61134: सोऽचि लोपे चेत् पादपूरणम्¶
Padacheda: सः | S | 1 | 1 | 6
अचि | S | 7 | 1 |
लोपे | S | 7 | 1 |
चेत् | S | 0 | 0 |
पादपूरणम् | S | 1 | 1 |
Sutrartha¶
‘सः’ इत्यत्र विद्यमानस्य सुँ-प्रत्ययस्य संहितायाम् अचि परे पादपूरणार्थं लोप: भवति, यदि तादशम् एव पादपूरणम् सम्भवति ।
पद्यवाङ्मये (वेदानाम् ऋक्षु, लौकिकसंस्कृतस्य श्लोकेषु) अक्षराणि प्रायेण विशिष्टेषु छन्दस्सु निबद्धानि सन्ति । प्रत्येकं छन्दसः विशिष्टाः नियमाः सन्ति । एतेषाम् नियमानाम् पूरणार्थम् यदि कश्चन अन्यः पर्यायः नास्ति, तर्हि ‘सः’ शब्दस्य सुँ-प्रत्ययस्य लोपं कृत्वा पादपूरणम् कर्तुं शक्यते — इति अस्य सूत्रस्य अर्थः । वेदानाम् ऋक्षु (कुत्रचित् लौकिकसंस्कृतस्य श्लोकेषु अपि), यदि अच्-वर्णे परे ‘तद्’ शब्दस्य पुंलिङ्गस्य प्रक्रियायाम् ‘सुँ’ प्रत्ययस्य लोपेन एव पादपूरणम् सम्भवति, तर्हि प्रकृतसूत्रस्य आधारेण सः लोपः कर्तव्यः इति अस्य आशयः । कानिचन उदाहरणानि एतानि — <hlb>1. ऋग्वेदे 1.32.15 —</hlb> <karika> इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः । सेदु राजा क्षयति चर्षणीनामरान्न नेमिः परि ता बभूव ॥ </karika> इयम् ऋक् त्रिष्टुप् नाम्नि छन्दसि निबद्धा अस्ति । अत्र द्वितीयपङ्क्तेः प्रथमपादस्य “सः इत् ऊँ राजा क्षयति चर्षणीनाम्” इति पदविग्रहः वर्तते । संहितायाम् “तद् + सुँ + इदु” इत्यत्र सामान्यं सन्धिकार्यं क्रियते चेत् एतादृशी प्रक्रिया भवेत् —
तद् + सुँ + इदु
→ सद् + सुँ + इदु [**तदोः सः सावनन्त्ययोः** (7.2.106) इति सकारः]
→ सअ + सुँ + इदु [**त्यदादीनामः** (7.2.102) इति अकारः]
→ स + सुँ + इदु [**अतो गुणे** (6.1.97) इति गुणैकादेशः]
→ स + रुँ + इदु [**ससजुषो रुः** (8.2.66) इति रुत्वम्]
→ स + य् + इदु [**भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इति यकारादेशः]
→ स इदु [**लोपः शाकल्यस्य** (8.3.19) इति यलोपः । अस्य असिद्धत्वात् अग्रे **आद्गुणः** (6.1.87) इति गुणैकादेशः न सम्भवति ।]
अनेन प्रकारेण “स इदु राजा क्षयति चर्षणीनाम्” इति सिद्ध्येत् । परन्तु तथा क्रियते चेत् त्रिष्टुप्-छन्दसः नियमस्य भङ्गः भवति । त्रिष्टुप्-छन्दसि प्रत्येकं पादे आहत्य 11 अक्षराणि एव सन्ति । अतः तां सङ्ख्यां प्राप्तुम् अस्मिन् पादे “तद् + सुँ + इत्” इत्यत्र प्रकृतसूत्रेण सुँ-प्रत्ययस्य लोपः क्रियते —
तद् + सुँ + इदु
→ सद् + सुँ + इदु [**तदोः सः सावनन्त्ययोः** (7.2.106) इति सकारः]
→ सअ + सुँ + इदु [**त्यदादीनामः** (7.2.102) इति अकारः]
→ स + सुँ + इदु [**अतो गुणे** (6.1.97) इति गुणैकादेशः]
→ स + इदु [**सोऽचि लोपे चेत् पादपूरणम्** (6.1.134) इति पादपूरणार्थम् सुँ-प्रत्ययस्य लोपः]
→ सेदु [**आद्गुणः** (6.1.87) इति गुणैकादेशः]
एतादृशे लोपे कृते पादपूरणम् (छन्दसः अक्षराणाम् नियमस्य पालनम्) भवति, अतः अयं लोपः अत्र प्रकृतसूत्रेण कर्तुं शक्यते, इति आशयः । <hlb>2. ऋग्वेदे 8.43.9 —</hlb> <karika> अप्स्वग्ने सधिष्टव । सौषधीरनु रुध्यसे । गर्भे सञ्जायसे पुन: ॥ </karika> इयम् ऋक् गायत्री नाम्नि छन्दसि निबद्धा अस्ति । अस्मिन् छन्दसि विद्यामानासु ऋक्षु त्रयः पादाः सन्ति, प्रत्येकं पादे अष्ट अक्षराणि आवश्यकानि वर्तन्ते । अस्याः सङ्ख्याः पूरणार्थम् अत्र द्वितीयपादे “तद् + सुँ + ओषधीः” इति स्थिते प्रकृतसूत्रेण सुँलोपः भवति, ततश्च वृद्ध्येकादेशं कृत्वा “सौषधी “ इति शब्दः सिद्ध्यति । <hlb>3. ऋग्वेदे 2.24.1 —</hlb> <karika> सेमामविड्ढि प्रभृतिं य ईशिषेऽया विधेम नवया महा गिरा । यथा नो मीढ्वान्त्स्तवते सखा तव बृहस्पते सीषधः सोत नो मतिम् ॥ </karika> इयम् ऋक् जगती नाम्नि छन्दसि निबद्धा अस्ति । अस्मिन् छन्दसि विद्यामानासु ऋक्षु चत्वारः पादाः सन्ति, प्रत्येकं पादे द्वादश अक्षराणि आवश्यकानि वर्तन्ते । अस्याः सङ्ख्याः पूरणार्थम् अत्र प्रथमपा “तद् + सुँ + इमाम्” इति स्थिते प्रकृतसूत्रेण सुँलोपः भवति, ततश्च गुणैकादेशं कृत्वा “सेमाम् “ इति शब्दः सिद्ध्यति । **अस्य सूत्रस्य प्रयोगः प्रामुख्येण ऋग्वेदस्य ऋचाम् विषये एव प्रवर्तते इति काशिकाकारस्य मतम् अस्ति । परन्तु अनेके वैयाकरणाः लौकिकसंस्कृते अपि अस्य प्रयोगम् अनुमन्यन्ते । ** यथा, अधोदत्ते श्लोके अनुष्टुप्-छन्दसः नियमपालनार्थम् (प्रत्येकं पादे अष्टानाम् अक्षराणाम् सिद्ध्यर्थम् इत्याशयः) सर्वत्र ‘सः एषः’ इत्यस्य स्थाने सुँलोपं कृत्वा, ततः गुणैकादेशे कृते ‘सैषः’ इति शब्दः प्रयुक्तः दृश्यते — <karika> सैष दाशरथी रामः सैष राजा युधिष्ठिरः । सैष कर्णो महादानी सैष भीमो महाबलः ॥ </karika>
सूत्रे अचिग्रहणम् विस्पष्टार्थम्
अस्मिन् सूत्रे ‘अचि’ इति शब्दः प्रयुक्तः अस्ति । अस्य सूत्रस्य प्रसक्तिः केवलम् अच्-वर्णे परे एव सम्भवति इति ज्ञापयितुम् अत्र ‘अचि’ इति पदं स्वीकृतम् वर्तते । परन्तु, यदि अग्रे अच्-वर्णस्य स्थाने हल्-वर्णः स्यात्, तर्हि एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6.1.132) इत्यनेनैव सूत्रेण सुँप्रत्ययस्य लोपः सम्भवति । अतः प्रकृतसूत्रम् केवलम् अच्-वर्णे परे एव प्रयोक्तुम् शक्यम्, इति निर्णयः । अस्यां स्थितौ अत्र ‘अचि’ इति पदग्रहणस्य न किमपि प्रयोजनम् । अतएव काशिकाकारेण अचीति विस्पष्टार्थम् (only used for more clarity) इति प्रयोजनम् स्पष्टीकृतम् अस्ति ।
अवधारणार्थम् पूर्वसूत्रात् ‘बहुलम्’ शब्दस्य अनुवृत्तिः
यदि पादपूरणार्थम् आवश्यकं वर्तते, तर्हि एव अस्य सूत्रस्य प्रयोगः करणीयः — इति अवधारणम् कर्तुम् अस्मिन् सूत्रे पूर्वस्मात् सूत्रात् ‘बहुलम्’ इति शब्दः ‘एव’ इत्यस्मिन् अर्थे अनुवृत्तिरूपेण स्वीक्रियते, सः च “चेत्” इति शब्देन सह अन्वेति । पादपूरणम् चेत् बहुलं (= एव ) लोपः **— इति अत्र आशयः अस्ति । इत्युक्ते, कविः आदौ अन्यपद्धत्या पादपूरणं कर्तुं यत्नं कुर्यात्, परन्तु तादृशे यत्ने कृते अपि यदि पादपूरणम् न सम्भवति, तर्हि एव प्रकृतसूत्रस्य साहाय्यं स्वीकर्तुं शक्यते — इति अत्र आशयः अस्ति । अतश्च बहुषु स्थलेषु अस्य सूत्रस्य प्रयोगं विना अपि नियमितरूपेण सन्धिकार्यं कृत्वा श्लोकरचना कृता दृश्यते । यथा, रघुवंशे 1.5 इत्यत्र — <karika> सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम्। आसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ॥ </karika> अत्र “सः अहम्” इत्यत्र सुँ-प्रत्ययस्य रुत्व-उत्व-गुण-पूर्वरूपं कृत्वा एव पादपूरणम् कृतम् अस्ति । अत्र प्रकृतसूत्रम् पादपूरणार्थम् न हि आवश्यकम्, अतः तस्य प्रयोगः अपि न क्रियते । अस्यैव निर्देशार्थम् सिद्धान्तकौमुद्याम् “लोपे सत्येव पूर्येत” इति प्रकारेण अस्य सूत्रस्य अर्थः उच्यते । अत्र प्रयुक्तः ‘सत्येव’ इति शब्दः **स्यश्छन्दसि बहुलम् (6.1.133) इत्यस्मात् पूर्वसूत्रात् ‘बहुलम्’ इति शब्दस्य अनुवृत्तेः अर्थं स्पष्टीकरोति ।
Sutrartha (English)¶
The सुँ-प्रत्यय of सः gets removed when followed by an अच्, provided that (only) by doing so, the पाद can be completed.
Vasu English Summary¶
The case affix of सस् ‘he’, is elided before a vowel, if by such elision the meter of the foot becomes complete.
Vasu English Translation¶
The case affix of सस् ‘he’, is elided before a vowel, if by such elision the meter of the foot becomes complete. Karika
सैष दाशरथी रामः, सैष राजा युधिष्ठिरः॥ सैष कर्णो महात्यागी सैष भीमो महाबलः ॥
Thus सेदु राजा क्षयति चर्षणीनाम् (Rig I.32.15) सौषधीरनुरुध्यसे (Rig VIII.43.9). The case-ending being elided, the Sandhi takes place. Why do we say ‘when by such elision the metre of the line is completed’? Observe स इव व्याघ्रो भवेत् ॥ The word अचि in the sutra is for the sake of distinctness:for the purposes of metre would not have been served by eliding the affix before a consonant, for then the syllables would remain the same. It is by sandhi that a syllable is lessened; and sandhi would take place only with a vowel. Some explain the word पाद as ‘a foot of a Sloka’ also, and according to them this rule is not confined to Vedic metres only. Thus we have:- सैष दाशरथी रामः, सैष राजा युधिष्ठिरः, सैष कर्णो महात्यागी सैष भीमो महाबलः ॥
Kashika¶
स इत्येतस्याचि परतः सुलोपो भवति, लोपे सति चेत् पादः पूर्यते। सेदु॒ राजा॑ क्षयति चर्षणी॒नाम् (ऋ० १.३२.१५)। सौष॑धी॒रनु॑रुध्यसे (ऋ० ८.४३.९)। लोपे चेत् पादपूरणमिति किम् ? स इव व्याघ्रो भवेत्। अचीति विस्पष्टार्थम्। पादग्रहणेनात्र श्लोकपादस्यापि ग्रहणं केचिदिच्छन्ति। तेनेदमपि सिद्धं भवति।
सैष दाशरथी रामः सैष राजा युधिष्ठिरः।
सैष कर्णो महात्यागी सैष भीमो महाबलः॥
Siddhanta Kaumudi¶
सस् इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्येत । सेमामविड्ढि प्रभृतिं य ईशिषे । इह ऋक्पाद एव गृह्यत इति वामनः । अविशेषाच्छ्लोकपादोऽपीत्यपरे । सैष दाशरथी रामः । लोपे चेदिति किम् । स इत् क्षेति । स एव मुक्त्वा । सत्येवेत्यवधारणं तु स्यश्छन्दसि बहुलम् (SK3526) इति पूर्वसूत्राद्बहुलग्रहणानुवृत्त्या लभ्यते । तेनेह न । सोऽहमाजन्मशुद्धानाम् ॥
Laghu Siddhanta Kaumudi¶
स इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्य्येत । सेमामविड्ढि प्रभृतिम् । सैष दाशरथी रामः ॥
Balamanorama¶
सोऽचि लोपे चेत् पादपूरणम् - सोऽचि । ‘स’ इति प्रथमैकवचनान्तस्वरूपपरं , ततः षष्टआ लुक् । एवञ्चसस्-शब्दस्येति लभ्यते । ‘सुलोप’ इत्यनुवर्तते । तदाह-सस् इत्यादिना । * इति बालमनोरमायां स्वादिसन्धिः * अथ स्वादयः ।अथ श्नुविकरणा धातवो निरूप्यन्ते । षुञ्धातुः षोपदेशः । अनिट् । इत आरभ्य ञित्त्वादुभयपदिनः । सुरासन्धानमिति । सुरोत्पादनमित्यर्थः ।
Tattvabodhini¶
सोऽचि लोपे चेत् पादपूरणम् - सोऽचि लोपे ।अचीति विस्पष्टार्थ॑मिति वृत्तौ स्थितम् ।सस्इति तच्छब्दस्य प्रथमैकवचनान्तस्यानुकरणं लुप्तषष्ठीक्रमित्याह — स इत्यस्येति । बहुलग्रहणेति । अतएव लोपं विना पादपूरणेऽपि क्वचिद्भवति-॒सास्मा अरम् इति । अत्र वदन्ति — ये तुसोऽहमाजन्मशुद्धना॑मित्यादिसिध्द्यर्थंपादश्चेल्लोपे सत्येव पूर्येते॑ति सावधारणं व्याचख्युस्तेषांसास्मा अर॑मित्यादौ सलोपानापत्तिः । अत्र हिसः-अस्मै॑ इति च्छेदः । बहुलग्रहणानुवृत्त्या तदुपपादने तुसोऽहमाजन्मे॑त्याद्येव तथोपपाद्यतां, किमवधारणेनेति । * इति तत्त्वबोधिन्यां स्वादिसन्धिप्रकरणम् । *
Padamanjari¶
स इति निर्देशः पूर्ववत्। केचिदिति। स्वयं तु च्छन्दोऽधिकारादृक्पादस्यैव ग्रहणं मन्यते ॥
Praudhamanorama¶
बहुलग्रहणेति। अत एव लोपं विना पादपूरणेऽपि क्वचिद्भवति— सास्मा अरम्। सः अस्मै इति च्छेदः। इति स्वादिसन्धिः॥ इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायां पञ्चसन्धिप्रकरणम्॥
Sarala¶
सोऽचीति । सस् इति प्रथमान्तानुकरणं लुप्तषष्ठ्यन्तम् । एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (६.१.१३२) इत्यतः “सुलोप” इति वर्ततेऽत आह - स इत्यस्येति । पादशब्देनाऽत्र सूत्रे ऋक्पादवत् श्लोकपादोऽपि ग्राह्य इत्याशयेन ऋक्पादमुदाहृत्य श्लोकपादमप्युदाहरति - सैष दाशरथिरिति । अत्र लोपाभावे सस्य रुत्वे यत्वे लोपे तस्यासिद्धत्वाद्वृद्ध्यादेरभावे नवाक्षरत्वापत्त्याऽष्टाक्षराऽनुष्टुप्पादभङ्गः स्पष्टः एव ॥
Sudha¶
सोऽचि लोप इति । स इति प्रथमैकवचनान्तं स्वरूपपरम् । ततः षष्ठ्या लुक् सस् शब्दस्येति लभ्यते । सुलोप इत्यनुवर्तते; तदाह —स इत्यस्येत्यादिना । “सस् इमामविड्ढिप्रभृतिम्” इत्यत्र सोऽचि लोपे चेत्पादपूरणम् (6.1.134) इति सकारलोपाभावे पादोऽत्र न पूर्यते अतोऽनेन सकारलोपे आद्गुणः (6.1.87) इत्यनेन गुणे सति “सेमानविड्ढिप्रभृतिम्” इति सिद्धम् । एवम् — “सस् एष दाशरथी रामः” इत्यत्र सोऽचि लोपे चेत्पादपूरणम् (6.1.134) इत्यनेन पादपूरणार्थं सलोपे विहिते वृद्धिरेचि (6.1.88) इत्यने वृद्धौ “सैष दाशरथी रामः” इति पादपूरणसिद्धिः ॥ इति विसर्गसन्धिप्रकरणम् ॥