61142: अपाच्चतुष्पाच्छकुनिष्वालेखने¶
Padacheda: अपात् | S | 5 | 1 |
चतुष्पात्-शकुनिषु | S | 7 | 3 |
आलेखने | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The augment सुट् is placed before क , when the verb कृ comes after अप and the sense is ‘the scraping of earth by four-footed animals or birds’.
Vasu English Translation¶
The augment सुट् is placed before क , when the verb कृ comes after अप and the sense is ‘the scraping of earth by four-footed animals or birds’. Thus अपस्किरते वृषभो हृष्टः, अपस्किरते कुक्कुटो भक्ष्यार्थी; अपस्किरते श्वा आश्रयार्थी = आलिख्य विक्षिपति ॥ Why do we say ‘four-footed animals or birds’? Observe अपकिरति देवदत्तः ॥
Vart:- This rule applies when the scraping is through pleasure, or for the sake of finding food, or making a resting place. Therefore not here:- अपकिरति श्वा ओदनपिण्डमाशितः ॥ And it is in the above senses of scraping through pleasure &c, that the root takes Atmanepada affixes; otherwise the Parasmaipada affixes will follow. See (1.3.21). Vartika
Bhashya¶
अपाच्चतुष्पाच्छकुनिष्वालेखने (2579) (6251 अर्थोपसंख्यानवार्तिकम् ॥ 1 ॥) - किरतेर्हर्षजीविकाकुलायकरणेषु - किरतेर्हर्षंजीविकाकुलायकरणेष्विति वक्तव्यम् । अपस्किरते वृषो हृष्टः । अपस्किरते कुक्कुटो भक्षार्थी । अपस्किरते श्वाऽऽश्रयार्थी ॥
Kashika¶
किरतावित्येव। अपादुत्तरस्मिन् किरतौ चतुष्पाच्छकुनिषु यदालेखनं तस्मिन् विषये सुट् कात् पूर्वो भवति। अपस्किरते वृषभो हृष्टः। अपस्किरते कुक्कुटो भक्ष्यार्थी। अपस्किरते श्वा आश्रयार्थी। आलिख्य विक्षिपतीत्यर्थः। चतुष्पाच्छकुनिष्विति किम्? अपकिरति देवदत्तः॥ हर्षजीविकाकुलायकरणेष्विति वक्त व्यम्॥ इह मा भूत् — अपकिरति श्वा ओदनपिण्डमाशितः। हर्षजीविकाकुलायकरणेष्वेव किरतेरात्मनेपदस्योपसंख्यानम् (१.३.२१ वा०)॥
Siddhanta Kaumudi¶
अपात्किरतेः सुट् स्यात् ।<!सुडपि हर्षादिष्वेव वक्तव्यः !> (वार्तिकम्) ॥ अपस्किरते वृषो हृष्टः । कुक्कुटो भक्षार्थी । श्वा आश्रयर्थी च । हर्षादिषु इति किम् । अपकिरति कुसुमम् । इह तङ्सुटौ न । हर्षादिमात्रविवक्षायां यद्यपि तङ् प्राप्तस्तथापि सुडभावे नेष्यते इत्याहुः । गजोऽपकिरति ।<!आङि नुप्रच्छ्योः !> (वार्तिकम्) ॥ आनुते । आपृच्छते ।<!शप उपालम्भे !> (वार्तिकम्) ॥ आक्रोशार्थात्स्वरितेतोऽकर्तृगेऽपि फले शपथरूपेऽर्थे आत्मनेपदं वक्तव्यमित्यर्थः । कृष्णाय शपते ॥
Balamanorama¶
अपाच्चतुष्पाच्छकुनिष्वालेखने - अपाच्चतुष्पात् । ‘सुट्कात्पूर्वः’ इत्यधिकृतम् । ‘किरतौ लवने’ इत्यतः किरतावित्यनुवर्तते । तदाह -अपात्किरतेः सुट् स्यादिति । चतुष्पात्सु शकुनिषु च गम्येष्वित्यपि ज्ञेयम् । आलेखनं = खननम् ।सुडपि हर्षादिष्वेवे॑ति - वार्तिकम् । अपस्किरते वृषो ह्मष्ट इति । हर्षाद्भूमिं लिखन् धूल्यादि विक्षिपतीत्यर्थः । कुक्कुटो भक्षार्थीति । ‘अपस्किरते’ इत्यनुषज्यते । आआ आश्रयार्थीति । ‘अपस्किरते’ इत्यनुषज्यते । अपकिरति कुसुममिति ।वृषादि॑रिति शेषः । ह्यियमाणो वृषादिः पादैः कुसुममवकिरतीत्यर्थः । अत्र हर्षाद्यभावान्नात्मनेपदम्, नापि सुट् । तदाह — इह तङ्सुटौ नेति । ननुअपस्किरते वृषो ह्मष्ट॑ इत्याद्युदादहरणत्रये यदि हर्षजीविकाकुलायकरणान्येव विवक्षितानि न त्वासेखनमपि, तदा तङेव स्यान्न तु सुडित्यत आह - हर्षादिमात्रेत्यादि । आलेखनाऽभावेऽपीत्यर्थः । नेष्यते इति ।करितेर्षर्षजीविके॑त्यात्मनेपदविधौ ससुक्टानामेव भाष्ये उदाहरणादिति भावः । भाष्यस्थान्युदाहरणान्यालेखनविषयाण्येव भविष्यन्तीत्यस्वरसं सूचयति - आहुरिति । गजोऽपकिरतीति । स्वभावाख्यानमत्रेति भावः । ‘आङि नुप्रच्छ्यो’ रिति वार्तिकम् । आनुते इति । सृगाल इति भाष्यम् । सृगाल उत्कण्ठ#आपूर्वकं शब्दं कोरतीत्यर्थ इति कैयटः । ननु ‘शप आक्रोशे’ इत्यस्य स्वरितेत्त्वादेव सिद्धे ‘शप उपालम्भे’ इत्यात्मनेपदविधिव्र्यर्थ इत्यत आह — आक्रेशार्थादिति । ‘शप आक्रोशे’ इति स्वरितेतः कर्तृगामिन्येव फले आत्मनेपदं प्राप्तम्, अकर्तृगेऽपि फले शपथात्मकनिन्दाविशेषे विद्यमानात्तस्मात् शपधातोरात्मनेपदार्थमिदमित्यर्थः । कृष्णाय शपते इति ।श्लाघह्नुङ्स्थाशपा॑ मिति संप्रदानत्वाच्चतुर्थी ।
Tattvabodhini¶
अपाच्चतुष्पाच्छकुनिष्वालेखने - * गचोऽपकिरतीति । अत्र हर्षे सत्यपि आलेखनाऽभावात् सुटोऽप्राप्तिः । * शप उपालम्भे । कृष्णाय शपते इति ।श्लाघह्नु॑ ङिति संप्रदानसंज्ञा ।नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः ! शपामि यदि किंचिदपि स्मरामी॑त्यत्र तु स्वाशयं प्रकाशयामीत्यर्थो विवक्षितो न तु शपथ इति न तङित्याहुः ।
Padamanjari¶
तस्मिन्विषय इति। न त्वभिधेये। विक्षेप एव त्वभिधेयः, तदारह - आलिख्य विक्षिपतीत्यर्थ इति। हर्षजीविकेत्यादि। हर्षःउप्रमोदः, जीविकाउप्राणपरित्राणोपायः, कुलायःउआश्रयः। किं पुनरुदाहरण एवात्मनेपदं भवति, न प्रत्युदाहरणे? अत आहहर्षजीविकेत्यादि ॥
Nyaas¶
तस्मिन्? विषये इत्यादि। अनेनाप्यालेखनं किरतेर्नाभिधेयतया विशेषणम्, अपि तु तदर्थस्य विषयभावेनेति दर्शयति। अपस्किरते इति। तुदादिभ्यः शः (3.1.77) इति शः, पूर्ववदित्वं रपत्वम्। आलिख्य इत्यादिना लेखनस्य किरत्यर्थस्य विषयतामुद्भावयति। आलिख्येति आकृष्येत्यर्थः। चतुष्पाच्छकुनिसाधनस्य लेखनस्य सामान्येनोपादानादिहापि प्राप्नोति -अपकिरति आऔदनपिण्डमाशित इति, अत इदमालेखनविशेषणमाह -हर्षजीविका इत्यादि। हर्षः=प्रमोदः। जीविका=प्राणधारणोपायः। कुलायः=आश्रमः। किं पुनः कारणं हर्षादष्वात्मनेपदं भवति, न त्विह प्रत्युदाहरणे? इत्याह -हर्षजीविकाकुलायकरणेष्वेव इत्यादि।
Vartika¶
किरतेर्हर्षजीविकाकुलायकरणेषु ।
Sutra Prayogas¶
शृङ्गैरपस्कीर्णमहत्तटीभुवाम (शिशुपालवधम्): अपाच्चतुष्पाच्छकुनिष्वालेखने इति किरतेः कात्पूर्वतः सुडागमः।