61156: कारस्करो वृक्षः

Padacheda: कारस्करः | S | 1 | 1 |

वृक्षः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The word कारस्कर means ‘a tree’.

Vasu English Translation

The word कारस्कर means ‘a tree’. This word is formed from कार + कृ + ट (3.2.21) = कारस्करः ॥ When not meaning a tree, the form is कारकरः ॥ Some do not make this a separate sutra, but include it in the next aphorism.

Kashika

कारस्कर इति सुट् निपात्यते वृक्षश्चेद् भवति। कारं करोतीति दिवाविभानिशाप्रभाभास्कारान्ता॰ (३.२.२१) इति टप्रत्ययः। कारस्करो वृक्षः। वृक्ष इति किम् ? कारकरः। केचिदिदं सूत्रं नाधीयते, पारस्करप्रभृतिष्वेव कारस्करो वृक्ष इति पठन्ति॥

Siddhanta Kaumudi

कारं करोतीति कारस्करो वृक्षः । अन्यत्र कारकरः । केचित्तु कस्कादिष्विदं पठन्ति न सूत्रेषु ॥

Padamanjari

पारस्करप्रभृतिष्वेवेति। नेदं सूत्रमधीयत इत्यर्थः ॥