61132: एतत्तदोः सुलोपोऽकोरनञ्समासे हलि

Padacheda: एतत्-तदोः | S | 6 | 2 |

सुलोपः | S | 1 | 1 |

अकोः | S | 6 | 2 |

अ-नञ्समासे | S | 7 | 1 |

हलि | S | 7 | 1 |

Sutrartha

नञ्-समासं विहाय अन्यत्र ककारविहीनात् एतद्/तद्-शब्दात् परस्य सुँ-प्रत्ययस्य व्यञ्जने परे संहितायाः विषये लोपः भवति ।

“एतद्” तथा “तद्” एतयोः शब्दयोः प्रथमैकवचनस्य प्रक्रियायाम् सुँ-प्रत्ययस्य हल्-वर्णे परे संहितायाम् लोपं कारयितुम् इदं सूत्रम् निर्मितम् अस्ति । केषुचन स्थलेषु एतादृशः लोपः न हि इष्यते, अतः ‘अकोः’ तथा ‘अनञ्समासे’ इति द्वौ निषेधौ अपि अस्मिन्नेव सूत्रे स्थापिते स्तः । यत्र “एतद् / तद्” शब्दः नञ्-समासे प्रयुज्यते, यत्र वा अयम् अकच्-प्रत्ययेन सह प्रयुज्यते, तादृशं प्रयोगं त्यक्त्वा अन्येषु प्रयोगेषु एताभ्याम् विहितस्य सुँ-प्रत्ययस्य संहितायाम् हल्-वर्णे परे लोपः भवति — इति अस्य सूत्रस्य आशयः । क्रमेण उदाहरणानि पश्यामः - <hlb>1. नञ्-समासः / अकच्-प्रत्ययः नास्ति चेत् हल्-वर्णे परे सुँलोपः भवति ।</hlb> यथा, “एतद् + सुँ + विष्णुः” इत्यत्र एतद्-शब्दात् विहितस्य सुँ-प्रत्ययस्य प्रकृतसूत्रेण लोपः भवति</b> । प्रक्रिया इयम् —

एतद् + सुँ + विष्णुः
→ एसद् + सुँ + विष्णुः [**तदोः सः सावनन्त्ययोः** (7.2.106) इति तकारस्य सकारः]
→ एस अ + सुँ + विष्णुः [**त्यदादीनामः** (7.2.102) इति दकारस्य अकारः]
→ एस + सुँ + विष्णुः   [**अतो गुणे** (6.1.97) इति गुण-एकादेशः पररूपः अकारः]
→ एस + विष्णुः [**एतत्तदोः सुलोपोऽकोरनञ्समासे हलि** (6.1.132) इत्यनेन सुँ-प्रत्ययस्य लोपः]
→ एष विष्णुः [**आदेशप्रत्ययोः** (8.3.59) इति षत्वम्]

एवमेव “तद् + सुँ + शम्भुः” इत्यत्रापि सुँ-प्रत्ययस्य लोपं कृत्वा “स शम्भुः” इति प्रयोगः सिद्ध्यति । <hlb>2. नञ्-समासे प्रयुक्तस्य एतद् / तद् शब्दस्य विषये इदं सूत्रं न प्रवर्तते ।</hlb> इत्युक्ते, यदि एतद् / तद् - शब्दः नञ्-समासस्य घटकः अस्ति तर्हि अपि अनेन सूत्रेण सुँ-प्रत्ययस्य लोपः न भवति । यथा - “अनेषः ददाति” इत्यस्य प्रक्रियायाम् “नञ् + एतद् + सुँ + ददाति” इति स्थितिः वर्तते । अत्र एतद्-शब्दस्य नञ्-शब्देन सह नञ्-समासः क्रियमाणः अस्ति ।अस्यां स्थितौ प्रकृतसूत्रेण अत्र सुँलोपः न सम्भवति । एवमेव, “नञ् + तद् + सुँ शिवः” इत्यत्र अपि प्रकृतसूत्रम् विना, सुँ-प्रत्ययस्य विसर्गे, सत्वे, श्चुत्वे च कृते “असश्शिवः” इति प्रयोगः सिद्ध्यति । यत्र केवलम् ‘न’ अव्ययं प्रयुज्यते, नञ्-समासः नास्ति, तत्र तु इदम् सूत्रम् अवश्यमेव प्रयोक्तव्यम् । यथा, ‘न एष ददाति’ इत्यत्र यद्यपि ‘न’ इति अव्ययम् उपयुक्तं वर्तते, तथापि अस्य एतद्-शब्देन सह समासः नैव कृतः अस्ति, अतः अत्र एतद्-शब्दात् परस्य ‘सुँ’ प्रत्ययस्य हल्-वर्णे परे अवश्यं लोपः भवति । <hlb>3. अकच्-प्रत्ययेन सह प्रयुक्तस्य एतद् / तद् शब्दस्य विषये इदं सूत्रं न प्रवर्तते ।</hlb> “अकच्” इति कश्चन तद्धितप्रत्ययः अव्ययसर्वनाम्नामकच् प्राक्टेः (5.3.71) अनेन सूत्रेण सर्वनामशब्देभ्यः स्वार्थे विधीयते । अस्य प्रत्ययस्य उपस्थितौ एतकद् / तकद् इति प्रातिपदिके सिद्ध्यतः अयं प्रत्ययः एतद्/तद्-शब्दयोः <u>मध्ये</u> प्रयुज्यते (न हि तयोः अन्ते), अतः तन्मध्यपतितस्दग्रहणेन गृह्यते इति परिभाषया प्रकृतसूत्रे विद्यमानेन एतद्/तद्-शब्देन अकच्-प्रत्यययुक्तस्य अपि शब्दस्य ग्रहणं भवति । अतः प्रकृतसूत्रेण उक्तः सुँलोपः एतयोः शब्दयोः प्रक्रियायाम् अपि प्राप्नोति । तादृशम् मा भूत् इति हेतुना अस्मिन् सूत्रे “अकोः” इति पदम् स्वीकृतम् अस्ति । अतएव “एषको रुद्रः”, “सको ददाति” इत्यादिषु प्रयोगेषु प्रकृतसूत्रेण सुँलोपः नैव क्रियते ।

बाध्यबाधकभावः

प्रकृतसूत्रम् न हि कस्यचित् सूत्रस्य बाधकरूपेण प्रवर्तते । ** सामान्यरूपेण प्रक्रियायाम् सुँ-प्रत्ययस्य **ससजुषो रुः (8.2.66) इति सूत्रेण रुँत्वम् भवति, परन्तु तत् रुत्वं त्रिपाद्यां विद्यते अतः प्रकृतसूत्रस्य कृते तद् असिद्धम् एव अस्ति । इत्युक्ते, “तद् + सुँ + शम्भुः” इत्यत्र अङ्गकार्यात् अनन्तरम् “स + सुँ + शम्भुः” इत्यस्यां स्थितौ रुत्वस्य असिद्धत्वात् प्रकृतसूत्रेणैव सुँलोपे कृते “स शम्भुः” इति रूपं सिद्ध्यति ।

Sutrartha (English)

Except for the नञ् समास, when a form of एतद्/तद् word which does not contain a ककार is followed by a सुँ-प्रत्यय which in turn is followed by a व्यञ्जन. the सुँ-प्रत्यय gets removed in the context of संहिता.

Vasu English Summary

After एतद् and तद् there is elision of the case-affix स् (of the Nominative Singular), when a consonant follows it, when these words are not combined with क ((5.3.71)) and have not the Negative Particle in composition.

Vasu English Translation

After एतद् and तद् there is elision of the case-affix स् (of the Nominative Singular), when a consonant follows it, when these words are not combined with क ((5.3.71)) and have not the Negative Particle in composition. Thus एषः + ददाति = एष ददाति, स ददाति, एष भुङ्क्ते, स भुङ्क्ते ॥ Why do we say of एतद् and तद्? Observe यो ददाति, यो भुङ्क्ते ॥ Why do say “the case affix of the Nominative singular?” Observe एतौ गावौ चरतः ॥ Why do we say ‘without क’? Observe एषको ददाति, सको ददाति ॥ The words एतद् and तद् with the affix अद्यच्, which falls in the middle, would be considered just like एतत् and तद् without such affix, and in fact would be included in the words एतद् and तद्, hence the necessity of the prohibition. The general maxim is: तन्मध्यपतितस्तद् ग्रहणेन गृह्यते ‘any term that may be employed in Grammar denotes not merely what is actually denoted by it, but it denotes also whatever word-form may result when something is inserted in that which is actually denoted by it”.

Why do we say “when not compounded with the negative particle”? Observe अनेषो ददाति, असो ददाति ॥ In the compound with the negative particle नञ्, the second member is the principal and takes the case affixes. Why do we say ‘when followed by a consonant’? Observe एषोऽत्र, सोऽत्र ॥

Kashika

एतत्तदौ यावककारौ नञ्समासे न वर्तते तयोर्यः सुशब्दः, कश्च तयोः सुशब्दः ? यस्तदर्थेन संबद्धः, तस्य संहितायां विषये हलि परतो लोपो भवति। एष ददाति। स ददाति। एष भुङ्क्ते। स भुङ्क्ते। एतत्तदोरिति किम् ? यो ददाति। यो भुङ्क्ते। सुग्रहणं किम् ? एतौ गावौ चरतः। अकोरिति किम् ? एषको ददाति। सको ददाति। तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति रूपभेदेऽपि साकच्कावेतत्तदावेव भवतः। अनञ्समास इति किम् ? अनेषो ददाति। असो ददाति। उत्तरपदार्थप्रधानत्वाद् नञ्समासस्यैतत्तदोरेवात्र संबद्धः सुशब्दः। हलीति किम् ? एषोऽत्र। सोऽत्र॥

Siddhanta Kaumudi

अककारयोरेतत्तदोर्यः सुस्तस्य लोपः स्याद्धलि न तु नञ्समासे । एष विष्णुः । स शंभुः । अकोः किम् । एषको रुद्रः । अनञ्समासे किम् । असःशिवः । हलि किम् । एषोऽत्र ॥

Laghu Siddhanta Kaumudi

अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि न तु नञ्समासे। एष विष्णुः। स शम्भुः। अकोः किम्? एषको रुद्रः। अनञ्समासे किम्? असः शिवः। हलि किम्? एषोऽत्र॥

Balamanorama

सम्परिभ्यां (॰पर्युपेभ्यः) करोतौ भूषणे - संपरिभ्याम् ।

Tattvabodhini

एतत्तदोः सुलोपोऽकोरनञ्समासे हलि - एतत्तदोः । अत्र त्यदाद्यत्वमेकशेषश्च न कृतः, सौत्रत्वात्,प्रकृतिवदनुकरण॑दिति वैकल्पिकातिदेशाद्वा । एवं च वृत्तावप्येतत्तदोरिति प्रयोगः साधुः ।हल्ङ्याब्भ्यः॑-इत्यस्यानन्तरमेवेदं लाघवाय न कृतं, संहिताधिकारोपजीवनादित्याहुः । सूत्रेसु॑ इति पृथक् पदं लुप्तषष्ठीकमित्याह-एतत्तदोर्यः सुरिति । एतत्तदर्थगतसङ्ख्याभिधायी यः सुस्तस्येत्यर्थः ।एतत्तदोर्विहिकत॑ इति व्याख्याने तु परमैष ददाति परमस ददातीत्यादौ सुलोपो न स्यात् ।एतत्तदौः पर॑ इति व्याख्यानं तु न संभवति,एतत्तभ्द्या॑मिति पञ्चम्यभावात् ।एतत्तदोरवयव॑ इति तु न संभवत्येव, सोः प्रत्ययत्वात् । तस्मादर्थद्वारकसंबन्ध एवाश्रितः । तदाश्रयणे लिङ्गं तुअनञ्समासे॑-इति बोध्यम् । एतत्तदोः किम्, यो ददाति । अकोः किमिति । साकच्कयोः शब्दान्तरत्वादप्रसङ्ग इति प्रश्नः । एषक इति । अकोरिति प्रतिषेध एवतन्मध्यपतितस्तद्ग्रहणेन गृह्रते॑ इति परिभाषां ज्ञापयतीति भावः ।

Padamanjari

एतेन ठेततदोःऽ इति सुशब्दापेक्षया सम्बन्धलक्षणा षष्ठीत्याचष्टे। यद्येवम्, सु इत्येतस्य सापेक्षत्वाल्लोपशब्देन समासो न प्राप्नोति ? नैवायं समासः, सु इति पृथक्पदम्’सुपां सुलुक्’ इति लुप्तष्ठीकम्। कश्च तयोः सुशब्द इति। यदि यस्ताभ्यां विहितः सुः स तयोः सम्बन्धी भवति, तदा परमस ददाति, परमैष ददातीत्यादो न स्यादिति मन्यमानः पृच्छति। इतरो विदिताभिप्रायः परिहति-यस्तदर्थेन सम्बद्ध इति। अर्थद्वारकश्च सम्बनधः, यस्तदर्थगतमेकत्वमाचष्ट इत्यर्थः। परमस ददातीत्यादावपि उतरपदार्थप्रधानत्वातदर्थगतमेवैकत्वमाचष्ट इति सिद्धो लोपः। प्रथमैकवचनस्यात्र सुशब्दस्य ग्रहणम्, न सप्तमीबहुवचनस्य।’स्यश्च्छन्दसि’ ‘सो’ चि लोपे चेत्पादपूर्णम्ऽ इत्यत्र ह्यस्यैव सम्भवः। द्वयोः सामान्येन ग्रहणं तर्हि कस्मान्न भवति? एवं तर्हि’निरनुबन्धकग्रहणे न सानुबनधकस्य’ इति प्रथमैकवचनस्यैव ग्रहणम्, तस्य ह्युकार उच्चारणार्थः, नानुबन्धः। एष इति।’तदोः स सावनन्त्ययोः’ इति सकारः, त्यदाद्यत्वम्, षत्वम्। एषक इति। ठव्यसर्वनाम्नामकच् प्राक् टेःऽ इत्यकच् । ननु रूपभेदात्साकच्कावेततदावेव न भवतः, तत्किम् ठकोःऽ इति प्रतिषेधेन ? तत्राह - तन्मध्यपतितीति। अस्याश्च परिभाषाया अस्तित्वे अयमेव प्रतिषेधो लिङ्गम् । उतरपदार्थप्रधानत्वादिति। एतच्च नञ्सूत्र एव व्याख्यातम्।’हल्ङ्याब्भ्यः’ इत्यस्यानन्तरमिदं न कृतम् - संहितायां यथा स्यात्, असंहितायां मा भूदिति ॥

Praudhamanorama

अकोः किमिति। साकच्कयोः शब्दान्तरत्वादप्रसङ्ग इति प्रश्नः। एषक इति। ‘अकोः’ इति प्रतिषेध एव ‘तन्मध्यपतितस्तद्ग्रहणेन गृह्यते’ इति परिभाषां ज्ञापयतीति भावः।

Prakriyasarvasvam

अककारयोरेतत्तदोः सोरनञ्समासे हलि परे लोपः स्यात् । एष कृष्णः स रामः । ककारयोगे तु न । एषकः कृष्णः । सको रामः । नञ्समासेऽपि न । अनेषो१ रामः । असः कृष्णः । अहलपरत्वेऽपि न । एषोऽच्युतः । सोऽच्युतः ।

Sudha

एतत्तदोरिति । एतत्तच्छब्दयोरनुकरणेन शब्दपरत्वम् । अतः सूत्रे नैकशेषः । सु इति लुप्तषष्ठीकं पदम् एतत्तदोरित्यनेनान्वेति — एतत्तदोः सकारस्येति । अत एव सोर्लोपः सुलोपः इति न षष्ठीसमासः, असामर्थ्यात् । अविद्यमानः ककारः ययोस्तौ अकौ, यतोः अकोरिति बहुव्रीहिस्तदाह - अककारयोरित्यादिना । एष विष्णुरिति । “एतद्-सु विष्णुः” इति दशायां त्यदादीनामः (7.2.102) इत्यनेन अकारादेशे अतो गुणे (6.1.97) इति पररूपे तदोः सः सावनन्त्ययोः (7.2.106) इत्यनेन तस्य सत्वे, सस्य च षत्वे “एष सु विष्णुः” इति जाते अत्र एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6.1.132) इति सूत्रेण सोर्लोपे विहिते सति “एष विष्णुः” इति सम्पद्यते । स शम्भुरिति । “तद्-सुँ शम्भुः” इत्यत्र त्यदादीनामः (7.2.102) इत्यनेनाकारान्तादेशे अतो गुणे (6.1.97) इत्यनेन पररूपत्वे तदोः सः सावनन्त्ययोः (7.2.106) इति तस्य सत्वे “स सुँ शम्भुः” इति जाते; अत्र एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6.1.132) इति सोर्लोपे च कृते “स शम्भुः” इति रूपम् । ** अको किमिति ।** न च अकचि सति शब्दान्तरत्वात् प्रकृते प्राप्तिरेव नास्तीति वाच्यम्; <ऽतन्मध्यपतितस्तद्ग्रहणेन गृह्यतेऽ> इति परिभाषयात्र प्राप्तेः सत्वात् प्रकृतपरिभाषायामिदमेव ज्ञापकं बोध्यम् । “एषकस् रुद्रः” अत्र एतच्छब्दस्य सककारत्वान्न सुँलोपः, किन्तु ससजुषो रुः (8.2.66) इत्यनेन रुत्वे, हशि च (6.1.114) इत्युत्वे आद्गुणः (6.1.87) इति गुणे “एषको रुद्रः” इति रूपम् । अत्र “सको रुद्रः” इत्यपि प्रत्युदाहरणम्बोध्यम् । अनञ्समासे किमिति । अनञ्समासे इति न पर्युदासः किन्तु प्रसज्यप्रतिषेधः । प्रकृते “अस सुँ शिवः” इत्यत्र नञ्-समासत्वात् एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6.1.132) इति सूत्रस्याप्राप्तौ ससजुषो रुः (8.2.66) इति सस्य रुत्वे खरवसानयोर्विसर्जनीयः (8.3.15) इतो रेफस्य विसर्गत्वे “असः शिवः” इति भवति । एषोऽत्रेति । “एष सु अत्र” इत्यत्र हल्परत्वाभावात् एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6.1.132) इत्यस्याप्राप्तौ सस्य ससजुषो रुः (8.2.66) इत्यनेन रुँत्वे अतो रोरप्लुतादप्लुते (6.1.113) इत्यनेन उत्वे आद्गुणः (6.1.87) इत्यनेन गुणे एङः पदान्तादति (6.1.109) इत्यनेन पूर्वरूपे च कृते “एषोऽत्र” इति जायते ॥