61143: कुस्तुम्बुरूणि जातिः

Padacheda: कुस्तुम्बुरूणि | S | 1 | 3 |

जातिः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The word कुस्तुम्बुरु is irregularly, formed with the augment सुट् and means ‘a species of herb’.

Vasu English Translation

The word कुस्तुम्बुरु is irregularly, formed with the augment सुट् and means ‘a species of herb’. The कुस्तुम्बुरु is the name of coriander - i. e. धान्यकं; the seeds are also so called. The exhibition of the word in the sutra in the Neuter gender does not however show that the word is always Neuter. When not meaning coriander, the form is कुतुम्बुरु (कुत्सितानि तुम्बुरूणि) ॥ The word तुम्बुरु here means the fruit of the ebony tree.

Kashika

कुस्तुम्बुरूणीति सुट् निपात्यते, जातिश्चेद् भवति। कुस्तुम्बुरुर्नामौषधि — जातिर्धान्यकम् । तत्फलान्यपि कुस्तुम्बुरूणि। सूत्रनिर्देशे नपुंसकलिङ्गमविवक्षितम्। जातिरिति किम् ? कुत्सितानि तुम्बुरूणि कुतुम्बुरूणि। तुम्बुरुशब्देनात्र तिन्दुकीफलान्युच्यन्ते, समासेन तेषां कुत्सा॥

Siddhanta Kaumudi

अत्र सुण्निपात्यते । कुस्तुम्बुरु धान्याकम् । क्लीबत्वमतन्त्रम् । जातिः किम् । कुतुम्बुरूणि । कुत्सितानि तिन्दुकीफलानीत्यर्थः ॥

Balamanorama

कुस्तुम्बुरूणि जातिः - अथ ‘सुट् कात्पूर्वः’ इत्यतः सुडित्यनुवृत्तौ कतिचित्सूत्राणि व्याख्यातुमुपक्रमते-कुस्तुम्बुरूणि । अत्रेति । जातिविशेषे वाच्ये कुस्तुम्बुरुशब्दः ससुट्को निपात्यत इत्यर्थः । कुस्तुम्बुरुर्धान्याकमिति । गुल्मविशेषे प्रसिद्धः । क्लीबत्वमतन्त्रमिति । अविवक्षितमित्यर्थः । वचनमप्यतन्त्रमिति बोध्यम् । कुतुम्बुरूणीति । धान्याकजातिवाचकत्वाऽभावान्न सुडिति भावः । तदाह — कुत्सितानि तिन्दुकीफलानीत्यर्थ इति तुम्बुरुशब्दस्य तिन्दुकवाचकत्वे कोशो मृग्यः ।

Padamanjari

अपरस्परा इति। अपरे च परे चेति द्वन्द्वः, निपा तनादल्पाच्तरस्य परनिपातः। सार्था गच्छन्तीति। सार्थभूता गच्छन्तीत्यर्थः। सततमविच्छेदेनेति। न कदाचिदस्मिन् महापथे गमनं विच्छिद्यत इत्यर्थः। अयं चार्थः सुटा द्योत्यते। किमिदमिति। ठस्मादेव निपातनान् मलोपःऽ इत्युच्यमाने सततमिति न सिद्धयति, सूत्रे’प्यञन्तोच्चारणादिति प्रश्नः। कथमिति मलोपस्य लक्षणं न दृश्यते। अथ’सातत्ये’ इत्येतदेव निपातनं सामान्येन ततशब्दे परतः समो मकारस्य लोपो भवतीत्यस्यार्थस्य ज्ञापकं कल्प्यते, सन्ततमिति न सिद्ध्येत्, बाधकत्वान्निपातनानामिति मन्यमानस्य प्रश्नः। समस्तते विकल्पेनेति। अयमभिप्रायः - सातत्यशब्दं पूर्वाचार्यलक्षणसिद्धमुच्चारयता पूर्वाचार्यलक्षणमाश्रितम्, अतस्तेन समो मकारस्य लोपो विधीयत इति एवञ्च कृत्वावश्यंप्रभृतीनामपि कृत्यादिषु मकारलोपः सिद्धो भवति, तदेव पूर्वाचार्यलक्षणं पठन्ति -लुम्पेदित्यादि। अन्त्यमिति शेषः। कृत्यप्रत्ययान्ते परतो’ वश्यंशब्दस्यान्त्यं लुम्पेत्, लोपमस्य कुर्यादित्यर्थः।’शे मुचादीनाम्’ इति नुम्। अवश्यकार्यमित्युदाहरणम्। तुमिति वृतभङ्गभयात्षष्ठी न कृता। तुम्प्रत्ययान्तस्यान्त्यं लुम्पेत्, काममनसोः शब्दयोः परतः -कर्तु कामोऽस्य कर्तुकामः, कर्तुं मनोऽस्य कर्तुमनाः, तुमप्यत्रोपसंख्यायते, अक्रियोपपदत्वादित्याहुः। संशब्दस्यान्त्यं लुम्पेत्, वाउविकल्पेन, हिततयोः शब्दयोः परतः -सहितम्, संहितम्, सततम्, संततम्। नगिसमासः। मांसशब्दस्याप्यन्त्यं लुम्पेत्, क्व? पचि, पचतिधातौ। किंविशिष्टे ? युड्घञोः, युटि घञि च परतो यः पचिस्तस्मिन्नित्यर्थः, मास्पचनम्, मास्पाकः, कर्मणि षष्ठयाः समासः। संहितायां समासे चैष मलोप इत्याहुः। अथ सन्ततशब्दात् प्यञ् भवति वा न वा सान्तत्यमिति, तेत्याहुः ॥ गोष्पदं सेवितासेवितप्रमाणेषु ॥ गावः पद्यन्तेऽस्मिन्निति।’पुंसि संज्ञायाम्’ इत्यधिकरणे घः, कर्तरि षष्ठ।ल समासः। अगोष्पदान्यरण्यानीति। ननु च सूत्रे गोष्पदशब्द उपातः, तत् किमिदम्? इत्यत आह -असेवित इत्यादि। क्रियते चेदमसेवितग्रहणम्, न च तत्र गोष्पदशब्दः सम्भवति, तस्मादसेविते गोष्पदशब्दार्थनिपातनं विज्ञायते। नार्थ एतेनेति। असेवितग्रहणेन। कथं तेन विना सिद्धिः ? तत्राह -गोष्पदप्रतिषेधादिति। सत्यमिति। गोष्पदप्रतिषेधादिति यदुक्तम्, तत् सत्यं मन्यते, न तु नार्थ एतेनेति। तद् यदि सत्यम्, किमर्थं तर्ह्यसेवितग्रहणम् ? इत्याह -यत्र त्विति। नञ्समासो हि तत्पुरुषः स्वभावादुतरपदार्थसदृशमर्थमाचष्टे-अब्राह्मणवत्, ततश्च न गोष्पदमगोष्पदमिति नञ्समासे कृते यत्र सेवितस्य सेवनस्य प्रसङ्गोऽस्ति, तत्रैवागोष्पदमिति स्यात्, स एव गोष्पद स्य देशस्य सदृशः; यत्र त्वत्यन्तास्म्भव एव सेवितस्य तत्र न स्यात्। असेवित ग्रहणसामर्थ्यातु बहुव्रीहिराश्रीयते, स चात्यन्ताभावेऽपि भवति। तेन येषु गवामत्यन्तासम्भवः, तान्यरण्यान्यासेवितशब्देनोच्यन्ते। ततश्च तत्राप्यगोष्पदमिति भवति। अत्यन्तासम्भवं स्पष्टयति -यानि हि महान्त्यरण्यानीति। तत्र केचिदाहुः -यत्र गवामत्यन्तासम्भवः, तत्रैवागोष्पदशब्दः प्रयोक्तव्यः, न त्वसम्भव इति। अन्ये त्वविशेषेणेच्छन्ति। न चैवमसेवितग्रहणस्य वैयर्थ्यम्, असति ह्यस्मिन्नत्यन्तासम्भवे न स्यात्। गोष्पदपूरमिति।’वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्’ इति णमुल्। ननु च गोष्पदमिति षष्ठीसमासोऽयम्, तस्य गोः सम्बन्धि पदमर्थः, न तु प्रमाणम्? तत्राह -नात्र गोष्पदं स्वार्थप्रतिपादनार्थमुपादीयत इति। तथा च गोष्पदपूरं वृष्टे देव इति। असत्यपि गोष्पदपूरणे प्रयुज्यते, यथा -चेलक्नोपं वृष्टो देव इत्यसत्यपि चेलक्रोपे ॥

Nyaas

ननु च सूत्रे नपुंसकलिङ्गेन निर्देशान्नपुंसकलिङ्गतायां फलजातावेव भवितव्यम्, नान्यलिङ्गतायाम्, औषधजातौ बहुवचन एव भवितव्यम्, नान्यत्र, बहुवचनेन निर्देशात्; तत्? कथं कुस्तुम्बुवरित्यत्र पुल्लिङ्गतयामेकवचने च भवति? इत्यत आह -सूत्रनिर्देशे इत्यादि। नपुंसकग्रहणमुपलक्षणमात्रम्। बहुवचनमपि ह्रतन्त्रमेव सूत्रे। तथा चोक्तम् -सूत्रे [सूत्रनिर्देशे नपुंसकलिङ्गमविवक्षितम् -काशिका। पदमंजरी च] लिङ्गवचनमतन्त्रम्? `तस्याविवक्षितत्वात् [नास्ति -काशिका] इति॥

Prakriyasarvasvam

क्लीबत्वं बहुत्वं चातन्त्रम् । *कुस्तुम्बुरुरित्योपधिजातिर्निपात्यते ।