61130: ई३ चाक्रवर्मणस्य¶
Padacheda: ई३ | S | | | 1
चाक्रवर्मणस्य | S | 6 | 1 |
Sutrartha¶
चाक्रवर्मणस्य मतेन प्लुतः ईकारः संहितायाम् अचि परे अप्लुतवत् भवति ।
प्लुत-ईकारात् संहितायाम् अच्-वर्णः अग्रे अस्ति चेत् चाक्रवर्मणस्य मतेन (इत्युक्ते, विकल्पेन) सः प्लुतः ईकारः अप्लुतवत् कार्यं करोति — इत्युक्ते तत्र प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इत्यनेन प्रकृतिभावः न विधीयते अपितु यथायोग्यं सन्धिकार्यम् भवति — इति अस्य सूत्रस्य आशयः ।यथा — <listsp> 1. “चिनुहि3 इदम्” इत्यत्र हकारात् परः विद्यमानः इकारः प्लुतः अस्ति, अतः प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इत्यनेन अत्र नित्यं प्रकृतिभावे प्राप्ते; अयं प्लुतः प्रकृतसूत्रेण विकल्पेन अप्लुतवत् अपि कार्यम् करोति, अतः अकः सवर्णे दीर्घः (6.1.101) इत्यनेन सवर्णदीर्घे कृते “चिनुहीदम्” इति अपि रूपं जायते । 2. “चिनुहि3 + इति” इत्यत्र अप्लुतवदुपस्थिते (6.1.129) इत्यनेन प्लुत-ईकारस्य नित्यम् अप्लुतवत्त्वे प्राप्ते, प्रकृतसूत्रेण तद् विकल्प्यते । अतः पक्षे अकः सवर्णे दीर्घः (6.1.101) इत्यनेन सवर्णदीर्घे कृते “चिनुहीति” इति अपि रूपं जायते । </listsp> <note>अस्मिन् सूत्रे चाक्रवर्मणस्य इति ग्रहणम् विकल्पविधानार्थम् अस्ति । </note>
उभयविभाषा
ईकारात् इति-शब्दे परे अप्लुतवदुपस्थिते (6.1.129) इत्यनेन प्राप्तः नित्यविधिः प्रकृतसूत्रेण विकल्प्यते । अन्येषु अजादिशब्देषु परेषु पूर्वम् अप्राप्तः विधिः अनेन सूत्रेण विकल्पेन विधीयते । अनेन प्रकारेण कुत्रचित् प्राप्तविभाषारूपेण, कुत्रचित् च अप्राप्तविभाषारूपेण — इति द्वयोः प्रकारयोः इदं सूत्रम् उपयुज्यते, अतः अस्मिन् सूत्रे उभयविभाषा प्रयुक्ता अस्ति इति निर्णयः ।
Sutrartha (English)¶
According to चाक्रवर्मण, the प्लुतः ईकारः behaves as if it is not प्लुत when followed by an अच्-letter in the context of संहिता.
Vasu English Summary¶
According to the opinion of चाक्रवर्मण , the प्लुत ई3 followed by a vowel is treated like an ordinary vowel.
Vasu English Translation¶
According to the opinion of चाक्रवर्मण , the प्लुत ई3 followed by a vowel is treated like an ordinary vowel. Thus अस्तु हीत्यब्रवीत or अस्तु ही३ इत्यब्रवीत् ॥ चिनु हीदम् or चिनु ही३ इदम् ॥ The name of Chakravarmana is used for the sake of making this an optional rule. This option applies to इति rule (6.1.129) as well as to words other than इति ॥ In the case of इति it allows sandhi optionally, when by the last rule there would have been always sandhi. In the case of words other than इति, it ordains prakriti bhava optionally, when there would have been always prakriti bhava by (6.1.125). This is a case of उभयत्रविभाषा, prapta and aprapta both.
Ishti:- This apluta-vad-bhava applies to pluta vowels other than इ; as वशा ३ इयम् or वशेयम् ॥
Bhashya¶
इर्3चाक्रवर्मणस्य (2567) (वार्तिकावतरणभाष्यम्) किमर्थमिदमुच्यते ? (6238 प्रयोजनवार्तिकम् ॥ 1 ॥) - इर्3 चाक्रवर्मणस्येत्यनुपस्थितार्थम् - अनुपस्थितार्थोऽयमारम्भः । चिनु ही3 इदम् - चिनु हीदम्, सुनु ही3 इदम्-सुनु हीदम् ॥ (ईकारप्रत्याख्यानभाष्यम्) ईकारग्रहणेन नार्थः, अविशेषेण चाक्रवर्मणस्याचार्यस्याप्लुतवद्भवतीत्येव । इदमपि सिद्धं भवति - वशा 3 इयम्, वशेयम् ॥
Kashika¶
ई३कारः प्लुतोऽचि परतश्चाक्रवर्मणस्याचार्यस्य मतेनाप्लुतवद् भवति। अस्तु हीत्यब्रूताम्। अस्ति हि३ इत्यब्रूताम्। चिनु हीदम्। चिनु हि३ इदम्। चाक्रवर्मणग्रहणं विकल्पार्थम्, तदुपस्थिते निवृत्त्यर्थम् अनुपस्थिते प्राप्त्यर्थमित्युभयत्रविभाषेयम्। ईकारादन्यत्राप्ययमप्लुतवद्भाव इष्यते। वशा३ इयं वशेयम्॥
Siddhanta Kaumudi¶
ई3 प्लुतोऽचि परेऽप्लुतवद्वा स्यात् । चिनुही3 इति । चिनुहीति । चिनुही3 इदम् । चिनु हीदम् । उभयत्रविभाषेयम् ॥
Balamanorama¶
ई३ चाक्रवर्मणस्य - ई३चाक्र । ई३ इति प्लुतस्य लुप्तप्रथमाविभक्तिको निर्देशः । उपस्थित #इत्यस्वरितत्वान्निवृत्तम् ।अप्लुतव॑दित्यनुवर्तते ।इको यणची॑त्यतोऽचीत्यनुवर्तते । चाक्रवर्मणमुनेर्मते ईकारोऽचि परेऽप्लुतवद्भवति, नत्वन्यमत इत्यर्थः । तदाह-प्लुतोऽचीत्यादि । चिनु हि३ इदमिति ।किं मया कर्तव्य॑मिति पृष्टस्यैदं प्रतिवचनम् ।चिन्वि॑ति लोडन्तम् ।उतश्च प्रत्यया॑दिति हेर्लुक् ।हीति त्वव्ययम् ।विभाषा पृष्टप्रतिवचने हेः॑ इति तस्य प्लुतः । चिन्वित्यतः प्राग्देवदत्ते॑त्यध्याहार्यम् ।इद॑मिति तु वाक्यान्तरस्थं, नतु चिन्वित्येतेनैकवाक्यतामापन्नम् । अन्यथावाक्यस्य टे॑रित्यधिकाराद्धिशब्दे इकारस्य प्लुतो न स्यात् । उभयत्रेति । इतिशब्दे परतो नित्यतया प्राप्ते, तदन्यत्राऽप्राप्ते चारम्भादुभयत्र विभाषेयमित्यर्थः । विभाषाशब्दस्त्वव्ययमिति न ब्रामतिव्यं,न वेति विभाषाया॑मिति भाष्यप्रयोगात् । विभाष्यते विकल्प्यत इति विभाषा । ‘गुरोश्च हल’ इत्यप्रत्ययः । टाप् ।
Tattvabodhini¶
ई३ चाक्रवर्मणस्य - चिनु हीति ।चि॑न्विति लोडन्तम् ।ही॑त्यव्ययम् ।अनन्त्यस्यापि प्रश्नाख्यानयोः॑ इत्यनेन प्लुतः । उभयत्रविभाषेयमिति ।इति॑ शब्दे परतः पूर्वेण प्राप्ते, अन्यत्राऽप्राप्ते चारम्भादिति भावः ।
Padamanjari¶
सूत्रे ई चेति त्रिमात्रिकस्य निर्द्देशः। अचि परत इति। उपस्थितग्रहणं चास्वरितत्वान्निवृतम्। अस्तु ही3 इत्यब्रूतामिति।’विभाषा पृष्टप्रतिवचने हेः’ इति प्लतः, अस्तेर्लोटि तिप्, ठेरुःऽ। तदुपस्थिते निवृत्यर्थमिति। तत्र पूर्वेणाप्लुतवद्भावस्य नित्यप्राप्तत्वात्, अनुपस्थिते प्राप्त्यर्थमिति, तत्र केनचिदप्राप्तत्वात्। ईकारादन्यत्रापीति। तथा च भाष्यम् -ठीकारग्रहणेन नार्थःऽ इत्यादि ॥
Nyaas¶
अचि परतः इति। एतेन उपस्थिते इत्येतन्निवृत्तम्; अस्वरितत्वादिति सूचयति। अस्तु ही 3 इति। असु क्षेपणे, (धातुपाठः-1209) लोट्, सिप्। सेह्र्रपिच्च (3.4.87) इति सेहिः, व्यत्यनेन श्लुः। क्षियाशीः-प्रैषेषु तिङाकाङ्क्षम् (8.2.104) इति प्लुतः। तदुपस्थिते निवृत्त्यर्थम् इति। तत्र पूर्वेणाप्लुतवद्भावस्य नित्यं प्रापतत्वात्। अनुयस्थिते प्राप्त्यर्थम् इति। तत्र केनचिदप्राप्तत्वात्। ईकारात् इत्यादि। कथं पुनरिकारादन्यत्रापीष्यमाणोऽप्येषोऽप्लुतवदभावो लभ्यते? इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च (6.1.127) इत्यतोऽनुवृत्तस्य चकारस्यानुक्तसमुच्चयार्थत्वात्॥
Prakriyasarvasvam¶
तन्मते ई इति प्लुतोऽप्लुतवत् स्यात् । प्लुतकृतप्रकृतिभावं न प्राप्नोतीत्यर्थः । तेन वा सन्धिः । लक्ष्म्येहि । लक्षिम३ एहि ।