61134: सोऽचि लोपे चेत् पादपूरणम् ================================ **Padacheda:** सः | S | 1 | 1 | 6 अचि | S | 7 | 1 | लोपे | S | 7 | 1 | चेत् | S | 0 | 0 | पादपूरणम् | S | 1 | 1 | Sutrartha --------- **'सः' इत्यत्र विद्यमानस्य सुँ-प्रत्ययस्य संहितायाम् अचि परे पादपूरणार्थं लोप: भवति, यदि तादशम् एव पादपूरणम् सम्भवति ।** पद्यवाङ्मये (वेदानाम् ऋक्षु, लौकिकसंस्कृतस्य श्लोकेषु) अक्षराणि प्रायेण विशिष्टेषु छन्दस्सु निबद्धानि सन्ति । प्रत्येकं छन्दसः विशिष्टाः नियमाः सन्ति । एतेषाम् नियमानाम् पूरणार्थम् यदि कश्चन अन्यः पर्यायः नास्ति, तर्हि 'सः' शब्दस्य सुँ-प्रत्ययस्य लोपं कृत्वा पादपूरणम् कर्तुं शक्यते —‌ इति अस्य सूत्रस्य अर्थः । वेदानाम् ऋक्षु (कुत्रचित् लौकिकसंस्कृतस्य श्लोकेषु अपि), यदि अच्-वर्णे परे 'तद्' शब्दस्य पुंलिङ्गस्य प्रक्रियायाम् 'सुँ' प्रत्ययस्य लोपेन एव पादपूरणम् सम्भवति, तर्हि प्रकृतसूत्रस्य आधारेण सः लोपः कर्तव्यः इति अस्य आशयः । कानिचन उदाहरणानि एतानि — 1. ऋग्वेदे 1.32.15 — इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः । सेदु राजा क्षयति चर्षणीनामरान्न नेमिः परि ता बभूव ॥ इयम् ऋक् **त्रिष्टुप्** नाम्नि छन्दसि निबद्धा अस्ति । अत्र द्वितीयपङ्क्तेः प्रथमपादस्य "सः इत् ऊँ राजा क्षयति चर्षणीनाम्" इति पदविग्रहः वर्तते । संहितायाम् "तद् + सुँ + इदु" इत्यत्र सामान्यं सन्धिकार्यं क्रियते चेत् एतादृशी प्रक्रिया भवेत् — .. code-block:: text तद् + सुँ + इदु → सद् + सुँ + इदु [**तदोः सः सावनन्त्ययोः** (7.2.106) इति सकारः] → सअ + सुँ + इदु [**त्यदादीनामः** (7.2.102) इति अकारः] → स + सुँ + इदु [**अतो गुणे** (6.1.97) इति गुणैकादेशः] → स + रुँ + इदु [**ससजुषो रुः** (8.2.66) इति रुत्वम्] → स + य् + इदु [**भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इति यकारादेशः] → स इदु [**लोपः शाकल्यस्य** (8.3.19) इति यलोपः । अस्य असिद्धत्वात् अग्रे **आद्गुणः** (6.1.87) इति गुणैकादेशः न सम्भवति ।] अनेन प्रकारेण "स इदु राजा क्षयति चर्षणीनाम्" इति सिद्ध्येत् । परन्तु तथा क्रियते चेत् त्रिष्टुप्-छन्दसः नियमस्य भङ्गः भवति । त्रिष्टुप्-छन्दसि प्रत्येकं पादे आहत्य 11 अक्षराणि एव सन्ति । अतः तां सङ्ख्यां प्राप्तुम् अस्मिन् पादे "तद् + सुँ + इत्" इत्यत्र प्रकृतसूत्रेण सुँ-प्रत्ययस्य लोपः क्रियते — .. code-block:: text तद् + सुँ + इदु → सद् + सुँ + इदु [**तदोः सः सावनन्त्ययोः** (7.2.106) इति सकारः] → सअ + सुँ + इदु [**त्यदादीनामः** (7.2.102) इति अकारः] → स + सुँ + इदु [**अतो गुणे** (6.1.97) इति गुणैकादेशः] → स + इदु [**सोऽचि लोपे चेत् पादपूरणम्** (6.1.134) इति पादपूरणार्थम् सुँ-प्रत्ययस्य लोपः] → सेदु [**आद्गुणः** (6.1.87) इति गुणैकादेशः] एतादृशे लोपे कृते पादपूरणम् (छन्दसः अक्षराणाम् नियमस्य पालनम्) भवति, अतः अयं लोपः अत्र प्रकृतसूत्रेण कर्तुं शक्यते, इति आशयः । 2. ऋग्वेदे 8.43.9 — अप्स्वग्ने सधिष्टव । सौषधीरनु रुध्यसे । गर्भे सञ्जायसे पुन: ॥ इयम् ऋक् **गायत्री** नाम्नि छन्दसि निबद्धा अस्ति । अस्मिन् छन्दसि विद्यामानासु ऋक्षु त्रयः पादाः सन्ति, प्रत्येकं पादे अष्ट अक्षराणि आवश्यकानि वर्तन्ते । अस्याः सङ्ख्याः पूरणार्थम् अत्र द्वितीयपादे "तद् + सुँ + ओषधीः" इति स्थिते प्रकृतसूत्रेण सुँलोपः भवति, ततश्च वृद्ध्येकादेशं कृत्वा "सौषधी " इति शब्दः सिद्ध्यति । 3. ऋग्वेदे 2.24.1 — सेमामविड्ढि प्रभृतिं य ईशिषेऽया विधेम नवया महा गिरा । यथा नो मीढ्वान्त्स्तवते सखा तव बृहस्पते सीषधः सोत नो मतिम् ॥ इयम् ऋक् **जगती** नाम्नि छन्दसि निबद्धा अस्ति । अस्मिन् छन्दसि विद्यामानासु ऋक्षु चत्वारः पादाः सन्ति, प्रत्येकं पादे द्वादश अक्षराणि आवश्यकानि वर्तन्ते । अस्याः सङ्ख्याः पूरणार्थम् अत्र प्रथमपा "तद् + सुँ + इमाम्" इति स्थिते प्रकृतसूत्रेण सुँलोपः भवति, ततश्च गुणैकादेशं कृत्वा "सेमाम् " इति शब्दः सिद्ध्यति । **अस्य सूत्रस्य प्रयोगः प्रामुख्येण ऋग्वेदस्य ऋचाम् विषये एव प्रवर्तते इति काशिकाकारस्य मतम् अस्ति । परन्तु अनेके वैयाकरणाः लौकिकसंस्कृते अपि अस्य प्रयोगम् अनुमन्यन्ते । ** यथा, अधोदत्ते श्लोके अनुष्टुप्-छन्दसः नियमपालनार्थम् (प्रत्येकं पादे अष्टानाम् अक्षराणाम् सिद्ध्यर्थम् इत्याशयः) सर्वत्र 'सः एषः' इत्यस्य स्थाने सुँलोपं कृत्वा, ततः गुणैकादेशे कृते 'सैषः' इति शब्दः प्रयुक्तः दृश्यते — सैष दाशरथी रामः सैष राजा युधिष्ठिरः । सैष कर्णो महादानी सैष भीमो महाबलः ॥ **सूत्रे अचिग्रहणम् विस्पष्टार्थम्** अस्मिन् सूत्रे 'अचि' इति शब्दः प्रयुक्तः अस्ति । अस्य सूत्रस्य प्रसक्तिः केवलम् अच्-वर्णे परे एव सम्भवति इति ज्ञापयितुम् अत्र 'अचि' इति पदं स्वीकृतम् वर्तते । परन्तु, यदि अग्रे अच्-वर्णस्य स्थाने हल्-वर्णः स्यात्, तर्हि **एतत्तदोः सुलोपोऽकोरनञ्समासे हलि** (6.1.132) इत्यनेनैव सूत्रेण सुँप्रत्ययस्य लोपः सम्भवति । अतः प्रकृतसूत्रम् केवलम् अच्-वर्णे परे एव प्रयोक्तुम् शक्यम्, इति निर्णयः । अस्यां स्थितौ अत्र 'अचि' इति पदग्रहणस्य न किमपि प्रयोजनम् । अतएव काशिकाकारेण **अचीति विस्पष्टार्थम्** (only used for more clarity) इति प्रयोजनम् स्पष्टीकृतम् अस्ति । **अवधारणार्थम् पूर्वसूत्रात् 'बहुलम्' शब्दस्य अनुवृत्तिः** यदि पादपूरणार्थम् आवश्यकं वर्तते, तर्हि **एव** अस्य सूत्रस्य प्रयोगः करणीयः — इति अवधारणम् कर्तुम् अस्मिन् सूत्रे पूर्वस्मात् सूत्रात् 'बहुलम्' इति शब्दः 'एव' इत्यस्मिन् अर्थे अनुवृत्तिरूपेण स्वीक्रियते, सः च "चेत्" इति शब्देन सह अन्वेति । **पादपूरणम् चेत् बहुलं (= एव ) लोपः **— इति अत्र आशयः अस्ति । इत्युक्ते, कविः आदौ अन्यपद्धत्या पादपूरणं कर्तुं यत्नं कुर्यात्, परन्तु तादृशे यत्ने कृते अपि यदि पादपूरणम् न सम्भवति, तर्हि एव प्रकृतसूत्रस्य साहाय्यं स्वीकर्तुं शक्यते — इति अत्र आशयः अस्ति । अतश्च बहुषु स्थलेषु अस्य सूत्रस्य प्रयोगं विना अपि नियमितरूपेण सन्धिकार्यं कृत्वा श्लोकरचना कृता दृश्यते । यथा, रघुवंशे 1.5 इत्यत्र — सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम्। आसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ॥ अत्र "सः अहम्" इत्यत्र सुँ-प्रत्ययस्य रुत्व-उत्व-गुण-पूर्वरूपं कृत्वा एव पादपूरणम् कृतम् अस्ति । अत्र प्रकृतसूत्रम् पादपूरणार्थम् न हि आवश्यकम्, अतः तस्य प्रयोगः अपि न क्रियते । अस्यैव निर्देशार्थम् सिद्धान्तकौमुद्याम् "लोपे सत्येव पूर्येत" इति प्रकारेण अस्य सूत्रस्य अर्थः उच्यते । अत्र प्रयुक्तः 'सत्येव' इति शब्दः **स्यश्छन्दसि बहुलम्** (6.1.133) इत्यस्मात् पूर्वसूत्रात् 'बहुलम्' इति शब्दस्य अनुवृत्तेः अर्थं स्पष्टीकरोति । Sutrartha (English) ------------------- The सुँ-प्रत्यय of सः gets removed when followed by an अच्, provided that (only) by doing so, the पाद can be completed. Vasu English Summary -------------------- The case affix of सस् 'he', is elided before a vowel, if by such elision the meter of the foot becomes complete. Vasu English Translation ------------------------ The case affix of सस् 'he', is elided before a vowel, if by such elision the meter of the foot becomes complete. *Karika* सैष दाशरथी रामः, सैष राजा युधिष्ठिरः॥ सैष कर्णो महात्यागी सैष भीमो महाबलः ॥ Thus सेदु राजा क्षयति चर्षणीनाम् (*Rig* I.32.15) सौषधीरनुरुध्यसे (*Rig* VIII.43.9). The case-ending being elided, the *Sandhi* takes place. Why do we say 'when by such elision the metre of the line is completed'? Observe स इव व्याघ्रो भवेत् ॥ The word अचि in the *sutra* is for the sake of distinctness:for the purposes of *metre* would not have been served by eliding the affix before a consonant, for then the syllables would remain the same. It is by *sandhi* that a syllable is lessened; and *sandhi* would take place only with a vowel. Some explain the word पाद as 'a foot of a *Sloka*' also, and according to them this rule is not confined to Vedic metres only. Thus we have:- सैष दाशरथी रामः, सैष राजा युधिष्ठिरः, सैष कर्णो महात्यागी सैष भीमो महाबलः ॥ Kashika ------- स इत्येतस्याचि परतः सुलोपो भवति, लोपे सति चेत् पादः पूर्यते। सेदु॒ राजा॑ क्षयति चर्षणी॒नाम् (ऋ० १.३२.१५)। सौष॑धी॒रनु॑रुध्यसे (ऋ० ८.४३.९)। लोपे चेत् पादपूरणमिति किम् ? स इव व्याघ्रो भवेत्। अचीति विस्पष्टार्थम्। पादग्रहणेनात्र श्लोकपादस्यापि ग्रहणं केचिदिच्छन्ति। तेनेदमपि सिद्धं भवति। सैष दाशरथी रामः सैष राजा युधिष्ठिरः। सैष कर्णो महात्यागी सैष भीमो महाबलः॥ Siddhanta Kaumudi ----------------- सस् इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्येत । सेमामविड्ढि प्रभृतिं य ईशिषे । इह ऋक्पाद एव गृह्यत इति वामनः । अविशेषाच्छ्लोकपादोऽपीत्यपरे । सैष दाशरथी रामः । लोपे चेदिति किम् । स इत् क्षेति । स एव मुक्त्वा । सत्येवेत्यवधारणं तु स्यश्छन्दसि बहुलम् (SK3526) इति पूर्वसूत्राद्बहुलग्रहणानुवृत्त्या लभ्यते । तेनेह न । सोऽहमाजन्मशुद्धानाम् ॥ Laghu Siddhanta Kaumudi ----------------------- स इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्य्येत । सेमामविड्ढि प्रभृतिम् । सैष दाशरथी रामः ॥ Balamanorama ------------ **सोऽचि लोपे चेत् पादपूरणम्** - सोऽचि । 'स' इति प्रथमैकवचनान्तस्वरूपपरं , ततः षष्टआ लुक् । एवञ्चसस्-शब्दस्येति लभ्यते । 'सुलोप' इत्यनुवर्तते । तदाह-सस् इत्यादिना । ***** इति बालमनोरमायां स्वादिसन्धिः ***** अथ स्वादयः ।अथ श्नुविकरणा धातवो निरूप्यन्ते । षुञ्धातुः षोपदेशः । अनिट् । इत आरभ्य ञित्त्वादुभयपदिनः । सुरासन्धानमिति । सुरोत्पादनमित्यर्थः । Tattvabodhini ------------- **सोऽचि लोपे चेत् पादपूरणम्** - सोऽचि लोपे ।अचीति विस्पष्टार्थ॑मिति वृत्तौ स्थितम् ।सस्इति तच्छब्दस्य प्रथमैकवचनान्तस्यानुकरणं लुप्तषष्ठीक्रमित्याह — स इत्यस्येति । बहुलग्रहणेति । अतएव लोपं विना पादपूरणेऽपि क्वचिद्भवति-॒सास्मा अरम् इति । अत्र वदन्ति — ये तुसोऽहमाजन्मशुद्धना॑मित्यादिसिध्द्यर्थंपादश्चेल्लोपे सत्येव पूर्येते॑ति सावधारणं व्याचख्युस्तेषांसास्मा अर॑मित्यादौ सलोपानापत्तिः । अत्र हिसः-अस्मै॑ इति च्छेदः । बहुलग्रहणानुवृत्त्या तदुपपादने तुसोऽहमाजन्मे॑त्याद्येव तथोपपाद्यतां, किमवधारणेनेति । * इति तत्त्वबोधिन्यां स्वादिसन्धिप्रकरणम् । * Padamanjari ----------- स इति निर्देशः पूर्ववत्। केचिदिति। स्वयं तु च्छन्दोऽधिकारादृक्पादस्यैव ग्रहणं मन्यते ॥ Praudhamanorama --------------- **बहुलग्रहणेति।** अत एव लोपं विना पादपूरणेऽपि क्वचिद्भवति— सास्मा अरम्। सः अस्मै इति च्छेदः। इति स्वादिसन्धिः॥ इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायां पञ्चसन्धिप्रकरणम्॥ Sarala ------ **सोऽचीति** । **सस्** इति प्रथमान्तानुकरणं लुप्तषष्ठ्यन्तम् । **एतत्तदोः सुलोपोऽकोरनञ्समासे हलि** (६.१.१३२) इत्यतः "सुलोप" इति वर्ततेऽत आह - **स इत्यस्येति** । पादशब्देनाऽत्र सूत्रे ऋक्पादवत् श्लोकपादोऽपि ग्राह्य इत्याशयेन ऋक्पादमुदाहृत्य श्लोकपादमप्युदाहरति - **सैष दाशरथिरिति** । अत्र लोपाभावे सस्य रुत्वे यत्वे लोपे तस्यासिद्धत्वाद्वृद्ध्यादेरभावे नवाक्षरत्वापत्त्याऽष्टाक्षराऽनुष्टुप्पादभङ्गः स्पष्टः एव ॥ Sudha ----- **सोऽचि लोप इति ।** स इति प्रथमैकवचनान्तं स्वरूपपरम् । ततः षष्ठ्या लुक् सस् शब्दस्येति लभ्यते । सुलोप इत्यनुवर्तते; तदाह —**स इत्यस्येत्यादिना ।** "सस् इमामविड्ढिप्रभृतिम्" इत्यत्र **सोऽचि लोपे चेत्पादपूरणम्** (6.1.134) इति सकारलोपाभावे पादोऽत्र न पूर्यते अतोऽनेन सकारलोपे **आद्गुणः** (6.1.87) इत्यनेन गुणे सति "सेमानविड्ढिप्रभृतिम्" इति सिद्धम् । एवम् — "सस् एष दाशरथी रामः" इत्यत्र **सोऽचि लोपे चेत्पादपूरणम्** (6.1.134) इत्यनेन पादपूरणार्थं सलोपे विहिते **वृद्धिरेचि** (6.1.88) इत्यने वृद्धौ "सैष दाशरथी रामः" इति पादपूरणसिद्धिः ॥ इति विसर्गसन्धिप्रकरणम् ॥