61152: प्रतिष्कशश्च कशेः

Padacheda: प्रतिष्कशः | S | 1 | 1 |

च | S | 0 | 0 |

कशेः | S | 6 | 1 |

Sutrartha


Vasu English Summary

To the root कश् ‘to go, to punish’, is added the augment सुट् , when preceded by the preposition प्रति , the form being प्रतिष्कशः।

Vasu English Translation

To the root कश् ‘to go, to punish’, is added the augment सुट् , when preceded by the preposition प्रति , the form being प्रतिष्कशः। Verse

ग्राममद्य प्रवेक्ष्यामि भव मे त्वं प्रतिष्कशः ।

The word प्रतिष्कश is formed by adding अच् affix (3.1.134) to the root, with adding the prefix प्रति ॥ Thus ग्राममद्य प्रवेक्ष्यामि भव मे त्वं प्रतिष्कशः ‘I shall inspect the town to-day, be thou my emissary’. The word प्रतिष्कशः means “a messenger, a herald, an emissary”. Why do we say “to the root कश”? Observe प्रतिगतः कशां = प्रतिकशोऽश्वः ‘a horse guided by the whip’. Here though कशा is derived from कश, yet the augment does not take place, because the augment comes to the root कश्, and not to a derivative word.

Kashika

कश गतिशासनयोः इत्येतस्य धातोः प्रतिपूर्वस्य पचाद्यचि कृते सुट् निपात्यते, तस्यैव षत्वम्। ग्राममद्य प्रवेक्ष्यामि भव मे त्वं प्रतिष्कशः। वार्तापुरुषः, सहायः, पुरोयायी वा प्रतिष्कश इत्यभिधीयते। कशेरिति किम् ? प्रतिगतः कशां प्रतिकशोऽश्वः। अत्र यद्यपि कशेरेव कशाशब्दस्तथापि कशेरिति धातोरुपादानं तदुपसर्गस्य प्रतेः प्रतिपत्त्यर्थम्। तेन धात्वन्तरोपसर्गाद् न भवति॥

Siddhanta Kaumudi

कश गतिशासनयोरित्यस्य प्रतिपूर्वस्य पचाद्यचि सुट् निपात्यते षत्वं च । सहायः पुरोयायी वा प्रतिष्कश इत्युच्यते । कशे किम् । प्रतिगतः कशां प्रतिकशोऽश्वः । यद्यपि कशेरेव कशा तथापि कशेरिति धातोर्ग्रहणमुपसर्गस्य प्रतेर्ग्रहणार्थम् । तेन धात्वन्तरोपसर्गान्न ॥

Balamanorama

प्रतिष्कशश्च कशेः - प्रतिष्कशश्च कशेः । कशेरिति कश इत्यत्रान्वेति । तथाच कशधातोर्निष्पन्नस्य कशशब्दस्य प्रतेः परस्य सुट् स्यादित्यर्थः । कशेरेवेति । कशधातोरेव कशाशब्दो निष्पन्न इत्यर्थः । धात्वन्तरेति । प्रतिगतः कशां प्रतिकश इत्यत्र गभिं प्रत्येव प्रतिरुपसर्गः, नतु कशिं प्रति,यत्क्रियायुक्ताः प्रादयः॑ इति नियमादित्यर्थः ।

Tattvabodhini

प्रतिष्कशश्च कशेः - कशेरेव कशेति । कशधातोरेव कशाशब्दो निष्पन्न इत्यर्थः । धात्वन्तरेति ।प्रतिकशः॑इत्यत्र प्रतिर्गमेरुपसर्गो, न तु कशेः,यत्क्रियायुक्ताः प्रादयस्तं प्रत्येवे॑ति न्यायादिति भावः ।

Padamanjari

अत्र यद्यपीत्यादि। कशेरिति। यद्धातोरुपादानं तस्य नान्यत्प्रयोजनमिति भावः॥

Prakriyasarvasvam

प्रतिपूर्वास्य कशिधातोः पचाद्यचि प्रतिष्कशः स्यात् । स च दूतः सहायः पुरोगो वा ।