61144: अपरस्पराः क्रियासातत्ये ============================== **Padacheda:** अपरस्पराः | S | 1 | 3 | क्रियासातत्ये | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The word अपस्पराः is formed by the augment सुट् when the sense is that of 'uninterrupted action'. Vasu English Translation ------------------------ The word अपस्पराः is formed by the augment सुट् when the sense is that of 'uninterrupted action'. *Karika* लुम्पेदवश्यमः कृत्ये तुंकाममनसोरपि । समो वा हितततयोर्मांसस्य पचियुड्घञोः ॥" Thus अपरस्पराः सार्था गच्छन्ति = सन्ततमविच्छेदेन गच्छन्ति ॥ When the continuity of action is not meant, we have अपरपराः सार्था गच्छन्ति = अपरे परेच सकृदेव गच्छन्ति ॥ The सातत्य comes from सततं, by adding ष्यञ् to form the abstract noun, सततस्य भावः (5.1.123) = सातत्यं ॥ How do you explain सततम्, it ought to be सन्ततम् ? The म् of सम् is optionally elided before ततं, on the strength of the *Karika*:-"The म् of अवश्यम् is elided before a word ending in a *kritya* affix, the म् of तुम् is elided before काम and मनस्, the म् of सम् is elided optionally before हित and तत, the final अ of मांस is elided before पाक or पचन ॥ As (1) अवश्य कर्तव्यं = अवश्यकर्तव्यं, (2) भोक्तुम् कामः = भोक्तुम् कामः, श्रोतुमनः ॥ (3) सम्हितं = सहितं, सम् ततं = सततं ॥ (4) मांस् पाकः, मांस् पचनम् ॥ Bhashya ------- अपरस्पराः क्रियासातत्ये (2581) (सातत्यपदार्थबोधकभाष्यम्) किमिदं सातत्य इति ? सन्ततस्य भावः सातत्यम् । यद्येवं सांतत्ये इति भवितव्यम् ॥ (6252 सातत्यरूपसाधकवार्तिकम् ॥ 1 ॥) ?B- समो हितततयोर्वा लोपः - समो हितततयोर्वा लोपो वक्तव्यः । संहितम्, सहितम् । संततम्, सततम् ॥ (6253 मलोपसाधकवार्तिकम् ॥ 2 ॥) - सम्तुमुनोः कामे - सम्तुमुनोः कामे लोपो वक्तव्यः । सकामः । भोक्तुकामः ॥ (मलोपसाधकभाष्यम्) मनसि चेति वक्तव्यम् । समनाः । भोक्तुमनाः ॥ (6254 मलोपसाधकवार्तिकम् ॥ 3 ॥) - अवश्यमः कृत्ये - अवश्यमः कृत्ये लोपो वक्तव्यः । अवश्यभाव्यम् ॥ Kashika ------- अपरस्परा इति सुट् निपात्यते क्रियासातत्ये गम्यमाने। अपरस्पराः सार्था गच्छन्ति। सन्ततमविच्छेदेन गच्छन्तीत्यर्थः। क्रियासातत्य इति किम् ? अपरपराः सार्था गच्छन्ति । अपरे च परे च सकृदेव गच्छन्तीत्यर्थः। नात्र गमनस्य सातत्यं प्रबन्धो विवक्षितः। किमिदं सातत्यमिति ? सततस्य भावः सातत्यम्। कथं सततम् ? समस्तते विकल्पेन मकारलोपो विधीयते। लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि। समो वा हितततयोर्मांसस्य पचि युड्घञोः॥ Siddhanta Kaumudi ----------------- सुण्निपात्यते । अपरस्पराः सार्था गच्छन्ति । सततमविच्छेदेन गच्छन्तीत्यर्थः । क्रियेति किम् । अपरपरा गच्छन्ति । अपरे च परे च सकृदेव गच्छन्तीत्यर्थः ॥ Balamanorama ------------ **अपरस्पराः क्रियासातत्ये** - अपरस्पराः । स्पष्टम् । गोष्पदम् । असेविते गोष्पदशब्दस्य वृत्त्यसंभवान्नञ्पूर्वकमुदाहरति — अगोष्पदानीति । गवां सञ्चारो यत्र नैव संभवति तत्रापि सुडिति भावः । Nyaas ----- `अपरस्पराः` इति। अपरे च परे चेति द्वन्द्वः। सन्ततशब्दाद्भावप्रत्यय उत्पन्ने सान्तत्यमिति भवितव्यमित्यभिप्रायेणाय -`किमिदम्` इत्यादि। सततशब्दादेवायं भावप्रत्य उत्पन्न इति दर्शयन्नाह -`सततस्य भावः` इत्यादि। `कथं सततम्` इति। एवं मन्यते -समो मकारलोपस्य लक्षणं तावदिह शास्त्रे नास्ति। अथ सातत्य इत्येतदेव निपातनम्, ततशब्दे परतः समो मकारस्य लोपो भविष्यतीत्यस्यार्थस्य ज्ञापनं कल्प्येत, एवं सति सन्ततमिति न सिध्यति? इत्यत आह -`समस्तते विकल्पेन` इत्यादि। अयमभिप्रायः -सातत्यशब्दं पूर्वाचार्यलक्षणप्रसिद्धमुच्चारयता पूर्वाचार्यलक्षणमप्याश्रितम्। अतस्तेन समो मकारस्यात्र लोपो विधीयते। एतञ्च कृत्वाऽवश्यम्प्रभृतीनामपि कृत्यादिषु लोपः सिद्धो भवति। अतस्तदेव पूर्वाचार्यलक्षणं दर्शयति -`लुम्पेत्` इत्यादि। अन्त्यमिति शेषः। अवश्यंशब्दस्य कृत्यप्रत्ययान्ते परतो लुम्पेत्? अन्त्यलोपमस्य कुर्यादित्यर्थः। अवश्यकर्तव्यम्। तुमुन्प्रत्ययान्तस्याप्यान्त्यं लुम्पेत्, काममनसोश्च शब्दयोः परतः -कर्त्तुं कामोऽस्येति कर्त्तुकामः, हर्त्तु मनोऽस्येति हर्त्तुमनाः। सम्शब्दस्य चान्त्यं लुम्पेद्विकल्पेन हिततयोः शब्दयोः परतः -सहितम्, सततम्, सन्ततम्। **कुगतिप्रादयः** (2.2.18) इति समासः। मांसशब्दस्यान्त्यं लुम्पेत्, क्व? पचि। `डुपचष्? पाके` (धातुपाठः-996) इत्येतस्मिन्? धातौ। किं विशिष्टे? `युङ्घञोः` इति। ल्युटि घञि च प्रत्यये परतो यः पचिस्तस्मिन्नित्यर्थः। अत्रापि वाग्रहणं सम्बध्यते। मांस्पचनम्, मांसपचनम्। मांस्पाकः, मांसपाकः। `कृद्योगा च षष्ठी समस्यते` (वा।86) इति समासः। समासेऽयं लोपः पूर्वाचार्याणामभिप्रायः, संहितायां च। तेन वाक्ये विच्छिद्यपाठे न भवति॥ Prakriyasarvasvam ----------------- अस्मिन् द्योत्ये अपरपरशब्दस्य सुट् । अत्रापि लिङ्गाद्यतन्त्रमिति टीकासर्वस्वे । अपरस्परान् सार्थान् पश्य । अपरस्परं प्रलपितम् । अविच्छेदेन प्रवृत्तमित्यर्थः । Sutra Prayogas -------------- * **परिरब्धुकामः** (रघुवंशम्): `तुं काममनसोरपि` इति वचनान्मकारलोपः।