशतानां (किरातार्जुनीयम्): पारस्करप्रभृतीनि च संज्ञायाम् इति पारस्करादित्वात्सुडागमः।

  • परःशताः (शिशुपालवधम्): पारस्करप्रभृतीनि च संज्ञायाम् इति सुडागमः।