61144: अपरस्पराः क्रियासातत्ये¶
Padacheda: अपरस्पराः | S | 1 | 3 |
क्रियासातत्ये | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The word अपस्पराः is formed by the augment सुट् when the sense is that of ‘uninterrupted action’.
Vasu English Translation¶
The word अपस्पराः is formed by the augment सुट् when the sense is that of ‘uninterrupted action’. Karika
लुम्पेदवश्यमः कृत्ये तुंकाममनसोरपि । समो वा हितततयोर्मांसस्य पचियुड्घञोः ॥”
Thus अपरस्पराः सार्था गच्छन्ति = सन्ततमविच्छेदेन गच्छन्ति ॥ When the continuity of action is not meant, we have अपरपराः सार्था गच्छन्ति = अपरे परेच सकृदेव गच्छन्ति ॥ The सातत्य comes from सततं, by adding ष्यञ् to form the abstract noun, सततस्य भावः (5.1.123) = सातत्यं ॥ How do you explain सततम्, it ought to be सन्ततम् ? The म् of सम् is optionally elided before ततं, on the strength of the Karika:-“The म् of अवश्यम् is elided before a word ending in a kritya affix, the म् of तुम् is elided before काम and मनस्, the म् of सम् is elided optionally before हित and तत, the final अ of मांस is elided before पाक or पचन ॥ As (1) अवश्य कर्तव्यं = अवश्यकर्तव्यं, (2) भोक्तुम् कामः = भोक्तुम् कामः, श्रोतुमनः ॥ (3) सम्हितं = सहितं, सम् ततं = सततं ॥ (4) मांस् पाकः, मांस् पचनम् ॥
Bhashya¶
अपरस्पराः क्रियासातत्ये (2581) (सातत्यपदार्थबोधकभाष्यम्) किमिदं सातत्य इति ? सन्ततस्य भावः सातत्यम् । यद्येवं सांतत्ये इति भवितव्यम् ॥ (6252 सातत्यरूपसाधकवार्तिकम् ॥ 1 ॥) ?B- समो हितततयोर्वा लोपः - समो हितततयोर्वा लोपो वक्तव्यः । संहितम्, सहितम् । संततम्, सततम् ॥ (6253 मलोपसाधकवार्तिकम् ॥ 2 ॥) - सम्तुमुनोः कामे - सम्तुमुनोः कामे लोपो वक्तव्यः । सकामः । भोक्तुकामः ॥ (मलोपसाधकभाष्यम्) मनसि चेति वक्तव्यम् । समनाः । भोक्तुमनाः ॥ (6254 मलोपसाधकवार्तिकम् ॥ 3 ॥) - अवश्यमः कृत्ये - अवश्यमः कृत्ये लोपो वक्तव्यः । अवश्यभाव्यम् ॥
Kashika¶
अपरस्परा इति सुट् निपात्यते क्रियासातत्ये गम्यमाने। अपरस्पराः सार्था गच्छन्ति। सन्ततमविच्छेदेन गच्छन्तीत्यर्थः। क्रियासातत्य इति किम् ? अपरपराः सार्था गच्छन्ति । अपरे च परे च सकृदेव गच्छन्तीत्यर्थः। नात्र गमनस्य सातत्यं प्रबन्धो विवक्षितः। किमिदं सातत्यमिति ? सततस्य भावः सातत्यम्। कथं सततम् ? समस्तते विकल्पेन मकारलोपो विधीयते।
लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि।
समो वा हितततयोर्मांसस्य पचि युड्घञोः॥
Siddhanta Kaumudi¶
सुण्निपात्यते । अपरस्पराः सार्था गच्छन्ति । सततमविच्छेदेन गच्छन्तीत्यर्थः । क्रियेति किम् । अपरपरा गच्छन्ति । अपरे च परे च सकृदेव गच्छन्तीत्यर्थः ॥
Balamanorama¶
अपरस्पराः क्रियासातत्ये - अपरस्पराः । स्पष्टम् । गोष्पदम् । असेविते गोष्पदशब्दस्य वृत्त्यसंभवान्नञ्पूर्वकमुदाहरति — अगोष्पदानीति । गवां सञ्चारो यत्र नैव संभवति तत्रापि सुडिति भावः ।
Nyaas¶
अपरस्पराः इति। अपरे च परे चेति द्वन्द्वः। सन्ततशब्दाद्भावप्रत्यय उत्पन्ने सान्तत्यमिति भवितव्यमित्यभिप्रायेणाय -किमिदम् इत्यादि। सततशब्दादेवायं भावप्रत्य उत्पन्न इति दर्शयन्नाह -सततस्य भावः इत्यादि। कथं सततम् इति। एवं मन्यते -समो मकारलोपस्य लक्षणं तावदिह शास्त्रे नास्ति। अथ सातत्य इत्येतदेव निपातनम्, ततशब्दे परतः समो मकारस्य लोपो भविष्यतीत्यस्यार्थस्य ज्ञापनं कल्प्येत, एवं सति सन्ततमिति न सिध्यति? इत्यत आह -समस्तते विकल्पेन इत्यादि। अयमभिप्रायः -सातत्यशब्दं पूर्वाचार्यलक्षणप्रसिद्धमुच्चारयता पूर्वाचार्यलक्षणमप्याश्रितम्। अतस्तेन समो मकारस्यात्र लोपो विधीयते। एतञ्च कृत्वाऽवश्यम्प्रभृतीनामपि कृत्यादिषु लोपः सिद्धो भवति। अतस्तदेव पूर्वाचार्यलक्षणं दर्शयति -लुम्पेत् इत्यादि। अन्त्यमिति शेषः। अवश्यंशब्दस्य कृत्यप्रत्ययान्ते परतो लुम्पेत्? अन्त्यलोपमस्य कुर्यादित्यर्थः। अवश्यकर्तव्यम्। तुमुन्प्रत्ययान्तस्याप्यान्त्यं लुम्पेत्, काममनसोश्च शब्दयोः परतः -कर्त्तुं कामोऽस्येति कर्त्तुकामः, हर्त्तु मनोऽस्येति हर्त्तुमनाः। सम्शब्दस्य चान्त्यं लुम्पेद्विकल्पेन हिततयोः शब्दयोः परतः -सहितम्, सततम्, सन्ततम्। कुगतिप्रादयः (2.2.18) इति समासः। मांसशब्दस्यान्त्यं लुम्पेत्, क्व? पचि। डुपचष्? पाके (धातुपाठः-996) इत्येतस्मिन्? धातौ। किं विशिष्टे? युङ्घञोः इति। ल्युटि घञि च प्रत्यये परतो यः पचिस्तस्मिन्नित्यर्थः। अत्रापि वाग्रहणं सम्बध्यते। मांस्पचनम्, मांसपचनम्। मांस्पाकः, मांसपाकः। कृद्योगा च षष्ठी समस्यते (वा।86) इति समासः। समासेऽयं लोपः पूर्वाचार्याणामभिप्रायः, संहितायां च। तेन वाक्ये विच्छिद्यपाठे न भवति॥
Prakriyasarvasvam¶
अस्मिन् द्योत्ये अपरपरशब्दस्य सुट् । अत्रापि लिङ्गाद्यतन्त्रमिति टीकासर्वस्वे । अपरस्परान् सार्थान् पश्य । अपरस्परं प्रलपितम् । अविच्छेदेन प्रवृत्तमित्यर्थः ।
Sutra Prayogas¶
परिरब्धुकामः (रघुवंशम्): तुं काममनसोरपि इति वचनान्मकारलोपः।