61141: हिंसायां प्रतेश्च¶
Padacheda: हिंसायाम् | S | 7 | 1 |
प्रतेः | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The augment सुट् is placed before क , when the verb कृ comes after उप and प्रति and the sense ‘to cause suffering’.
Vasu English Translation¶
The augment सुट् is placed before क , when the verb कृ comes after उप and प्रति and the sense ‘to cause suffering’. Thus उपस्कीर्णम् or प्रतिस्कीर्णं हन्त ते वृषल भूयात् = तथा ते वृषल विक्षपो भूयाद् यथा हिंसामनुबध्नाति ॥
Why do we say when ‘the sense is to cause pain’? Observe प्रतिकीर्णम् ॥
Kashika¶
किरतावित्येव। उपात् प्रतेश्चोत्तरस्मिन् किरतौ सुट् कात् पूर्वो भवति हिंसायां विषये। उपस्कीर्णं हं ते वृषल भूयात्। प्रतिस्कीर्णं हं ते वृषल भूयात्। तथा ते वृषल विक्षेपो भूयाद् यथा हिंसामनुबध्नातीत्यर्थः। हिंसायामिति किम् ? प्रतिकीर्णम्॥
Siddhanta Kaumudi¶
उपात्प्रेतश्च किरतेः सुट् स्याद्धिंसायाम् । उपस्किरति । प्रतिस्किरति ।{$ {!1410 गॄ!} निगरणे$} ॥
Laghu Siddhanta Kaumudi¶
उपात्प्रतेश्च किरतेः सुट् स्यात् हिंसायाम्। उपस्किरति। प्रतिस्किरति॥ {$ {! 40 गॄ !} निगरणे $} (धातुपाठे (06.0146))॥
Balamanorama¶
हिंसायां प्रतेश्च - हिंसायां प्रतेश्च । चकारादुपादिति समुच्चीयते । तदाह - उपादिति । गृ निगरणे इति । निगरणं - भक्षणम् । सेट् ।
Tattvabodhini¶
हिंसायां प्रतेश्च - हिंसायां प्रतेश्च । चादुपात् ।उरोविदारं प्रतिचस्करे नखै॑रिति माघः । कर्मणि लिट् ।ऋच्छत्यृता॑मिति गुणः ।
Nyaas¶
हिंसायां विषये इति। एतेन किरतेर्नाभिधेयत्वेन हिंसा विशेषणम्। अपि तु तदर्थस्य विषयभावेनेति दर्शयति। प्रतिस्कीर्णम् इति। ऋत इद्धातोः (7.1.100) इतीत्त्वम्, रपरत्वञ्च, रदाभ्याम् (8.2.42) इत्यादिना निष्ठानत्वम्, हलि च (8.2.77) इती दीर्घत्वम्। तथा इत्यादिना किरतेरर्थस्य हिंसाविषयतां दर्शयति। अनुबध्नाति इति। अनुगच्छतीत्यर्थः॥
Prakriyasarvasvam¶
उपात् प्रतेश्च किरतौ परे हिंसार्थे सुट् स्यात् । उपस्करति सिंहो नरम् । भूमौ विक्षिप्य हिनस्तीत्यर्थः । हिंसामात्रेऽप्यस्ति । एवं प्रतिष्किरति । प्रतेः सुटः ‘उपसर्गाद्’ सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् (८-३-६४) इति षत्वमिति माधवः । परिनिविभ्य एव षत्वं न प्रतेरिति हरः । प्रतिस्किरति ।
Sutra Prayogas¶
प्रतिचस्किरे (शिशुपालवधम्): हिंसायां प्रतेश्च इति सुडागमः।