61131: दिव उत्¶
Padacheda: दिवः | S | 6 | 1 |
उत् | S | 1 | 1 |
Sutrartha¶
‘दिव्’ इत्यस्य पदसंज्ञायां सत्याम् तस्य उत्-आदेशः भवति ।
‘दिव्’ (स्वर्गः) इति वकारान्तस्त्रीलिङ्गः शब्दः । इदम् अव्युत्पन्नम् प्रातिपदिकम् अस्ति । कुत्रचित् ‘दिव्’ धातोः डिवि इति उणादिप्रत्यये कृते अस्य सिद्धिः दीयते । परन्तु इदं दिव्-धातोः क्विबन्तम् नास्ति । प्रक्रियायाम् यदा अस्य शब्दस्य पदसंज्ञा भवति तदा प्रकृतसूत्रेण तस्य उकारादेशः भवति । कानिचन उदाहरणानि एतानि — 1. दिव्-शब्दस्य तृतीयाद्विवचनस्य रूपम् —
दिव् + भ्याम् [तृतीयैकवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे दिव्-शब्दस्य **स्वादिष्वसर्वनामस्थाने** (1.4.17) इति पदसंज्ञा भवति ।]
→ दि उ + भ्याम् [**दिव उत्** (6.1.131) इति उत्-आदेशः । **अलोऽन्त्यस्य** (1.1.52) इति अन्त्यादेशः]
→ द्युभ्याम् [**इको यणचि** (6.1.77) इति यणादेशः ।]
‘द्यौः अस्य अस्ति’ इति तद्धितवृत्तौ मतुप्-प्रत्यये परे —
द्यौः अस्य अस्ति [तद्धितवृत्तिः]
दिव् + मतुप् [**तदस्यास्त्यस्मिन्निति मतुप्** (5.2.94) इति मतुप्-प्रत्ययः । अस्मिन् प्रत्यये परे दिव्-शब्दस्य **स्वादिष्वसर्वनामस्थाने** (1.4.17) इति पदसंज्ञा भवति ।]
→ दिउ + मत् [**दिव उत्** (6.1.131) इति उत्-आदेशः ।]
→ द्युमत् [**इको यणचि** (6.1.77) इति यणादेशः ।]
‘दिवि कामः यस्य’ इति समासप्रक्रियायाम् —
दिवि कामः अस्य [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिसमासः]
→ दिव् + काम [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लुक् । पूर्वपदस्य **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन सुबन्तत्वात् पदसंज्ञा ।]
→ दिउ + काम [**दिव उत्** (6.1.131) इति उत्-आदेशः ।]
→ द्युकाम [**इको यणचि** (6.1.77) इति यणादेशः ।]
तदन्तविधिः
प्रकृतसूत्रे विद्यमानः दिवः इति षष्ठ्यन्तः शब्दः ‘पदस्य’ इति शब्दस्य विशेषणरूपेण प्रयुक्तः अस्ति । येन विधिस्तदन्तस्य (1.1.72) इत्यनेन अयं शब्दः तदन्तस्य अपि ग्रहणं करोति, अतः प्रकृतसूत्रेण उक्तः “उत्”-आदेशः “विमलदिव्”, “सुदिव्” एतादृशानां शब्दानां विषये अपि भवति । यथा — 1. सुदिव् इति वकारान्तपुंलिङ्गशब्दस्य तृतीयाद्विवचनम्
सुदिव् + भ्याम् [तृतीयैकवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे दिव्-शब्दस्य **स्वादिष्वसर्वनामस्थाने** (1.4.17) इति पदसंज्ञा भवति ।]
→ सदि उ + भ्याम् [**दिव उत्** (6.1.131) इति उत्-आदेशः ।]
→ सुद्युभ्याम् [**इको यणचि** (6.1.77) इति यणादेशः ।]
विमलदिव् इति वकारान्तनपुंसकलिङ्गशब्दस्य द्वितीयैकवचनम्
विमलदिव् + अम् [द्वितीयैकवचनस्य प्रत्ययः ]
→ विमलदिव् [**स्वमोर्नपुंसकात्** (7.1.23) इति अम्-प्रत्ययस्य लुक् । प्रत्ययस्य लोपे कृते अपि प्रत्ययलक्षणम् पदत्वम् अवश्यम् विधीयते ।]
→ विमलदि उ + भ्याम् [पदान्ते विद्यमानस्य वकारस्य **दिव उत्** (6.1.131) इत्यनेन उत्-आदेशः ।]
→ विमलद्युभ्याम् [**इको यणचि** (6.1.77) इति यणादेशः ।]
क्विप्-प्रत्ययान्तस्य द्यू-शब्दस्य अत्र न ग्रहणम्
“दिवुँ (क्रीडादिषु, दिवादिः, (4.1))” इत्यस्मात् धातोः क्विप्-प्रत्यये कृते “द्यू” इति कश्चन भिन्नः शब्दः सिद्ध्यति । अस्य शब्दस्य विषये इदं सूत्रम् नैव प्रवर्तते । ** तत्र प्रक्रियायाम् वकारस्य **च्छ्वोः शूडनुनासिके च (6.4.19) इत्यनेन ऊठ्-आदेशः भवति । प्रक्रिया इयम् —
दीव्यति इति
→ दिवुँ (क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु, दिवादिः, (4.1))
→ दिव् + क्विप् + भ्याम् [**क्विप् च** (3.2.76) इति क्विप्-प्रत्ययः । ततः तृतीयाद्विवचनस्य भ्याम्-प्रत्ययः]
→ दिव् + ० + भ्याम् [ककारपकारयोः इत्संज्ञा, लोपः । तुगागमस्य उकारः उच्चारणार्थः अस्ति, तस्यापि लोपः भवति । ततः अपृक्त-वकारस्य **वेरपृक्तस्य** (6.1.67) इति लोपः भवति ।]
→ दि ऊठ् + भ्याम् [लुप्त-क्विप्-प्रत्यये परे अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन प्रत्ययलोपे कृते अपि प्रत्ययविशिष्टं कार्यम् प्रवर्तते, अतः **च्छ्वोः शूडनुनासिके च** (6.4.19) इति वकारस्य 'ऊठ्' आदेशः भवति ।]
→ द्यूभ्याम् [**इको यणचि** (6.1.77) इति यणादेशः]
अत्र प्रक्रियायाम् दिव उत् (6.1.131) इति सूत्रम् नैव प्रवर्तते । अस्मिन् सूत्रे ‘दिव्’ इति निरनुबन्धकः शब्दः प्रयुक्तः अस्ति, अयम् शब्दः निरनुबन्धकग्रहणे न तदनुबन्धकस्य इति परिभाषया “दिवुँ” इति सानुबन्धकस्य ग्रहणम् नैव करोति इति अस्य कारणम् ।
उत् इत्यत्र तपरकरणस्य प्रयोजनम्
प्रकृतसूत्रे ‘उत्’ इति उकारस्य तपरकरणस्य द्वे प्रयोजने भाष्ये निर्दिष्टे दृश्येते । एताभ्याम् एकम् प्रयोजनम् प्रधानरूपेण स्वीक्रियते, अपरं च गौणरूपेण (एकदेश्युक्तिरूपेण) स्वीक्रियते । एते द्वे प्रयोजने एतादृशे — <hlb>1. उत् इत्यत्र तपरकरणम् व्यर्थम्, परिभाषाज्ञापनार्थम् च - इति प्रधानम् प्रयोजनम् ।</hlb> प्रकृतसूत्रे उकारः आदेशरूपेण उच्यते, अतः अयम् हस्वः उकारः वस्तुतः दीर्घभेदस्य ग्रहणं नैव करोति, इति अणुदित् सवर्णस्य चाप्रत्ययः (1.1.69) इति सूत्रे विद्यमानेन ‘अप्रत्यय’ शब्देन स्पष्टीक्रियते । अस्मिन्नेव सन्दर्भे भाव्यमानः अण् सवर्णान् न गृह्णाति इति परिभाषा अपि परिभाषेन्दुशेखरे पाठिता अस्ति । इत्युक्ते, अत्र तपरकरणम् तपरस्तत्कालस्य (1.1.70) इत्यनेन तात्कालिकग्रहणार्थम् (दीर्घग्रहणनिषेधार्थम्) च नैव आवश्यकम् । अतश्च, अस्मिन् सूत्रे प्रयुक्तः तकारः सम्पूर्णरूपेण व्यर्थः अस्ति । अयमेव व्यर्थः तकारः भाष्यकारेण — विधीयमानेन उकारेण अपि सवर्णग्रहणम् अवश्यम् भवति **— इत्यस्य ज्ञापकरूपेण स्वीकृतः अस्ति । एतादृशम् भाष्यवचनम् च प्रमाणरूपेण स्वीकृत्य परिभाषेन्दुशेखरे **भाव्यमानोऽप्युकारः सवर्णान् गृह्णाति इति परिभाषा अपि पाठिता वर्तते । अस्मिन्नेव विषये प्रकृतसूत्रस्य प्रदीपव्याख्याने कैयटः इत्थं विवृणोति — <source> ननु भाव्यमानत्वात् उकारः भिन्नकालं न ग्रहीष्यति इति न अर्थः तकारेण । एवं तर्हि तपरत्वम् एव ज्ञापकम् — भाव्यमानः अपि उकारः भिन्नकालं सवर्णं गृह्णाति इति । तेन अमूभ्याम् इत्यादौ दीर्घस्य दीर्घो भवति । <light>— 6.1.131 इत्यत्र प्रदीपे कैयटः</light> </source> अदसोऽसेर्दादु दो मः (8.2.80) इति सूत्रे उपस्थितः ‘उ’ इति विधीयमानः वर्णः अस्याः परिभाषायाः आधारेणैव सवर्णग्रहणं करोति, येन “अमू” शब्दस्य सिद्ध्यर्थम् अदसोऽसेर्दादु दो मः (8.2.80) इति सूत्रेण दीर्घ-ऊकार: आदेशरूपेण विधीयते, इति अस्य आशयः । भाष्ये तित्स्वरितम् (6.1.185) इत्यत्र अपि अयमेव विषयः प्रतिपादितः अस्ति । <hlb>2. उत् इत्यत्र तपरकरणम् सवर्णग्रहणनिषेधार्थम् - इति गौणम् प्रयोजनम् ।</hlb> केचन वैयाकरणाः तु ऋत उत् (6.1.111) इति सूत्रे विद्यमानस्य तपरकरणस्य व्यर्थत्वम् एव भाव्यमानोऽप्युकारः सवर्णान् गृह्णाति अस्याः परिभाषायाः ज्ञापकरूपेण स्वीकुर्वन्ति, ततश्च प्रकृतसूत्रे विद्यमानम् तपरकरणम् सवर्णग्रहणनिषेधार्थम् विद्यते इति प्रतिपादयन्ति । अयं पक्षः अपि अस्यैव सूत्रस्य भाष्ये निर्दिष्टः वर्तते । अस्य पक्षस्य प्रणेतारः आदौ च्छ्वोः शूडनुनासिके च (6.4.19) इत्यस्मिन् सूत्रे ‘क्ङिति’ इति पदम् नैव अनुवर्तयन्ति । इत्युक्ते, एतेषाम् मतेन सर्वेषु अपि झलादि-प्रत्ययेषु परेषु च्छ्वोः शूडनुनासिके च (6.4.19) इति सूत्रस्य प्राप्तिः अवश्यं वर्तते, न हि केवलम् कित्/ङित्-प्रत्ययेषु परेषु । अस्यां स्थितौ, उपरिनिर्दिष्टायाम् “दिव् + भ्याम्” इत्यस्याम् प्रक्रियायाम्, “भ्याम्”-प्रत्ययस्य झलादित्वात्, “दिव्-“शब्दस्य वकारस्य च्छ्वोः शूडनुनासिके च (6.4.19) इति सूत्रेण ऊठ्-आदेशः प्राप्नोति । तस्मिन्नेव समये दिव उत् (6.1.131) इति सूत्रेण तकारादेशः अपि प्रवर्तते । अस्यां स्थितौ परत्वात् अङ्गकार्यत्वात् च ऊठ्-आदेशः तकारादेशं बाधते, अतः आदौ वकारस्य ऊठ्-आदेशे कृते “दिऊ + भ्याम्” इति स्थितिः जायते । ततः पूर्वं बाधितः उकारादेशः पुनः प्रसङ्गविज्ञानात् सिद्धम् इति परिभाषया पुनः प्राप्नोति । अस्य उकारादेशस्य स्थानी अत्र ‘ऊ’ वर्णः इति अस्ति । अस्यां स्थितौ यदि प्रकृतसूत्रे दिव उ इत्येव उच्यते, तर्हि उकारेण सवर्णग्रहणे कृते, ऊकारस्य स्थाने तादृशः द्विमात्रिकः एव उवर्णः, इत्युक्ते, दीर्घः ऊकारः आदेशरूपेण विधीयेत । तत् तथा मा भूत् इति कारणात् दिव उत् (6.1.131) इति सूत्रेण तपरकरणम् कृतम् अस्ति । तपरकरणेन केवलम् तात्कालिक-भेदानाम् एव ग्रहणं भवति, येन दीर्घ-ऊकारस्य स्थाने अपि ह्रस्व -ऊकारः एव आदेशरूपेण विधीयते । अनेन प्रकारेण अस्मिन् सूत्रे तपरकरणम् सवर्णग्रहणस्य निषेधार्थम् उपयुज्यते — इति अस्य पक्षस्य आशयः । अस्मिन् सन्दर्भे भाष्ये, प्रदीपे च इत्थं विवरणम् लभ्यते — <source> <light>भाष्ये —</light> ऊठि कृते आन्तर्यतो दीर्घस्य दीर्घः प्राप्नोति । तदर्थं तपरः कृतः । <light>प्रदीपे कैयटः —</light> ऊठि कृते इति । द्युभ्याम् इत्यादौ परत्वाद् ऊठि कृते, पुनः प्रसङ्गविज्ञानात् उत्वं क्रियते । ऊठ्-विधौ तु क्ङिति इति नानुवर्तते इति पक्षम् आश्रित्य एतद् उक्तम् । </source> अयं पक्षः गौणरूपेण एव स्वीकार्यः, यतः अस्मिन् पक्षे च्छ्वोः शूडनुनासिके च (6.4.19) इत्यत्र ‘क्ङिति’ इत्यस्य (प्रायेण सर्वेः अपि अनुमन्यमाना) अनुवृत्तिः न हि स्वीक्रियते ।
Sutrartha (English)¶
The ‘दिव्’ word that is a पद also gets the उत्-आदेश.
Vasu English Summary¶
For the final of the nominal-stem दिव् , there is the substitution of उ , when it is a पद ((1.4.14) etc.).
Vasu English Translation¶
For the final of the nominal-stem दिव् , there is the substitution of उ , when it is a पद ((1.4.14) etc.). The portion पद of the word पदान्त must be read into this sutra from (6.1.109). The word दिव् is here a nominal-stem and not a verbal-root. Thus दिवि कामो यस्य = द्युकामः, द्युमान्, विमलद्यु दिनं, द्युभ्याम्, द्युर्भिः ॥ We have said that दिव् is here a pratipadika and not a dhatu, for as a dhatu it ought to have its servile letter anubandha and should have been read as दिवु ॥ In the case of its being used as a verb, there takes place the substitution of long ऊ for व् by (6.4.19). In that case we shall have अक्षद्यूभ्याम्, अक्षद्यूभिः ॥ The उत् with a त् shows that short उ is meant, and debars ऊठ (6.4.19). In the case of ऊठ् substitution the forms will be द्यूभ्याम्, द्यूभिः ॥ The ऊठ् also comes because it is taught in a subsequent sutra. Why do we say ‘when it is a Pada’? Observe दिवौ, दिवः ॥
Bhashya¶
इर्3चाक्रवर्मणस्य (256) (उकारादेशाधिकरणम्) (तपरप्रयोजनभाष्यम्) किमर्थस्तकारः ? तपरस्तत्कालस्य (1.1.70) इति तत्कालो यथा स्यात् ॥ नैतदस्ति प्रयोजनम् । आन्तर्यतोऽर्द्धमात्रिकस्य व्यञ्जनस्य स्थाने मात्रिक उकारः सिद्ध्यति । न सिद्ध्यति ।ऊठि कृते आन्तर्यतो दीर्घस्य दीर्घः प्राप्नोति ॥ श्लोकभाष्यम् - तदर्थं तपरः कृतः । एवमर्थं तपरः क्रियते ॥
Kashika¶
एङः पदान्तादति (६.१.१०९) इत्यतः पदग्रहणमनुवर्तते। दिव इति प्रातिपदिकं गृह्यते न धातुः, सानुबन्धकत्वात्। दिवः पदस्योकारादेशो भवति। दिवि कामो यस्य द्युकामः। द्युमान्। विमलद्यु दिनम्। द्युभ्याम्, द्युभिः। निरनुबन्धकग्रहणात् (परि॰ ८१) इह न भवति — अक्षद्यूभ्याम्, अक्षद्यूभिरिति। तपरकरणमूठो निवृत्त्यर्थं द्युभ्याम्, द्युभिरिति। अत्र हि परत्वादूठ् प्राप्नोति। पदस्येति किम् ? दिवौ, दिवः॥
Siddhanta Kaumudi¶
दिवोऽन्तादेश उकारः स्यात्पदान्ते । सुद्युभ्याम् । सुद्युभिः । चत्वारः । चतुरः । चतुर्भिः । चतुर्भ्यः । चतुर्भ्यः ॥
Laghu Siddhanta Kaumudi¶
दिवोऽन्तादेश उकारः स्यात् पदान्ते । सुद्युभ्यामित्यादि ॥ चत्वारः । चतुरः । चतुर्भिः । चतुर्भ्यः ॥
Balamanorama¶
सुट् कात् पूर्वः (अडभ्यासव्यवायेऽपि) - सुट् कात्पूर्वः । षष्ठस्याद्यपादे इदं सूत्रम् ।संपरिभ्यां करोतौ भूषणे॑ ‘समवाये च’उपात्प्रतियत्ने॑त्यारभ्यअनुदात्तं पदमेकवर्जमित्यतः प्रागिदमधिकृतं वेदितव्यमित्यर्थः । एवं च कात्पूर्व इत्युक्तेरभ्यासात्प्राङ्नं सुडिति भावः । नन्वभ्यासेन व्यवधानात्कथमिह उत्तरखण्डस्य सुट्, संस्करोतीत्यादौ अव्यहिते सुड्विधेश्चरितार्थत्वात् । किंच समस्करोदित्यत्राऽटा व्यवधानात्कथं सुट् । नह्रडागमः कृञ्भक्तःत्वात् । विकरणान्तस्यैवाङ्गत्वादित्यत आह — अडभ्याससव्यवायेऽपीत्युक्तमिति ।वार्तिक॑मिति शेषः । अटा अभ्यासेन च व्यवधानेऽपि संपर्यादिभ्यः परस्मात्कात्पूर्वः सुडित्यर्थः । इत्यादीति । सुडित्येवाधिकृतमस्तु, ‘कात्पूर्वः’ इतिअडभ्यासव्यवायेऽपी॑ति मास्त्वित्येवं भाष्ये प्रत्याख्यातमित्यर्थः । तदेवोपपादयितुं प्रतिजानीते — तथा हीति । पूर्वं धातुरुपसर्गेण युज्यते इति ।पश्चात्साधनेने॑ति शेषः । ततश्च पूर्वोपनिपतितधातूपसर्गसम्बन्धनिमित्तकं कार्यं पश्चादनुपतिष्यद्धातुप्रत्ययसंबन्धनिमित्तकात्कार्यादन्तरङ्गम्, प्रथमोपस्थितत्वात् । तदुक्तं भाष्ये — पूर्वं धातुरुपसर्गेणेति कृत्वा धातूपसर्गयोः कार्यमन्तरङ्ग॑ मिति । तदाह — अन्तरङ्गत्वात्सुट् । ततो द्वित्वमिति । तथा सुटि कृते ‘स्कृ’ इत्यस्य द्वित्वे उरदत्त्वे रपरत्वे ‘शर्पूर्वाः खयः’ इति रेफसकारयोर्निवृत्तौ अभ्यासचुत्वे संचस्कारेति रूपसिद्धेः ‘कात्पूर्वः’ इति,अडभ्यासव्यवायेऽपी॑ति च न कर्तव्यमिति भावः । एवं समस्करोदित्यत्रापि विकरणान्ताऽङ्गभक्ताऽडागमापेक्षयाऽन्तरङ्गत्वात्प्रथमं सुड्भविष्यतीति कृत्वाअड्व्यवायेऽपी॑त्यंशो न कर्तव्य इत्यूह्रम् ।पूर्वं धातुरुपसर्गेणे॑त्याश्रयणे फलान्तरमप्याह — एवं चेति । उक्तरीत्या अन्तरङ्गत्वात्सुटि कृते संस्कृ इत्यस्माल्लिटोऽतुसिऋतश्च संयोगादेर्गुणः॑ इति गुणे संचरस्करतुरिति सिद्ध्यति ।पूर्वं धातुः साधनेन युज्यते॑ इत्याश्रयणे तु चक्रतुरिति परिनिष्ठितस्य समित्युपसर्गयोगात्संयोगादित्वाऽभावाद्गुणस्याऽसिद्धिरिति भावः । ननु संचस्करिव, संचस्करिथ इत्यत्र चकृसृवृभृ॑इतिऋतो भारद्वाजस्ये॑ति च इण्निषेधः स्यादित्यत आह — कृसृभृवृसूत्रे इत्यादि । नन्वाशीर्लिङि संस्क्रियादित्यत्रगुणोऽर्तिसंयोगाद्यो॑रिति गुणः कुतो नेत्यत आह — गुणोऽर्तीत्यादि । ननु तङि संस्कृषीष्ट इति लिङि, समस्कृत समस्कृत समस्कृषातामिति लुङि चऋतश्च संयोगादे॑रिति इट् कुतो नेत्यत आह-ऋतश्चेत्यादि ॥ इति बालमनोरमायाम् तनादयः॥अथ तत्पुरुषसमासप्रकरणम् । — — — — — — — — — —
Tattvabodhini¶
दिव उत् - दिव उत् । तपरकरणमिहद्युभ्या॑मित्यादावुकारस्य संप्रसारणत्वात्हलः॑इति दीर्घे प्राप्ते तन्निवारणायेत्याहुः । इति वान्ताः । चत्वार इति ।चतेरुरन्इत्युरन्प्रत्ययान्तश्चतुर्श ब्दः । ततो जसिचतुरनडुहो॑रित्याम् ।
Padamanjari¶
पदग्रहणमनुवर्तत इति। अन्तग्रहणेनोपसमस्तमपि केवलं पदग्रहणमेवानुवर्तते, ततश्चार्थात् षष्ठ।ल्न्तं जायते, दिवशब्देन विशेषणातदन्तविधिः,’ग्रहणवता प्रातिपदिकेन’ इति तु प्रत्ययविधिविषयम्। व्यपदेशिवद्भावात् केवलस्यापि भवितव्यम्,’व्यपदेशिवद्भावो’ प्रातिपदिकेनऽ इत्येतदपि प्रत्ययविधिविषयमेव। सानुबन्धकत्वादिति। दीव्यतेर्धातोरुकारोऽनुबन्धः, प्रातिपदिकस्य तु न कश्चिदनुबन्धः। दिवः पदस्येति। तदन्तस्य पदस्येत्यर्थः। द्यौकाम इति। दिवं कामयते इति’शीलिकामिभिक्षाचरिभ्यो णः’ विमलद्यौ इति। विमला द्यौरऽस्मिन्निति बहुव्रीहिः। अक्षद्यौभ्यामिति। अक्षशब्द उपपदे दीव्यतेः क्विप्, तत्र’च्छवोः शूडनासिते च’ इत्यूठ। अथ तपरकरणं किमर्थम्, यद्यपि ठृत उत्ऽ इति तपरकरणेन ज्ञापितम् -ठ्भाव्यमानोऽप्युकारः सवर्णान् गृह्णातिऽ इति, तथाप्यान्तर्थतोऽर्द्धमात्राकालस्य व्यञ्जनस्य मात्रिक एव भविष्यति? इत्यत आह -तपरकरणमिति। यद्यप्यनेन दीर्घो न प्राप्नेति, प्राप्नोति, लक्षणान्तरेण तु प्राप्तोतीत्याह -द्यौभ्याम्, द्यौभिरिति। उत्वस्यावकाशो यत्रायजादिपरः -विमलद्यौ, ऊठोऽवकाशः -द्यौउत्वा, द्यौउतम्; यत्र तूभयोः प्रसङ्गस्तत्र परत्वादूठ प्राप्नोति, तपरकरणादुत्वमेव भवति। यदि प्राप्तस्योठो निवृत्यर्थं तपरकरणमित्युच्यते एवं तर्हि’चछवोः शूडनुनासिते च’ इत्यत्र’कथं द्यौभ्याम्, द्यौभिः’ इति परेण चोदिते यद्वक्ष्यति -ठूठि कृते दिव उदिति तपरकरणानामात्राकालो भविष्यतिऽ, तद्विरुद्ध्यते, तस्य ह्यौउठि कृते तस्यैवोठो मात्राकालो भविष्यतीत्ययमर्थः ? नैषः दोषः; ठूठि कृतेऽ इत्येतस्य पूर्वेण चोद्यग्रन्थेन सम्बन्धः -ठ्कथं द्यौभ्यां द्यौभिरिति, ऊठि कृतेऽ इति;’दिव उत् इति तपरकरणात् मात्राकालो भविष्यति’ इत्येतावान् परिहारग्रन्थः। तपरकरणस्य तूण्निवृत्तिरेव प्रयोजनम्। तस्मादुत्वमेवात्र कर्तव्यम्, न पुनरुडित्यर्थः ॥
Nyaas¶
सानुबन्धकत्वात् इति। कस्य धातोरनन्तरम्? प्रकृतत्वात्? तस्यैव। दीव्यतिर्घातुः सानुबन्धः, प्रतिपदिकं तु दिवित्येतन्निरनुबन्धकम्, निरनुबन्धकस्य च सूत्र उपादानम्; तस्मात्? निरनुबन्धकस्य ग्रहणे न सानुबन्धकस्य (व्या।प।53) इति प्रातिपदिकस्येदं ग्रहणम्, न धातोरिति। द्युकामः इति। दिविकामोऽस्येति बहुव्रीहिः, दिवं कामयत इति वा। शीलिकामिभिक्षाचरिभ्यो णो वक्तव्यः (वा।229) इति णप्रत्ययः। द्युमान इति। द्यौरस्यास्तीति तदस्यास्त्यस्मिन्निति मतुप् (5.2.94) । विमलद्यु दिनम् इति। विमला द्यौरस्मिन्निति बहुव्रीहिः। अक्षद्यूभ्याम्, अक्षद्यूभिः इति। अक्षशब्द उपपदे दीव्यतेर्धातोः क्विप्, च्छ्षोः शूडनुनासिके च (6.4.19) इत्यूठ्। अथ तपकरणं किमर्थम्, यावता यद्यपि ऋत उत् (6.1.111) इत्यत्र तपकरणेन भाव्यमानोऽप्युकारः सवर्णान्? गृह्लाति (चां।प।पा।44) इति ज्ञापितम्, तथाप्यत्रान्तर्यतोऽद्र्धमात्राकालस्य व्यजञ्जनस्य मात्रिक एव भविष्यति; न दीर्घः? इत्यत आह -तपकरणम् इत्यादि। यद्यप्यनेन दीर्गो न प्राप्नोति, लक्षणान्तरेण तु द्युभ्यां द्युभिः -इत्यत्रोठ्? प्राप्नोति, अतः स मा भूदित्येवमर्थं तपरकरणम्। स्यादेतत्। ननु चोठ्प्राप्तिरेव नास्ति, किं तन्निवृत्त्यर्थेन तपरकरणेन? इत्यत आह -द्युभ्याम्, द्युभिः इति। अत्र हि इत्यादि। उत्त्वस्यावकाशो यत्र झलादिः क्विप्परो न विद्यते -विमलद्यु दिनमिति, ऊठोऽवकाशः -अक्षद्यूभ्यामिति; द्युभ्यामित्यादावुभयप्रसङ्गे परत्वादूठ् प्राप्नोति, तपरकरणादुत्त्वमेव भवति। यदि तर्हि प्राप्तस्योठो निवृत्त्ये तपरकरणं क्रियते, एवं सति चछ्वोः शूडनुनासिके च (6.4.19) इत्यतर कथं द्युभ्याम्? द्युभिः इति परेण चोदिते यद्वक्ष्यति -ऊठि कृते `दिव उत् इति परत्वान्मात्राकालो भविष्यति` इति, तद्विरुध्यते; तस्योठि कृतेऽभिनिवृत्ते तस्य स्थाने मात्राकाल उकारो भविष्यतीत्ययमर्थः? नास्ति विरोधः; ऊठि कृते इत्यस्य हि ग्रन्थस्य पूर्वेण चोद्यग्रन्थेन सह सम्बन्धः, नेतरेण परिहारग्रन्थेन। तत्र केचिदत्र क्ङितीति नानुवर्तयन्ति इत्यस्मिन्? दर्शनान्तरे उपन्यस्ते कथं द्युभ्यां द्युभिरित्यूठि कृते इति देश्यम्। तत्रायं चोदयितुरभिप्रायः -यदि क्ङितीति नानुवर्तेत, तदा द्युभ्यां द्युभिरितयतराप्यूडेव कर्तवयः, ततश्चोठि कृते कथं द्युभ्यां द्युभिरिति सिध्यति, यावता द्यूभ्यां द्यूभिरिति भवितव्यमित्यस्य देश्यस्य दिव उत् इति तपरत्वान्मात्राकालो भविष्यतीत्येष परिहारः। अत्राप्ययं परिहर्तरभिप्रायः -तपरकरणस्यैतदेव प्रयोजनम् -ऊठ्? मा भूदति; अन्यथा तदनर्थकं स्यात्, तस्मादुत्त्वमेव कर्तव्यम्? न तूड्भाव इति। ये तु क्ङिति इत्यनुवर्तयन्ति, तेषां तपरकरणं विस्पष्टार्थम्॥
Praudhamanorama¶
सुद्युभ्यामिति। उकारस्य सम्प्रसारणत्वात् ‘हलः’ इति दीर्घः प्राप्त ‘उत्’ इतितपरत्वसाममर्थ्यान्न भवति। यत्तु प्राचोक्तम्—‘दिवो वा आत्वममि’ इति; तदुपेक्षितम्, मुनित्रयानुक्तेर्निष्फलत्वाच्च। द्यामिति रूपं तु द्योशब्दस्यैवेति बोध्यम्॥ इति वान्ताः ॥
Prakriyasarvasvam¶
पदस्य दिव उत् स्यात् । वस्योत्त्वम्, यण् । द्युनाथः । द्युवासी । <karika>असवर्णऽचि परतो दिव उत्त्वं निषिध्यते । मुग्धबोधाभिधे सूत्रे दिवीशो द्युपरिस्थितः ॥ ४३८ ॥</karika> <karika>वृष्णो वसौ परे भत्वं छान्दसं लोक इष्यते । अपदत्वान्नलोपो न वस्विन्द्रस्य वृषण्वसु ॥ ४३९ ॥</karika> तत्तुल्यवसुमानपि वृषण्वसुः इति ॥ अथ षात्वणत्विकम् - ‘छन्दसि सहः’ (३-२-६३) इति ण्विप्रत्ययस्य लोकेऽपीष्टत्वात् तुरं वेगिन सहत इति तुरसाह् । ‘अन्येषामपि दृश्यत’ (६-३-१३७) इति दीर्घः । तुरासाह् । पदत्वे जश्त्वम् । ‘हो ढः’ (८-२-३१) तुरासाड् ॥
Sudha¶
सुद्यभ्यामिति । सुदिव् + भ्याम् अत्र **दिव उत्**(6.1.131) इति वकारस्योकारादेशे **इको यणचि**(6.1.77) इति यणि ‘सुद्यभ्याम्’ इति रूपम् । इत्यादीति । सुदिवे, सुदिवोः, सुदिवाम् । सुद्युषु । चत्वारः । चतुर् + जस् अत्र **सुडनपुंसकस्य**(1.1.43) इति सर्वनामस्थानसंज्ञायां **चतुरनडुहोरामुदात्तः**(7.1.98) इति मित्त्वादन्त्यादचः परे आमिमस्येत्संज्ञायां लोपे च **इको यणचि**(6.1.77) इति यणि चत्वार् + जस् इति जाते जस्य **चुटू**(1.3.7) इतीत्संज्ञायां **तस्य लोपः**(1.3.9) इति लोपे सस्य रुत्वे रेफस्य विसर्गत्वे च ‘चत्वारः’ इति रूपम् । चतुरः । शसादौ सर्वनामस्थानत्वाभावान्नाम् ।