61133: स्यश्छन्दसि बहुलम्¶
Padacheda: स्यः | S | 1 | 1 | 6
छन्दसि | S | 7 | 1 |
बहुलम् | S | 1 | 1 |
Sutrartha¶
वैदिकप्रक्रियायाम् त्यद्-शब्दस्य प्रथमैकवचनस्य सुँ-प्रत्ययस्य संहितायाः विषये हलि परे बहुलं लोपः भवति ।
“त्यद्” इति सर्वनामसंज्ञकः शब्दः । अस्य शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् “त्यद् + सुँ” इत्यत्र सुँ-प्रत्ययात् अनन्तरम् संहितायाम् हल्-वर्णः विद्यते चेत् वैदिकप्रक्रियायासु अस्य सुँ-प्रत्ययस्य कुत्रचित् लोपः कृतः दृश्यते । अतः लोपे कृते “त्य”, तथा लोपाभावे “त्यः” इति द्वे रूपे अत्र सम्भवतः । प्रत्येकं प्रकारस्य एकम् उदाहरणम् इत्थम् — 1. उत स्य वाजी क्षिपणिं (ऋग्वेदः 4.40.4) - अत्र “स्य वाजी” इत्यत्र त्यद्-शब्दात् परस्य सुँ-प्रत्ययस्य लोपः कृतः अस्ति । प्रक्रिया इयम् -
त्यद् + सुँ + वाजी
→ त्य अ + सुँ + वाजी [**त्यदादीनामः** (7.2.102)] इति दकारस्य अकारः]
→ त्य + सुँ + वाजी [**अतो गुणे** (6.1.97) इति गुण-एकादेशः पररूपः अकारः]
→ स्य + सुँ + वाजी [**तदोः सः सावनन्त्ययोः** (7.2.106) इति तकारस्य सकारः]
→ स्य + वाजी [**स्यश्छन्दसि बहुलम्** (6.1.133) इति सुँलोपः]
→ स्य वाजी
यत्र स्यो निपतेत् एतादृशेषु वाक्येषु स्यश्छन्दसि बहुलम् (6.1.133) सुँ-प्रत्ययस्य लोपः नैव भवति, अपितु तस्य रुत्वे, उत्वे, गुणैकादेशे च कृते “स्यो निपतेत्” इति रूपं सिद्ध्यति । प्रक्रिया इयम् —
त्यद् + सुँ + निपतेत्
→ त्य अ + सुँ + निपतेत् [**त्यदादीनामः** (7.2.102)] इति दकारस्य अकारः]
→ त्य + सुँ + निपतेत् [**अतो गुणे** (6.1.97) इति गुण-एकादेशः पररूपः अकारः]
→ स्य + सुँ + निपतेत् [**तदोः सः सावनन्त्ययोः** (7.2.106) इति तकारस्य सकारः]
→ स्य + रुँ + निपतेत् [**ससजुषो रुः** (8.2.66) इति रुत्वम्]
→ स्य + उ + निपतेत् [**हशि च** (6.1.114) इति उत्वम् ]
→ स्यो निपतेत् [**आद्गुणः** (6.1.87) इति गुणैकादेशः]
Sutrartha (English)¶
In the derivation of the Vedic words, the सुँ-प्रत्यय attached to the प्रथमा-एकवचन of the word त्यद् might or might not be removed when followed by a हल् in the context of संहिता.
Vasu English Summary¶
In the छन्दस् , the case-affix of the nominative singular is diversely elided after स्य , when a consonant follows it.
Vasu English Translation¶
In the छन्दस् , the case-affix of the nominative singular is diversely elided after स्य , when a consonant follows it. Thus उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिकक्ष आसनि (Rig IV. 40.4), एष स्य ते मधुर्मी इन्द्र सोमः (Rig IX. 87.4) ॥ Sometimes it does not take place: as यत्र स्यो निपतेत् ॥ The स्य means ‘he’.
Kashika¶
स्य इत्येतस्य छन्दसि हलि परतो बहुलं सोर्लोपो भवति। उ॒त स्य वा॒जी क्ष्ि॑ा॑प॒णिं त॑ु॑रण्यति ग्री॒वायां॑॑ ब॒द्धो अ॑॑पि क॒क्ष अा॒सनि॑॑ (ऋ० ४.४०.४)। ए॒ष स्य त॑े॑ पवत इन्द्॒र सोम॑ः॑ (ऋ० ९.९७.४६)। न च भवति — यत्र स्यो निपतेत्॥
Siddhanta Kaumudi¶
स्य इत्यस्य सोर्लोपः स्याद्धलि । एष स्य भानुः (ए॒ष स्य भा॒नुः) ॥
Laghu Siddhanta Kaumudi¶
पदान्ते एङन्तस्य गोरवङ् वाचि। गवाग्रम्, गोऽग्रम्। पदान्ते किम्? गवि॥
Padamanjari¶
स्य इति यदित्यस्य प्रथमान्तस्यानुकरणम्’सुपां सुलुक्’ इति लुप्तषष्ठीकम्। अनुकार्यानुकरणयोर्भेदस्याविवक्षितत्वादनुत्पत्तिरेव वा षष्ठयाः। उदाहरणे सत्वादि पूर्ववत् ॥